42061: क्रमादिभ्यो वुन्

Padacheda: क्रम-आदिभ्यः | S | 5 | 3 |

वुन् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix वुन् comes in the sense of ‘who studies or who knows’ after the words क्रम etc.

Vasu English Translation

The affix वुन् comes in the sense of ‘who studies or who knows’ after the words क्रम etc. This debars अण् ॥ Thus क्रमकः (7.1.1) &c. The words 1 क्रम, 2 पद, 3 शिक्षा, 4 मीमांसा, 5 सामन् belong to this class.

Kashika

क्रम इत्येवमादिभ्यः शब्देभ्यो वुन् प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन् विषये। अणोऽपवादः। क्रमकः। पदकः॥ क्रम। पद। शिक्षा। मीमांसा। सामन्॥

Siddhanta Kaumudi

क्रमकः । क्रम, पद, शिक्षा, मीमांसा, क्रमादिः ॥

Laghu Siddhanta Kaumudi

क्रमकः । पदकः । शिक्षकः । मीमांसकः ॥ इति रक्ताद्यर्थकाः ॥ ३ ॥

Balamanorama

क्रमादिभ्यो वुन् - क्रमादिभ्यो वुन् ।तदधीते तद्वेद इत्यर्थे॑ इति शेषः । क्रमक इति । क्रममधीते वेत्ति वेत्यर्थः । क्रमादिगणं पठति-क्रमेत्यादि । क्रमादिरिति । अयं क्रमादिगण इत्यर्थः । ‘पदकः॒॑मीमांसकः’ इत्युदाहरणानि ।

Prakriyasarvasvam

क्रमपदशीक्षामीमांसासामभ्यः । क्रममधीते वेद वा क्रमकः । पदकः । शीक्षकः । मीमांसकः । सामकः ॥