42065: सूत्राच्च कोपधात् ======================== **Padacheda:** सूत्रात् | S | 5 | 1 | च | S | 0 | 0 | कोपधात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix denoting denoting 'who studies or who knows that' is elided by लुक् after the title of a sūtra work having क् as penultimate. Vasu English Translation ------------------------ The affix denoting denoting 'who studies or who knows that' is elided by लुक् after the title of a sūtra work having क् as penultimate. Thus अष्टकं is the title of *Panini* *sutra*. Those who study अष्टकं and will be called also अष्टकः, as अष्टकाः पाणिनीयाः 'those who study, the *Ashtaka*'. So also दशका वैयाघ्रपदीयाः, त्रिकाः काशकृत्स्नाः ॥ Vart:- The elision takes place only where the title is formed by a numeral: as in the examples above given. Thus महावार्तिकं सूत्रमधीते = महावार्तिकः, so also कालापकः ॥ Why do we say "having क् for its penultimate"? Observe चतुष्टयमधीते = चातुष्टयः ॥ This *sutra* applies, of course, to those words which are not formed by affixes denoting प्रोक्त or the Announcer. Bhashya ------- सूत्राच्च कोपधात् (1486) (सूत्रपूरकभाष्यम्) संख्याप्रकृतेरिति वक्तव्यम्। इह मा भूत् -माहावार्तिकः, चान्दनगन्धिकः, कालापकः॥ Kashika ------- सूत्रवाचिनः। ककारोपधादुत्पन्नस्य प्रत्ययस्य लुग् भवति। अप्रोक्तार्थ आरम्भः। पाणिनीयमष्टकं सूत्रम्, तदधीयते अष्टकाः पाणिनीयाः। दशका वैयाघ्रपदीयाः। त्रिकाः काशकृत्स्नाः॥ संख्याप्रकृतेरिति वक्तव्यम्॥ इह मा भूत् — महावार्तिकं सूत्रमधीते माहावार्तिकः। कालापकमधीते कालापकः। कोपधादिति किम् ? चतुष्टयमधीते चातुष्टयः॥ Siddhanta Kaumudi ----------------- सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थं आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥ Balamanorama ------------ **सूत्राच्च कोपधात्** - सूत्राच्च को । ककारोपधादित्यनन्तरंपरस्ये॑ति शेषः । ननुप्रोक्ताल्लु॑गित्येव सिद्धे किमर्थमिदमित्यत आह — अप्रोक्तार्थ आरम्भ इति । अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति ।तदस्य परिमाण॑मित्यधिकारेसङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु॑ इतिसङ्ख्याया अतिशदन्तायाः क॑न्निति च सूत्ररूपेऽर्थे कन् । अष्टका इति । अष्टकशब्दाध्येतृवेदितृप्रत्ययस्य नेन लुक्, कोपधात्सूत्रवाचिनः परत्वादिति भावः ।सह्ख्याप्रकृतिकादिति ।सूत्राच्च कोपधा॑दितिलुक्सङ्ख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः । माहावार्तिक इति । महावार्तिकं नाम सूत्रम् । तदधीते वेत्ति वा माहावार्तिकः । अत्र अणो न लुक् । Tattvabodhini ------------- **सूत्राच्च कोपधात्** - अष्टकमिति ।सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु॑इतिसङ्ख्याया अतिशदन्तायाः कन् ।सह्ख्याप्रकृतिकादिति वाच्यम् । सङ्ख्याप्रकृतिकीदिति । सङ्ख्याप्रकृतिकप्रत्ययन्तादित्य्रथः । कालापक इति । कलापि न्शब्दात्प्रोक्तार्थेऽण् ।सब्राहृचारी॑त्युपसङ्ख्यानाट्टिलोपः । ततोऽद्येतर्यण् । तस्यप्रोक्ताल्लु गिति लुक् । कालापानामाम्नाय इत्य्रथेगोत्रचरणाद्वुञ् । ततोऽध्यतृवेदित्रणो न लुक् । स्वरे स्त्रियां च विशेषः । Padamanjari ----------- अष्टकं सूत्रमिति । अष्टावध्यायाः परिमाणमस्य,'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति'संख्याया अतिशदन्तायाः कन्' । संख्याप्रकृतेरिति वक्तव्यमिति । संख्या प्रकृतिर्यस्य प्रत्ययस्य तदन्तात्कोपधादिति वक्तव्यमित्यर्थः । कालापकमधीते कालापक इति । कलापिना प्रोक्तमेधीयते कालापाः,'कलापिनो' ण्ऽ,'नान्तस्य टिलोपे सब्रह्मचारि' इत्यौपसंख्यानिकष्टिलोपः, ततः'तदधीते' इत्यण्, प्रोक्ताल्लुक् । कालापानामाम्नाय इति'गोत्रचरणाद् वुञ्' , कालापकम्, ततः'तदधीते' इत्यण्, तस्य लुग्न भवति । यदि स्याद् ञित्स्वरेणाद्यौदातत्वं स्यात्, लुगभावे त्वण एव स्वरो भवति, स्त्रियां च ङीब् भवति । चतुष्टय इति । चत्वारोऽवयवा अस्य'संख्याया अवयवे तयप्' ,'ह्रस्वातादौ तद्धिते' इति मूर्द्धन्यः ॥ Nyaas ----- कोपधादिति वचनात् स्वरूपग्रहणं न भवतीत्यतः सूत्रवाचिनो ग्रहणं विज्ञायत इत्याह - `सूत्रवाचिनः प्रतिपादिकात्` इति। `अष्टकम्` इति। अष्टावध्यायाः परिमाणमस्य। **तदस्य परिमाणम्** (5.1.57) इत्यनुवर्तमाने **संख्यायाः संज्ञासंघसूत्राध्ययनेषु** (5.1.58) इति च `सख्याया अतिशदन्तायाः कन्` (5.1.22) इति कन्।`संख्याप्रकृतेरिति वक्तव्यम्` इति। संख्या प्कृतिर्यस्य प्रत्ययस्य स संख्याप्रकृतिः। तदन्तात् कोपधादुत्पन्नस्य लुब्भवतीत्येतदर्थरूपं वक्तव्यम्, व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम् - वेति वर्तते, सा च व्यवस्थितविभाषा, तेन संख्याप्रकृतेरेव भविष्यति, नान्यस्मादिति।`{चातुष्टयः - काशिका, चतुष्टयः-पदमञ्जरी।}चातुष्टयम्` इति। चत्वारोऽवयवा अस्येति `संख्याया अवयवे तयप्` (5.2.42) , **ह्रस्वात् तादौ तद्धिते** (8.3.101) इति मूर्धन्यः, षत्वं भवति। एतत् संख्याप्रकृतिप्रत्ययान्तम्, न तु कोपधम्, किं तर्हि? योपधम्॥ Prakriyasarvasvam ----------------- कोपधात् सूत्रवाचकादर्थद्वये प्रत्ययस्य लुक् स्यात् । संख्याकनन्तादेवेष्टम् । अष्टकमिति पाणिनीयं तदधीते इत्यष्टकः ।।