42062: अनुब्राह्मणादिनिः

Padacheda: अनुब्राह्मणात् | S | 5 | 1 |

इनिः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix इनि comes in the sense of ‘who studies or who knows’ after the word अनुब्राह्मण।

Vasu English Translation

The affix इनि comes in the sense of ‘who studies or who knows’ after the word अनुब्राह्मण। This debars अण् ॥ The word अनुब्राह्मण means ‘a book in the imitation of or similar to a Brahmana book’. He who studies an अनुब्राह्मण is called अनुब्राह्मणिन्, which word is thus declined:- अनुब्राह्मणी, अनुब्राह्मणिनौ, अनुब्राह्मणिनः &c. The affix इनि also has the force of मतुप्, and by Sutra (5.2.115) अत इनि ठनौ, this word अनुब्राह्मण might have taken both the affixes इनि and ठन् in the sense of मतुप्; but as a matter of fact, it only takes इनि in that sense.

Bhashya

अनुब्राह्मणादिनिः (1485) (इनिप्रत्ययाधिकरणम्) (प्रत्याख्यानभाष्यम्) अयं योगः शक्योऽवक्तुम्। कथमनुब्राह्मणी, अनुब्राह्मणिनौ, अनुब्राह्मणिन इति? इनिनैतन्मत्वर्थीयेन सिद्धम्॥

Kashika

अनुब्राह्मणशब्दादिनिः प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन् विषये। अणोऽपवादः। ब्राह्मणसदृशोऽयं ग्रन्थोऽनुब्राह्मणम्। तदधीते अनुब्राह्मणी, अनुब्राह्मणिनौ, अनुब्राह्मणिनः। मत्वर्थेन अत इनिठनौ (५.२.११५) इतीनिना सिद्धम् ? तत्रैतस्माट् ठन्नपि प्राप्नोति। अनभिधानान्न भविष्यति ? अणो निवृत्त्यर्थं तर्हि वचनम्॥

Siddhanta Kaumudi

तदधते तद्वेद (SK1269)इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । अत्वर्थीयेनैव सिद्धे अणबाधनार्थमिदम् ॥

Balamanorama

अनुब्राह्मणादिनिः - अनुब्राआहृणादिनिः । सेषपूरणेन सूत्रं व्याचष्टे — तदधीते तद्वेदेत्यर्थे इति । इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथा च नकारस्योपदेशेऽन्त्यत्वाऽभावान्नेत्संज्ञा । ननु ‘अत इनिठनौ’ इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आह — अण्बाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदम् ।

Tattvabodhini

अनुब्राह्मणादिनिः - अण्बाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदं सूत्रं, तद्रीत्या त्वणिष्यत इति, अनभिधानान्नेति वा बोध्यम् ।

Padamanjari

ब्राह्मणासदृश इति ।’यथार्थे यदव्ययम्’ इति सादृश्येऽव्ययीभावः । चोदयति - मत्वर्थ इति । परिहरति - तत्रैतस्मादिति । दूषयति - अनभिधानादिति । साक्षात्परिहारमाह - अणो निवृत्यर्थं तु वचनमिति । क्वचितु मत्वर्थ इत्यादि न पठ।ल्ते ॥

Nyaas

ब्राआहृणसदृसोऽयं ग्रन्थोऽनुब्राआहृणम् इति। यथार्थऽव्ययीभावं दर्शयति। ननु योऽनुब्राआहृणमधीते तस्यानुब्राआहृणमस्तीति तत्र मत्वर्थीयेनैवेनिना सिद्धम्, तत् किमर्थमिदम्? अण्बाधनार्थम्। यदीदं नोच्येत तदधीते तद्वेद (4.2.59) इत्यण् प्रसज्येत॥

Prakriyasarvasvam

ब्राह्मणसदृशं ग्रन्थमधीते अनुब्राह्मणी ॥