42063: वसन्तादिभ्यष्ठक्

Padacheda: वसन्त-आदिभ्यः | S | 5 | 3 |

ठक् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ठक् comes in the sense of ‘who studies or who knows’ after the words वसन्त etc.

Vasu English Translation

The affix ठक् comes in the sense of ‘who studies or who knows’ after the words वसन्त etc. This debars अण् ॥ As, वासन्तिकः ‘who studies the book relating to Spring’. वार्षिकः &c ॥ 1 वसन्त, 2 वर्षा, 3 शरद्, 4 हेमन्त, 5 शिशिर, 6 प्रथम, 7 गुण, 8 चरम, 9 अनुगुण, 10 अपर्वन्, 11 अथर्वन् 12 ग्रीष्म,

Bhashya

वसन्तादिभ्यष्ठक् (486) (सूत्राक्षेपभाष्यम्) अयुक्तोऽयं निर्देशः। अधीते -वेदेति वर्तते, न च वसन्तो नामाध्ययनमस्ति॥ (समाधानभाष्यम्) नैष दोषः। साहचर्यात्ताच्छब्द्यं भविष्यति। वसन्तसहचरितमध्ययनम् -वसन्तोऽध्ययनमिति॥

Kashika

वसन्त इत्येवमादिभ्यष्ठक् प्रत्ययो भवति तदधीते तद्वेदेत्येतस्मिन् विषये। अणोऽपवादः। वसन्तसहचरितोऽयं ग्रन्थो वसन्तः, तमधीते वासन्तिकः। वार्षिकः॥ वसन्त। वर्षाशरदम्। हेमन्त। शिशिर। प्रथम। गुण। चरम। अनुगुण। अपर्वन्। अथर्वन्॥

Siddhanta Kaumudi

वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायन -(SK1145) इति सूत्रे निपातनाट्टिलोपो न ॥

Balamanorama

वसन्तादिभ्यष्ठक् - वसन्तादिभ्यष्ठक् ।तदधीते तद्वेदे॑त्येव । वासन्तिक इति । वसन्तवर्णनपरो ग्रन्थो वसन्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति । अथर्वणा प्रोक्तो वेदो लक्षमया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्यऋषिभ्यो लुग्वक्तव्यः॑ इति वचनाल्लुक् । आथर्वणिक इत्यत्र ‘नस्तद्धिते’ इति टिलोपमाशङ्क्याह — दाण्डिनायनेति । वान्तसंयोगपूर्वकत्वात्तु नाल्लोपः ।

Tattvabodhini

वसन्तादिभ्यष्ठक् - वसन्ता । उक्थादिष्वेव वसन्ता दीन् पठित्वा, वसन्तादिषु वा उक्थादीन्पठित्वा, अन्यतरच्छक्यमवक्तुम् । अथर्वाणमिति । अथर्वणा प्रोक्त उपचारादथर्वा । यद्वातेन प्रोक्ता॑मित्यधिकारे -ऋषिभ्यो लुग्वक्तव्यः । वसिष्ठो विआआमित्रोऽनुवाक इत्युदाहृत्य अथवणो वा ।अथर्वा॑,अथर्वणः॑इति भाष्योक्तेः — — साधुः ।

Padamanjari

वसन्तसहचरित इति । यत्र वसन्तो वर्ण्यते यो वा वसन्तेऽध्येयः । वसन्तसाहचर्याताच्छद्यं लभते । उक्थादिष्वेते पठितव्याः, ते वा वसन्तादिषु ? तथा तु न कृतमित्येव । अथर्वन्शब्दोऽत्र पठ।ल्ते, स उपचारेण प्रोक्ते ग्रन्थे वर्तते । अथर्वणमधीते आथर्वणिकः,’दाण्डिनायनहास्तिनायन’ इति निपातनात्’नस्तद्धिते’ इति टिलोपाभावः ॥

Nyaas

{वसन्तसहचरितोऽयं ग्र्नथो वसन्तः-काशिका} वसन्तसहचरितो ग्रन्थो वसन्तः`इति। यो वसन्ते पठते, नियोगेन यत्र च वसन्तो वण्र्यते स वसन्त सहचरितो भवति। `वर्षाशरदम् इति। वर्षाश्च शरच्च वर्षाशरदम्। द्वन्द्वाच्चुदषहान्तात् समाहारे (5.4.106) इति टच्। समासान्तेन निर्देशः॥

Prakriyasarvasvam

वसन्तवर्षाशरद्धेमन्तशिशिरप्रथमचरमानुगुणकल्पाथर्वभ्यः । वसन्तेऽध्येयस्त- द्वर्णनरूपो वा ग्रन्थो वसन्तः । तमधीते वासन्तिकः । वार्षिकः । प्रथमं भागं विदन् प्राथमिकः । चारमिकः । आनुगुणिकः । काल्पिकः । आथर्वणिकः । अस्य दाण्डिनाद्युक्त्या टिलोपाभावः ॥