42063: वसन्तादिभ्यष्ठक् ======================= **Padacheda:** वसन्त-आदिभ्यः | S | 5 | 3 | ठक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ठक् comes in the sense of 'who studies or who knows' after the words वसन्त etc. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'who studies or who knows' after the words वसन्त etc. This debars अण् ॥ As, वासन्तिकः 'who studies the book relating to Spring'. वार्षिकः &c ॥ 1 वसन्त, 2 वर्षा, 3 शरद्, 4 हेमन्त, 5 शिशिर, 6 प्रथम, 7 गुण, 8 चरम, 9 अनुगुण, 10 अपर्वन्, 11 अथर्वन् 12 ग्रीष्म, Bhashya ------- वसन्तादिभ्यष्ठक् (486) (सूत्राक्षेपभाष्यम्) अयुक्तोऽयं निर्देशः। अधीते -वेदेति वर्तते, न च वसन्तो नामाध्ययनमस्ति॥ (समाधानभाष्यम्) नैष दोषः। साहचर्यात्ताच्छब्द्यं भविष्यति। वसन्तसहचरितमध्ययनम् -वसन्तोऽध्ययनमिति॥ Kashika ------- वसन्त इत्येवमादिभ्यष्ठक् प्रत्ययो भवति तदधीते तद्वेदेत्येतस्मिन् विषये। अणोऽपवादः। वसन्तसहचरितोऽयं ग्रन्थो वसन्तः, तमधीते वासन्तिकः। वार्षिकः॥ वसन्त। वर्षाशरदम्। हेमन्त। शिशिर। प्रथम। गुण। चरम। अनुगुण। अपर्वन्। अथर्वन्॥ Siddhanta Kaumudi ----------------- वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायन -(SK1145) इति सूत्रे निपातनाट्टिलोपो न ॥ Balamanorama ------------ **वसन्तादिभ्यष्ठक्** - वसन्तादिभ्यष्ठक् ।तदधीते तद्वेदे॑त्येव । वासन्तिक इति । वसन्तवर्णनपरो ग्रन्थो वसन्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति । अथर्वणा प्रोक्तो वेदो लक्षमया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्यऋषिभ्यो लुग्वक्तव्यः॑ इति वचनाल्लुक् । आथर्वणिक इत्यत्र 'नस्तद्धिते' इति टिलोपमाशङ्क्याह — दाण्डिनायनेति । वान्तसंयोगपूर्वकत्वात्तु नाल्लोपः । Tattvabodhini ------------- **वसन्तादिभ्यष्ठक्** - वसन्ता । उक्थादिष्वेव वसन्ता दीन् पठित्वा, वसन्तादिषु वा उक्थादीन्पठित्वा, अन्यतरच्छक्यमवक्तुम् । अथर्वाणमिति । अथर्वणा प्रोक्त उपचारादथर्वा । यद्वातेन प्रोक्ता॑मित्यधिकारे -ऋषिभ्यो लुग्वक्तव्यः । वसिष्ठो विआआमित्रोऽनुवाक इत्युदाहृत्य अथवणो वा ।अथर्वा॑,अथर्वणः॑इति भाष्योक्तेः — — साधुः । Padamanjari ----------- वसन्तसहचरित इति । यत्र वसन्तो वर्ण्यते यो वा वसन्तेऽध्येयः । वसन्तसाहचर्याताच्छद्यं लभते । उक्थादिष्वेते पठितव्याः, ते वा वसन्तादिषु ? तथा तु न कृतमित्येव । अथर्वन्शब्दोऽत्र पठ।ल्ते, स उपचारेण प्रोक्ते ग्रन्थे वर्तते । अथर्वणमधीते आथर्वणिकः,'दाण्डिनायनहास्तिनायन' इति निपातनात्'नस्तद्धिते' इति टिलोपाभावः ॥ Nyaas ----- `{वसन्तसहचरितोऽयं ग्र्नथो वसन्तः-काशिका} वसन्तसहचरितो ग्रन्थो वसन्तः`इति। यो वसन्ते पठते, नियोगेन यत्र च वसन्तो वण्र्यते स वसन्त सहचरितो भवति। `वर्षाशरदम्` इति। वर्षाश्च शरच्च वर्षाशरदम्। `द्वन्द्वाच्चुदषहान्तात् समाहारे` (5.4.106) इति टच्। समासान्तेन निर्देशः॥ Prakriyasarvasvam ----------------- वसन्तवर्षाशरद्धेमन्तशिशिरप्रथमचरमानुगुणकल्पाथर्वभ्यः । वसन्तेऽध्येयस्त- द्वर्णनरूपो वा ग्रन्थो वसन्तः । तमधीते वासन्तिकः । वार्षिकः । प्रथमं भागं विदन् प्राथमिकः । चारमिकः । आनुगुणिकः । काल्पिकः । आथर्वणिकः । अस्य दाण्डिनाद्युक्त्या टिलोपाभावः ॥