42066: छन्दोब्राह्मणानि च तद्विषयाणि¶
Padacheda: छन्दस्-ब्राह्मणानि | S | 1 | 3 |
च | S | 0 | 0 |
तद्-विषयाणि | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
The affixes denoting the Announcer when added to छन्दस् (Vedas) and the ब्राह्मण-sūtras express this relation only.
Vasu English Translation¶
The affixes denoting the Announcer when added to छन्दस् (Vedas) and the ब्राह्मण-sūtras express this relation only. The word प्रोक्त is to be read into this sutra. The force of the affixes denoting announcer (4.3.101), when used after a word denoting a Vedic Text or a Brahmana, is that of expressing “one who studies” or “one who knows”. तद्विषयाणि means “this relation”, i.e. the subject treated of in this section, namely, the relation of अध्येतृ or वेदितृ ॥ In other words, the affixes, which ordinarily denote ‘announcer’, have the force of “one who studies or one who knows” when added to Veda-Text or Brahmanas. That is, a प्रोक्त affix should not be added to a Veda or a Brahmana, except when an अध्येतृ or वेदितृ affix follows it, and as such latter affixes are always elided by (4.2.94), it follows that a प्रोक्त affix when added to a Veda or a Brahmana, means “he who studies or knows the Veda anounced by”. In fact there is no affix which can denote merely the announcer of a Veda, perhaps because the Vedas are eternal and no one can be its announcer only, but must be one who has studied it and known it, in order to qualify him to promulgate it.
Thus from the word कठ, the name of a Veda-Text, we get कठाः meaning ‘those who study or know Katha Veda’. The word is thus formed. To the word कठ we add the affix णिनि denoting announcer, by (4.3.104) : then we elide it by (4.3.107), leaving the bare word कट, then we add अण्, which again we elide by (4.2.64). कठ + णिनि = कट + o (4.3.107); कठ + अण् = कठ (4.2.64) Plural कठाः “those who study the Veda announced by Katha”.
Other examples to illustrate this sutra are: मौदाः (4.3.101) ‘who study the Veda announced by Muda’. पैप्पलादः, आर्चाभिनः (4.3.104) वाजसनेयिनः (4.3.106) “who study the Veda announced by Pippalada, Richava, or Vajasaneya”. Similarly with words denoting a Brahmana-Text. Thus : ताण्डिनः (4.3.104), भाल्लविनः (4.3.105), शाट्यायनिनः (4.3.105) ऐतरेयिणः (4.3.105) “who study the Brahmanas announced by Tandya, Bhallava, Satyayana, or Aitareya”.
Why is the word Brahmana which is also Chhandas, used separately in this sutra? In order to include only a certain limited number of Brahmana Texts to the benefits of this rule, and not all. Thus it will not apply to the Brahmana announced by Yajnyavalkya. Thus याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि = याज्ञवल्क्यानि ॥ Similarly सौलभानि ॥ These Brahmanas being of recent origin, the presumption of eternity does not apply to them, See (4.3.105).
The word च meaning “and” is employed in the sutra. It has the force of applying this rule to some other cases not specially mentioned in the sutra. Thus it will apply to some Kalpa Texts and Sutra Texts also. Thus काश्यपिनः, कौशिकिनः “who study or know the Kalpa texts announced by Kasyapa or Kusika” so also sutra : as, “the पाराशरिणो भिक्षवः “the Bhikshus who study the Sutras promulgated by Parasara”. शैलालिनो नटाः, कर्मन्दिनः, कृशश्विनः &c.
Why do we say “Chhandas and Brahmanas”? Because the प्रोक्त affix after any other word will have its own significance, pure and simple; as, पाणिनीयं व्याकरणम् ॥ पैङ्गीकल्पः ॥
The Quadruply-significant affixes.
Bhashya¶
छन्दोब्राह्मणानि च तद्विषयाणि (1487) (छन्दोब्राह्मणानां तद्विषयाधिकरणम्) (इष्टसिद्धिविषयकजिज्ञासाभाष्यम्) किमर्थमिदमुच्यते? (5380 सूत्रविषयप्रदर्शकं वार्तिकम्॥ 1 ॥) - अन्यत्राभिधेयस्यानित्यत्वात् छन्दोब्राह्मणानां तद्विषयवचनम् - (भाष्यम्) अन्यत्राभिधेयमनित्यं भवति। पाणिनीयमिति वा भवति, पाणिनीया इति वा। अन्यत्राभिधेयस्यानित्यत्वाच्छन्दोब्राह्मणानामप्यनित्यता प्राप्नोति। इष्यते च तद्विषयतैव स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति च्छन्दोब्राह्मणानां तद्विषयवचनम्॥ (प्रयोजनान्तरावतारकं भाष्यम्) एवमर्थमिदमुच्यते? अस्ति प्रयोजनमेतत्। किं तर्हीति? (5381 पूर्वोक्तविषयसंग्रहाभावप्रदर्शकं वार्तिकम्॥ 2 ॥) - तत्र यथाधिकारं तद्विषयप्रसङ्गः - (भाष्यम्) तत्र यथाऽधिकारं तद्विषयता प्राप्नोति। अधीते -वेदेति वर्तते, तेनाध्येतृवेदित्रोरेव तद्विषयता स्यात्; येऽन्य उपचारास्तत्र न स्यात्। यथेह भवति -पाणिनीयं महत्सुविहितमिति, एवमिहापि स्यात् -कठं महत्सुविहितमिति॥ (5382 सिद्धान्तवार्तिकम्॥ 3 ॥) - सिद्धं तु प्रोक्ताधिकारे तद्विषयवचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? प्रोक्ताधिकार एव तद्विषयता वक्तव्या। तेन प्रोक्तम् (4.3.101) छन्दोब्राह्मणान्यध्येतृवेदित्रोः इति॥ तत्तर्ह्यध्येतृवेदितृग्रहणं कर्तव्यम्। ननु चेहापि क्रियते। परार्थमेतद्भवति -तदधीते -तद्वेदेति। एवं तर्हि -यावदिह -च्छन्दोब्राह्मणग्रहणम्, तावत्तत्राध्येतृवेदितृग्रहणम्। ननु च तत्रापि क्रियते। परार्थं तद्भविष्यति -पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (4.3.105) शौनकादिभ्यश्छन्दसि (106) इति। इह वा छन्दोब्राह्मणग्रहणं क्रियते, तत्र वाऽध्येतृवेदितृग्रहणम्, कोन्वत्र विशेषः॥ (5383 अनिष्टनिरासे वार्तिकम्॥ 4 ॥) - याज्ञवल्क्यादिभ्यः प्रतिषेधः - (भाष्यम्) याज्ञवल्क्यादिभ्यः प्रतिषेधो वक्तव्यः। याज्ञवल्कानि ब्राह्मणानि, सौलभानि। किं प्रोक्ताधिकारे तद्विषयता क्रियत इत्यतो याज्ञवल्क्यादिभ्यः प्रतिषेधो वक्तव्यः? नेत्याह। सर्वथा याज्ञवल्क्यादिभ्यः प्रतिषेधो वक्तव्यः॥ (5384 पूर्ववार्तिकप्रत्याख्याने वार्तिकम्॥ 5 ॥) - इनिर्वा प्रोक्ते तद्विषयः - (भाष्यम्) अथवा इनिः प्रोक्ते तद्विषयो भवतीति वक्तव्यम्॥ (वार्तिकाक्षेपभाष्यम्) यदि -इनिः प्रोक्ते तद्विषयो भवतीत्युच्यते, एवमपि पैङ्गी कल्पः, अत्रापि प्राप्नोति॥ (5385 समाधानवार्तिकम्॥ 6 ॥) - काश्यपकौशिकग्रहणं च कल्पे नियमार्थम् - (भाष्यम्) काश्यपकौशिकग्रहणं कल्पे नियमार्थं द्रष्टव्यम्। काश्यपकौशिकाभ्यामेवेनिः कल्पे तद्विषयो भवति, नान्येभ्य इति॥ (आक्षेपभाष्यम्) एवमपि छणादीनां तद्विषयता न प्राप्नोति -तैत्तिरीयाः, वारतन्तवीयाः॥ (समाधानभाष्यम्) यदि पुनश्छणादयः प्रोक्ते तद्विषया भवन्तीत्युच्येत॥ (प्रत्याक्षेपभाष्यम्) एवमपि पैङ्गीकल्पः, अत्रापि प्राप्नोति॥ (प्रत्याक्षेपे समाधानभाष्यम्) काश्यपकौशिकग्रहणं च कल्पे नियमार्थमित्येव॥ (पुनः प्रत्याक्षेपभाष्यम्) एवमप्यौत्सर्गिकाणां तद्विषयता न प्राप्नोति -क्रौडाः, काङ्कताः, मौदाः, पैप्पलादाः॥ (दोषान्तरदर्शनेन प्रत्याक्षेपनिरासभाष्यम्) छणादयश्चाप्यौत्सर्गिकानध्येतृवेदित्रोरेव बाधेरन्, येऽन्ये उपचारास्तत्र न बाधेरन् -तित्तिरिणा प्रोक्ताः श्लोका इति॥ (वार्तिकान्यथासिद्धिकरणेनोपसंहारभाष्यम्) अस्तु तर्ह्यविशेषेण। ननु चोक्तं याज्ञवल्क्यादिभ्यः प्रतिषेध इति। वक्ष्यत्येतत् -याज्ञवल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वादिति, तत्रैव वक्तव्यम् -तद्विषयता च न भवतीति॥ कथं काश्यपिनः, कौशिकिन इति? इनिः प्रोक्ते तद्विषयौ भवतीत्युच्यमाने -अवश्यमत्र काश्यपकौशिकग्रहणं कल्पे नियमार्थं द्रष्टव्यम्। तदेवेदानीं विध्यर्थं भविष्यति॥ कथं पाराशरिणो भिक्षवः, शैलालिनो नटाः? अत्रापि तद्विषयता चेत्यनुवर्तिष्यते॥
Kashika¶
प्रोक्तग्रहणमनुवर्तते। छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाण्येव भवन्ति। अध्येतृवेदितृप्रत्ययविषयाणि। अनन्यभावो विषयार्थः। तेन स्वातन्त्र्यमुपाध्यन्तरयोगो वाक्यं च निवर्तते। कठेन प्रोक्तमधीयते कठाः। मौदाः। पैप्पलादाः। आर्चाभिनः। वाजसनेयिनः। ब्राह्मणानि खल्वपि — ताण्डिनः। भाल्लविनः। शाट्यायनिनः। ऐतरेयिणः। ब्राह्मणग्रहणं किम्, यावता छन्द एव तद् ? ब्राह्मणविशेषप्रतिपत्त्यर्थम्, इह तद्विषयता मा भूत् — याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्कानि। सौलभानि। चकारोऽनुक्तसमुच्चयार्थः। कल्पे — काश्यपिनः। कौशिकिनः। सूत्रे — पाराशरिणो भिक्षवः। शैलालिनो नटाः। कर्मन्दिनः। कृशाश्विनः। छन्दोब्राह्मणानीति किम् ? पाणिनीयं व्याकरणम्। पैङ्गी कल्पः॥
Siddhanta Kaumudi¶
छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अद्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाण्णिनिः । तस्य कठचरकात् -(SK1487) इति लुक् । ततोऽण्, तस्य प्रोक्ताल्लुक् (SK1274) ॥
Balamanorama¶
छन्दोब्राह्मणानि च तद्विषयाणि - छन्दोब्राआहृणानि । छन्दांसि-मन्त्राः, ब्राआहृणानि-विधिवाक्यानि । तेषां द्वन्द्वः । वेद इति यावत्,मन्त्रब्राआहृणोर्वेदनामधेय॑मिति स्मरणात् ।प्रोक्ताल्लु॑गित्यतः प्रोक्तादित्यनुवर्तते । प्रथमाबहुवचनेन विपरिणम्यते । प्रोक्तप्रत्ययान्तानीति लभ्यते । तदाह — छन्दांसीत्यादिना । तद्विषयाणीत्यत्र तच्छब्देन अध्येतृवेदितृप्रत्यया विवक्षिताः । तैर्विषयः=अविनाभावो येषां तान — तद्विषयाणि ।षिञ्बन्धने॑ । विशिष्य सयो-बन्धः-विषयः । अविनाऽभाव इति यावत् । अध्येतृवेदितृप्रत्ययसंयुक्तान्येव स्युरित्यर्थः । फलितमाह — अध्येतृवेदितृप्रत्ययं विनेति । पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम् । पाणिनीयास्तदध्येतारो वेदितारो वेति वदध्येतृप्रत्ययं विनापि प्रयोगे प्राप्ते नियमार्थमिदम् । कठेनेति । कठेन प्रोक्तमधीयते इत्यर्थे ‘कठा’ इत्युदाहरणमिति भावः । तदुपपादयति — वैशम्पायनेति । कठेन प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणपवादःवैशम्पायनान्तेवासिभ्यश्च॑ इति णिनिरित्यर्थः । तस्येति । णिनेःकठचरकाल्लु॑गित्यनेन लुगित्यर्थः । एवंच कठेन प्रोक्तो वेदभागः कठ इति स्थितम् । ततोऽणिति । तस्माल्लुप्तप्रोक्तप्रत्ययकात्कठशब्दात्तदधीते इति अणित्यर्थः । तस्य प्रोक्ताल्लुगिति । तस्य=अध्येत्रणः, ‘प्रोक्ताल्लुक्’ इति लुगित्यर्थः । तथा च कठेन प्रोक्तमधीयते कठा इत्येवं कठशब्दस्य लुप्तप्रोक्तप्रत्ययान्तस्य अध्येत्रणा सहैव प्रयोगार्हता, नतु तेन विना केवलप्रोक्तप्रत्ययान्तस्येति भावः । **** इति बालमनोरमायाम् रक्ताद्यर्थक प्रकरणम् ।****अथ तनादयः ।अथ उविकरणधातवो निरूप्यन्ते । तनुधातुरुदित् ।उदितो वे॑ति प्रयोजनम् । तनादिकृञ्भ्य उः । कत्र्रर्थे सार्वधातुके तनादिभ्यः कृञश्च उप्रत्ययः स्यात्स्वार्थेइत्र्थः । शपोऽपवादः । तनोतीति । उप्रत्ययस्य तिपमाश्रित्य गुणः । तसादौ तु ङित्त्वान्न गुणः । तनुतः । झोऽन्तादेशे कृतेइको यणची॑ति यण् । तन्वन्ति । तनोषि तनुथः । तनुथ । तनोमि ।लोपश्चाऽस्यान्यतरस्या॑मित्यकारलोपविकल्पमभिप्रेत्याह — तन्वः तनुव इति । तङ्याह - तनुते इति । तन्वाते तन्वते ।तनुषे तन्वाथेतनुध्वे । तन्वे तनुवहे - तन्वहे तनुमहे - तन्हे । ततानेति । तेनतुः । तेनिथ । तेन । तेनिव । तङ्याह - तेने इति । तेनात् तेनिरे । तेनिषे तेनाथे तेनिध्वे । तेने तेनिवहे तेनिमहे ।तनिता । तनिष्यति । तनिष्यते । तनोतु- तनुतात् तनुताम् तन्वतु ।उतश्चप्रत्यया॑दिति हेर्लुकं मत्वाह — तन्विति । तनुतात् तनुतम् तनुत । तनवानि । तनवाव तनवाम । अतनोत् अतनुतामतन्वन् । अतनोः । अतनम्, अतन्व- अतनुव । तनुयात् । तन्वीत । तनिषीष्ट ।अतो हलादे॑रिति वृद्धिविकल्पं मत्वाऽऽह - अतनीत् अतानीदिति । अतनिष्टामतनिषुः । अतनीः अतनिष्टमतनिष्ट । अतनिषमतनिष्व अतनिष्म । वृद्धिपक्षे अतानिष्टामित्यादि । अतनिष्यत् । लुङस्तङि प्रतमैकवचने, मध्यमपुरुषैकवचने च विशेषमाह -
Tattvabodhini¶
छन्दोब्राह्मणानि च तद्विषयाणि - छन्दोब्राआहृणानि । इह मण्डूक प्लुत्यानुवृत्तंप्रोक्ता॑दिति पञ्चम्यन्तं जसन्तत्वेन विपरिणम्यते,छन्दोब्राआहृणानी॑त्यनेन सामानाधिकरण्यात् । प्रोक्तशब्दश्च प्रोक्तार्थके प्रत्यये लाक्षणिक इत्याशयेनाह -प्रोक्तप्रत्ययान्तानीति । तद्विषयाणीति । तच्छब्देन अध्येतृवेदितृप्रत्ययः परामृश्यते । विषयशब्दस्त्वलिहानन्यभाववाची न तु देशवाचीत्यभिप्रेत्येह -प्रत्ययं विना न प्रयोज्यनीत्यर्थ इति । पाणिनीयं पाणिनीया इतिवदनियमेन प्रयोगे प्राप्ते नियमार्थमेतदिति भावः । छन्दोग्रहणादेव सिद्धे ब्राआहृणग्रहणं चिरन्तनप्रोक्तब्राआहृणानामेव तद्विषयत्वार्थम् । तेनेह न -याज्ञवल्क्यादयो हि पाणिन्यपेक्षया नूतना इति वृत्तिकृतां व्यवहारः । चकारोऽनुक्तसमुच्चयार्थः । तेन काश्यपिनः कौसिकिन इत्यत्र कल्पेऽपि तद्विषयत्वं सिद्धम् ।काश्यपकौसिकाभ्यामृषिभ्या॑मिति प्रोक्ते णिनिः, अध्येत्रणो लुक् । छन्दोब्राआहृणानीति किम् । पाणिनीयं व्याकरणम् । इति तत्त्वबोधिन्याम् रक्ताद्यर्थकाः ।अथ रुधादयः ।
Padamanjari¶
प्रोक्तग्रहणमनुवर्तते इति । तद्ध्यनुवर्तमानमेव पूर्वसूत्र आरम्भसामर्थ्यान्न सम्बध्यते । च्छन्दांसि च ब्राह्मणानि चेति । तद्वाचीनि शब्दरूपाणीत्यर्थः । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात्, अप्रोक्तप्रत्ययान्तत्वाच्च । प्रोक्तप्रत्ययान्तानीति । प्रोक्तादिति पञ्चम्यन्तं प्रकृतं प्रथमाबहुवचनान्तं विपरिणम्यते,’च्छन्दोब्राह्मणानि’ इत्यनेन सामानाधिकरण्यादिति भावः । अध्येतृवेदितृप्रत्ययविषयाणीत्यनेनैतद्दर्शयति - तच्छब्देनाध्येतृवेदितृप्रत्ययः परामृश्यते, विधेयतया प्रधानत्वात्; नाध्येतृवेदितासवर्थौ, तयोः प्रत्ययविधौ गुणभावादिति । किं सिद्धं भवति ? अध्येतृविषयमपि वाक्यं निवर्तितं भवति । अनन्यभावो विषयार्थ इति । ग्रामसमुदायादिवृत्तिस्तु विषयशब्दोऽसम्भवान्न गृह्यते । अत्र यद्यधीते वेदेत्यनुवर्तेत, ततोऽध्येतृवेदितृविवक्षायामेव तद्विषयता विधीयेत, ततश्च तद्विषयमेव वाक्यं निवर्तयेत्, न क्रियान्तरविषयम्, नापि स्वातन्त्र्यमुपाध्यन्तरयोगं च । यदाह - तत्र’यथाधिकारातद्विषयप्रसङ्गः’ इति । तस्मात्प्रोक्तग्रहणमेवानुवर्तते, नाधीयते वेदेति । तच्छब्देन च प्रत्ययः परामृश्यते, विषयशब्दश्च अनन्यभावार्थः । तेन सर्वमेतत्स्वातन्त्र्यादि निवर्तते । आह च -‘सिद्धं तु प्रोक्ताधिकारे तद्विषयवचनात्’ इति । प्रोक्तग्रहणमेवाधिक्रियते, नाधीते वेदेत्येतावर्थावित्यर्थः । इह प्रोक्तप्रत्ययान्तस्य बहुप्रकारता दृश्यते - स्वातन्त्र्यम्, उपाध्यन्तरयोगः, वाक्यम्, अध्येतृवेदित्रोः प्रत्यय इति । स्वातन्त्र्यं तावत् - पाणिनिना प्रोक्तं पाणिनीयमिति । प्रोक्तार्थ एव वृत्तिः; उपाध्यन्तरयोगः । महत्पाणिनीयमिति वाक्यम् । पाणिनीयमधीत इति प्रत्ययः - पाणिनीयाश्छात्रा इति । च्छन्दोब्राह्मणवाचिनां तु प्रोक्तप्रत्ययान्तानां नित्यमध्येतृवेदितृप्रत्ययान्तवैवेष्यते, न तु स्वातन्त्र्यादि, तदर्थमिदमारभ्यते, तदाह - तेनेति । एवं च कृत्वाऽर्थद्वयस्यापिं तन्त्रेण विग्रहः कर्तव्य इति दर्शयति । कठेन प्रोक्तमधीयते कठाः, वैशम्पायनान्तेवासित्वाण्णिनिः, तस्य’कठचरकाल्लुक्’ इति लुक् ततः’तदधीते’ इत्यण्, ततस्तस्यापि’प्रोक्ताल्लुक्’ इति लुक् । मुदपिप्पलादशब्दाभ्यां प्रोक्तार्थो औत्सगिकोऽण् । शेषं यथायोगं पूर्ववत् । ऋचाभःउवैशम्पायनान्तेवासी । एवं ताण्ड।ल्ः । वाजसनेयशब्दः शौनकादिः । ताण्डिन इति । ठपत्यस्यऽ इति यलोपः । भाल्लविशब्द इञन्तः । शाट।ल्शब्दाद् गर्गादियञन्ताद्’यञिञोश्च’ इति फक् । ऐतरेयशब्दः शुभ्रादिढगन्तः, तेभ्यः’पुराणप्रोक्तेषु’ इति णिनिः, सर्वत्राध्येतृप्रत्ययस्य लुक् । ब्राह्मणविशेषप्रतिपत्यर्थमिति । ब्राह्मणस्य विशेषः पुराणप्रोक्तत्वम् । याज्ञवल्क्यानीति । याज्ञवल्क्यशब्दः कण्वादिः, सुलभादौत्सर्गिकोऽण्, अत्र स्वातन्त्र्यं भवति ।’पुराणप्रोक्तेषु’ इत्यत्र वक्ष्यति -‘याज्ञवल्क्यादयो ह्यचिरकालप्रवृता इत्याख्यानेषु वार्ता’ इति । काश्यपिनः, कौशिकिन इति ।’काश्यपकौशिकाभ्यामृषिभ्यां णिनिः’ । पाराशरिण इति । पाराशर्यशब्दाद् गर्गादियञन्तात्’पाराशर्यशिलालिभ्याम्’ इति णिनिः, पूर्ववद्यलोपः । कर्मन्दिन इति ।’कर्मन्दकृशाश्वादिनिः’ । पिङ्गशब्दात्पुराणप्रोक्तेषुऽ इति णिनिः ॥
Nyaas¶
प्रोक्तग्रहणमनुवर्तते इति। तच्चेहार्थात् प्रथमान्तं विज्ञायते छन्दोब्राआहृणानीत्यस्य समानाधिकरणार्थम्, अत आह - छन्दांसि ब्राआहृणानि च प्रोक्तप्रत्ययान्तानीति भवन्ति` (इति)। स्वरूपग्रहणमिह न भवति। तथा हि - प्रोक्तग्रहणमिहानुवर्तते, न च च्छन्दोब्राआहृणशब्दौ प्रोक्तप्रत्ययान्तौ। तस्माच्छन्दोब्राआहृणवाचिनो ये शब्दाः प्रोक्तप्रत्ययान्तास्ते गृह्यन्ते। किमर्थं पुनरिदमुच्यते? इह प्रोक्तप्रत्ययान्तस्य बहुप्रकारता लभ्यते। तथा हि क्वचित् तदन्तस्य स्वातन्त्र्यमुपलभ्यते, यता - पाणिनिना प्रोक्तं पाणिनीयं शास्त्रम्। प्रोक्तार्थ एव वृत्तिः स्वातन्त्र्यम्। पाणिनीय शब्दस्य चात्र प्रोक्तार्थ एव वृत्तिः। क्वचिदुपाध्यन्तयोगः, यथा - पाणिनीयं महत् भवत्सु विहितमिति। क्वचिद्वाक्यम् - पाणिनीयमधीत इति। क्वचिद्वृत्तिः। पाणिनीय इति। तदिह छन्दोब्राआहृणानामध्येतृवेदितृविषया वृत्तिर्यथा स्यात्। प्रकारान्तरं मा भूदित्येवमर्थमिदमुच्यते। अध्येतृवेदितृ इति। अध्येतृवेदितृप्रत्ययो विषयेषामिति बहुव्रीहिः। {अनन्यभावो -काशिका, पदमञ्जरी च} अन्यत्रभावो विषयार्थः इति। यथा मत्स्यानां जलं विषय इत्यत्रानन्यत्रभावे विषयशब्दो वर्तते, तथेहापि। एतेन यद्यपि ग्रामसमुदायादिष्वर्थेषु विषयशब्दस्य वृत्तिः, तथापीहानन्यत्रभावे वर्तमानः संगृह्रत इति दर्शयति। तेन`इत्यादिना अनन्यत्रभाववृत्तिशब्दस्य फलं दर्शयति। एवं ह्यत्रन्यत्राभावो भवति यदि स्वातन्त्र्यादि न भवति। उपाध्यन्तरयोगो महत्त्वादिना विशेषेण सम्बद्धः कठ इति। `कठेन प्रोक्तम् इति। कलापिऔशभ्यायनान्तवासिभ्यश्च (4.3.104) इति णिनिः, तस्य कठचरकाल्लुक् (4.3.107) , ततः कठेन प्रोक्तमधीते तद्वेदेति (4.2.58) पुनरण्, तस्यापि प्रोक्ताल्लुक् (4.2.64) इति लुक्। मौदाः, पैप्पलादाः इति। कलापिवैशम्पायनान्तेवासिभ्यश्च (4.3.104) इति णिनिः-मोदेन प्रोक्तमिति, कलापिनोऽण् (4.3.108) इत्यण्, तदन्तात् तदधीते तद्वेद (4.2.59) इत्यण्, तस्य प्रोक्ताल्लुक् (4.2.64) इति लुक्। आचार्भिनः इति। ऋचाभेन प्रोक्तमिति कलापिवैशम्यायनान्तेवासिभ्यश्च (4.3.104) इति णिनिः, तदन्तात् तदधीते तद्वेद (4.2.59) इत्यण्। वाजसनेयिनः इति। वाजसनेयेन प्रोक्तमिति। शौनकादिभ्यश्छन्दसि (4.3.106) इति णिनिः, तदन्तात् तदधीते तद्वेद (4.2.59) इत्यण्, तस्य लुक्। ताण्डिनः इति। ताण्ड्यशब्दाद्गर्गादि (4.1.105) यञन्तात् प्रोक्तार्थे पुराणप्रोक्तेषु ब्राआहृणकल्पेषु (4.3.105) इति णिनिः, आपत्यस्य च तद्धितेऽनाति (6.4.151) इतियलोपः। ततः तदधीते तद्वेद (4.2.59) इत्यण्, तस्य लुक्। भाल्लविनः इति। भाल्लविशब्दादिढन्तात् प्रोक्तार्थे पूर्ववण्णिनिः,तदन्तात् तद्वेद (4.2.58) इत्यण्, तस्य लुक्। शाटआयनिनः` इति। शाटशब्दाद्गर्गादि (4.1.105) यञन्तात् यञिञोश्च (4.1.101) इति फक्,ततः प्रोक्तार्थे पूर्ववण्णिनिः, तदन्तात् तदधीते तद्वेद (4.2.59) इत्यण्, तस्य लुक्। ऐतरेयिणः इति।ऐतरेयशब्दाच्लुभ्रादिढगन्तात् (4.1.123) पूर्ववण्णिनिः, ततः तदधीते (4.2.58) इत्यण्, तस्यु लुक्। ब्राआहृणविशेषप्रतिपत्त्यर्थम् इति। ब्राआहृणविशेषः पुराणप्रोक्तत्वम्। तस्य प्रतीतिः = प्रतिपत्तिर्यथा स्यादित्येवमर्थं ब्राआहृणग्रहणम्। याज्ञवल्क्यानि इति। याज्ञवल्क्यशब्दाद्गर्गादि (4.1.105) यञन्तात् प्रोक्तार्थे कण्वादिभ्यो गोत्रे (4.2.111) इत्यण्। सौलभनि इति सुलभेन प्रोक्तानीति। पूर्ववत् कलापिनोऽण् (4.3.108) इत्यण्। अत्र स्वातन्त्र्यं भवति। न हीह पुराणप्रोक्तत्वमस्ति; इदानीन्तेन प्रोक्तत्वात्। काश्यपिनऋः, कौशिकिनः`इति। कश्यपेन प्रोक्तः कल्पः, कौशिकेन प्रोक्कत इति। **काश्यपकौशिकाभ्यामृषिभ्यां णिनिः** (4.3.103) , तदन्तात् `तदधीते (4.2.58) इत्यण्, तस्य लुक्। पारशरिणः, शैलालिनः इति। पाराशर्येण प्रोक्तं सूत्रम्, शिलालिना प्रोक्तं सूत्रम् - पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः (4.3.110) इत्यण्, तस्य लुक्। कर्मन्दिनः, कृशाइआनः इति। कर्मन्देन प्रोक्तं सूत्रम्, कृशाओन प्रोक्तं सूत्रमिति कर्मन्दकृशाआआदिनिः (4.3.111) तदन्तात् तदधीते तद्वेद (4.2.59) इत्यण्, तस्य लुक्।पैङ्गी कल्पः`इति। पिङ्गेन प्रोक्तः कल्पः - `पुराणप्रोक्त (4.3.105) इत्यादिना णिनिः। तत्र स्वातन्त्र्यमेव भवति, न च तद्विषयता॥
Prakriyasarvasvam¶
प्रोक्तप्रत्ययान्तानि यानि वेदब्राह्मणानि तान्यध्येतृवेदित्रर्थयुक्तान्येव प्रयुज्यन्ते न त्वयम् । ‘तेन प्रोक्तमि’ (४-३-१०१) त्यत्र तित्तिर्यादेश्छण् वक्ष्यते । तित्तिरिभिः प्रोक्तं वेदमधीयते तैत्तिरीया इत्येव प्रयोज्यम् । तित्तिरिभिः प्रोक्ते तैत्तिरीयमित्येवं न प्रयोज्यमित्यर्थः । प्रोक्ताधिकारे चेदं विस्तरिष्यते । छन्दोब्राह्मणे- भ्योऽन्यत्र तु पाणिनिना प्रोक्तं पाणिनीयं सूत्रम् । शौनकीया शीक्षेत्येतावत्प्रयोगोऽ- प्यस्ति । यजूंषि तैत्तिरीयाणीति मुरार्युक्तिस्तु तित्तिरीणां समूहस्तैत्तिरं, तत्सम्बन्धि तैत्तिरीयमिति वृद्धाच्छेन साध्येति ।।