42050: खलगोरथात् ================ **Padacheda:** खल-गो-रथात् | S | 5 | 1 | Sutrartha --------- **'तस्य समूहः' अस्मिन् अर्थे 'खल', 'गो', तथा 'रथ' - एतेभ्यः शब्देभ्यः य-प्रत्ययः भवति ।** **तस्य समूहः** (4.2.37) अस्मिन् अर्थे खल, गो, रथ - एतेभ्यः य-प्रत्ययः विधीयते । यत्-प्रत्ययान्तशब्दाः प्रयोगवशात् केवलं स्त्रीलिङ्गे भवन्ति, अतः प्रक्रियायां स्त्रीत्वं द्योतयितम् टाप्-प्रत्ययस्य विधानमपि भवति । यथा - 1) खलानां समूहः = खल + य + टाप् → खल् + य + आ [**यस्येति च** (6.4.148) इति अन्तिमवर्णलोपः] → खल्या 2) गवाम् समूहः गो + य + टाप् → गव् + य + आ [**वान्तो यि प्रत्यये** (6.1.79) इति ओ-इत्यस्य अव्-आदेशः] → गव्या 3) रथ + य + टाप् → रथ् + य [**यस्येति च** (6.4.148) इति अन्तिमवर्णलोपः] → रथ्या ज्ञातव्यम् - वस्तुतः **पाशादिभ्यो यः** (4.3.36) इत्यनेन पाशादिगणस्य शब्दानां विषये य-प्रत्ययविधानं कृतमस्ति । अतः अस्मिन् सूत्रे निर्दिष्टानां त्रयाणां शब्दानाम् पाशादिगणे एव किमर्थम् समावेशः न क्रियते (नूतनसूत्रनिर्माणं किमर्थम् कृतम्) - इति प्रश्नः आगच्छति । तस्य उत्तरार्थम् काशिकाकारः वदति - 'पाशादिषु अपाठः उत्तरार्थः' । इत्युक्ते, अग्रिमसूत्रे केवलं एतेषाम् त्रयाणामेव अनुवृत्तिः करणीया, अतः तेषाम् निर्देशः भिन्नसूत्रेण कृतः अस्ति । Sutrartha (English) ------------------- The words खल, गो and रथ get the प्रत्यय 'य' to indicate the meaning of 'तस्य समूहः'. Vasu English Summary -------------------- The affix य comes in the sense of 'collection thereof' after the words 1. खल 2 गो and 3. रथ। Vasu English Translation ------------------------ The affix य comes in the sense of 'collection thereof' after the words 1. खल 2 गो and 3. रथ। Thus खल्या, गव्या and रथ्या ॥ These three words have not been included in the पाशादि class, in order that rule (4.2.51) should apply to them. Bhashya ------- खलगोरथात् (1473) Kashika ------- खलगोरथशब्देभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। खलानां समूहः खल्या। गव्या। रथ्या। पाशादिष्वपाठ उत्तरार्थः॥ Siddhanta Kaumudi ----------------- खल्या । गव्या । रथ्या ॥ Balamanorama ------------ **खलगोरथात्** - खलगोरथात् । समूह इत्येव । खल, गो, रथ एभ्यो यः स्यादित्यर्थः । खल्या गव्य रथ्येति । खलानां गवां रथानां च समूह इति विग्रहः । यद्यपि पाशिद्ष्वेव एषां पाठो युक्तस्तथापि उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः । Padamanjari ----------- अथ कस्मात्खलादयोऽपि पाशादिष्वेव न पठिताः, एवं हि विभक्तिर्नोच्चारयितव्या भवति ? तत्राह - पाशादिष्वपाठ इति ॥ Nyaas ----- गोशब्दादणि प्राप्ते, खलरथाब्यामचित्तलक्षणे ठकीदं वचनम्। अत्र पाशादिष्वेव खलादीनां पाठः कस्मान्न कृतः? इत्याह - `पाशादिष्वपाठ उत्तरार्थः` इति। उत्तरसूत्र इनित्रकटचः खलादिभ्य एव यथा स्युः, पाशादिभ्यो मा भूदिति॥ Prakriyasarvasvam ----------------- एभ्योऽपि यः स्यात् । खलगणः, खल्या । गव्या । रथ्या ॥ Sutra Prayogas -------------- * **रथ्याघोषैः** (शिशुपालवधम्): `खलगोरथात्` इति यत्प्रत्ययः समूहार्थे।