42044: अनुदात्तादेरञ्

Padacheda: अनुदात्त-आदेः | S | 5 | 1 |

अञ् | S | 1 | 1 |

Sutrartha

अनुदात्तादिशब्दात् ‘तस्य समूहः’ अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।

यस्य शब्दस्य प्रथमः स्वरः अनुदात्तः अस्ति, तस्मात् शब्दात् ‘तस्य समूहः’ अस्मिन् अर्थे अञ्-प्रत्ययः क्रियते । यथा, कपोत, मयूर, तित्तिर एते शब्दाः अनुदात्तादयः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्तिः दृश्यते - 1. कपोतानाम् समूहः कापोतम् । 2. मयूराणां समूहः मायूरम् । 3. तित्तिराणां समूहः तैत्तिरम् । ज्ञातव्यम् - 1. ‘अञ्’ प्रत्ययः ‘ञित्’ अस्ति, अतः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन अञ्-प्रत्यये कृते प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः उदात्तः जायते । अनेन प्रकारेण प्रकृतौ विद्यमानः अनुदात्तः आदिस्वरः प्रक्रियायाः अनन्तरमुदात्तत्वं प्राप्नोति । 2. यदि कश्चन शब्दः अचित्तवाची अस्ति तथा अनुदात्तादिः अपि अस्ति, तर्हि वर्तमानसूत्रेण अञ्-प्रत्यये प्राप्ते तं परत्वात् बाधित्वा अचित्तहस्तिधेनोष्ठक् (4.2.47) इत्यनेन ठक्-प्रत्ययः विधीयते ।

Sutrartha (English)

For the words whose first vowel is अनुदात्त, the अञ् प्रत्यय is added in the meaning of ‘तस्य समूहः’.

Vasu English Summary

The affix अञ् comes in the sense of ‘collection thereof’ after the words having अनुदात्त on the first syllable.

Vasu English Translation

The affix अञ् comes in the sense of ‘collection thereof’ after the words having अनुदात्त on the first syllable. Thus कपोतानां समूहः = कापोतम्, मायूरम्, तैत्तिरम् ॥

Kashika

अनुदात्तादेः शब्दादञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। कपोतानां समूहः कापोतम्। मायूरम्। तैत्तिरम्॥

Siddhanta Kaumudi

कापोतम् । मायूरम् ॥

Balamanorama

अनुदात्तादेरञ् - अनुदात्तादेरञ् । समूह इत्येव । कापोतं । मायूरमिति ।लघावन्ते द्वयोश्च बह्वषो गुरु॑रिति कपोतमयूरशब्दौ मध्योदात्ताविति भावः ।

Padamanjari

अचितात्परत्वाद् ठका भवितव्यमिति । चितवन्त उदाहृताः, कपोतमयूरशब्दौ’लघावन्ते’ इति मध्योदातौ, इगुपधात्कः, तरतेः सन्वतुक् चाभ्यासस्येति किप्रत्ययान्तस्तितिरिशब्दः प्रत्ययस्वरेणान्तोदातः । सन्वद्भावेनाद्यौदातत्वं न भवति; ठुणादयो बहुलम्ऽ इति बहुलवचनात् ॥

Nyaas

कापोतम्, मायूरम् इति। कपोतमयूरशब्दौ लघावन्ते द्वयोश्च बह्वषो गुरुः (फि।सू।2।42) इति मध्योदात्तौ`। तैत्तरम् इति। तित्तिरिशब्दः कित्` (द।उ।1।48) इति कित्प्रत्ययान्तः। तरतेः {सन्वल्लुक् इति। प्रांउ।पाठः} सन्वत्तुक् चाभ्यासस्येति प्रत्ययस्वरेणान्तोदात्तः। ननु च सन्वद्भावादाद्युदात्तः प्राप्नोति? उणादयो बहुलम् (3.3.1) इति बहुलवचनात् स्वरे सन्वद्भावो न भविष्यतीत्यदोषः॥आद्युदात्तार्थमचित्तार्थञ्च वचनम् इति। असत्येतस्मिन्नाद्युदात्तेभ्योऽण् स्यात्, अचितेब्योऽचित्तलक्षणष्ठक् प्रसज्येत। क्षुद्रकाश्चमालवाश्चेति क्षत्तरियद्वन्द्वः इति।क्षुद्रकस्यापत्यानि बहूनि जनपदशब्दात् क्षत्रियादञ् (4.1.168) , मालवस्यापत्यानि बहूनि। वृद्धेत्कोसलाजादाञ्ञ्यङ् (4.1.171) । तयोः तद्राजस्य (2.4.62) इति बहुषु लुक्, पश्चाद्द्वन्द्वः। ततः पूर्वेणाञि सिद्धे इति। समासान्तोदात्तत्वे कृते द्वन्द्वसमासस्यानुदात्तादित्वात्। वचनं गोत्रवुञो बाधनार्थम्। गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् (4.2.39) इत्यादिना गोत्रलक्षणो वुञ्प्राप्नोति, तद्बाधनार्थं क्षुद्रकलृमालवकस्येह गणे पाठः।ननु च इत्यादि। परत्वादेवाञ् वुञं बाधिष्यत इत्यतो नार्थो वुञो बाधनार्थेनानेन वचनेनेति भावः। एतच्च गोत्रत्वमभ्युपेत्योक्तम्। इदानीं गोत्रत्वमेव न भवतीति दर्शयितुमाह - न च इत्यादि। गोत्रसमुच्चयोऽयम्। न च गोत्रसमुदायो गोत्रग्रहणेन गृह्रते, यथा जनपदसमुदायो न जनपदग्रहणेन। तथा च काशयश्च कोशलाश्च काशिकोशलाः, तेषु भवाः काशिकोशलीयाः। जनपदत्वाभावात् {जनपदवध्योश्च -मु।पाठः} जनपदतदवध्योश्च (4.2.123) इति वुञ् न भवति, वृद्धाश्छः (4.2.113) एव तु भवति। स्यादेतत् - यद्यपि गोत्रसमुदायो गोत्रं न भवति, तदवयुस्तु भवति, क्षुद्रकमालवकशब्दोऽवयवो गोत्रम्, अतस्तदन्तविधिना तदन्ताद्गोत्रसमुदःयादपि वुञ् प्राप्नोति? अत आह - न च इत्यादि। न हि सर्वस्तदन्तविधिर्भवतीति। तथा हि - येन विधिस्तदन्तस्य (1.1.72) इत्यत्रोक्तम् -समासप्रत्ययविधौ प्रतिषेधः, उगिद्वर्णग्रहणवर्जम् (वा।12,13) इति। प्रत्ययविधिश्चायम्। येषु तत्र च तदन्तविधिरिष्यते ते तत्रैव भयाद्यादिग्रहणम् (वा।303) इत्यादिना परिगणिताः, न चास्य तत्र परिगणनम्। ततो नास्ति तदन्तविधिः। एवं तर्हि इत्यादि। यदयं क्षुद्रमालवकग्रहणं करोति वुञ्बाधनर्थाम्, तज्ज्ञापयति - वुञि पूर्वविप्रतिषेधो भवति, न परविप्रतिषेधः। सामूहिकेषु च तदन्तविधिरस्ति इति। किमेतस्य ज्ञापने प्रयोजनमित्याह - औपगवकम्, कापटवकम् इति। एतद् वुञ्पूर्वविप्रतिषेधज्ञापनस्य प्रोजनम्। असति ह्रेतस्मिञ्ज्ञापने परिविप्रतिषेधेन अनुदात्तादेरञ् (4.2.44) इत्यञ् स्यात्। वुञस्तु यत्राद्युदात्तत्वं सोऽवकाशः - ग्लौचुकायनकमिति। ग्लुचुकायनशब्दो हि प्राचामवृद्धात् फिन् बहुलम् (4.1.160) इति फिन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः॥ वानहस्तिकम्,गोथेनुकम् इति। तदन्तविधिज्ञापनस्य प्रयोजनम्। असत्येतस्मिञ्ज्ञापने अचित्तहस्तिधेनोष्ठक् (4.2.47) इति धेनुहस्तिशब्दाभ्यां विधीयमानष्ठक् न तदन्तात् स्यात्।{क्षुद्रकमालवात् - काशिका, पदमञ्जरी च।} क्षुद्रकमालवकात् इति। गणे क्षुद्रकमालवात् सेनासंज्ञायाम् (ग।सू।82) इति पठते, तत्र यद्ययमेको योगः स्यात्, एकेन यत्नेन च ज्ञापनं नियमश्च न लभ्यते। तस्मादत्र योगविभागः कर्तव्यः। तत्र क्षुद्रकमालवादित्येको योगः, सेनासंज्ञायामिति द्वितीयः। तत्र पूर्वो योगो ज्ञापनार्थः, उत्तरो नियमार्थः। पुनरस्यैव इति। क्षुद्रकमालवादित्यस्यैव योगस्य। क्षौद्रकमालवी इति। टिड्ढाणञ् (4.1.15) इति ङीप्। क्षौद्रकमालवकमन्यत् इति। तदन्तविधिनात्र वुञ् भवति।अञ्सिद्धेः इत्यादि। क्षुद्रकमालशब्दात् अनुदात्तादेरञ् (4.2.44) इत्यञ् सिद्धः। तत्कोऽर्थः किं प्रयोजनं तस्य गणपाठेन?न किञ्चिदित्यर्थः। स्यादेतत् -यो गोत्रलक्षणो वुञ् स्यादेतस्तद्बाधनार्थः पाठः? इत्याह - गोत्राद्वुञ् विधीयते (इति)। न च क्षुद्रकमालवशब्दो गोत्रम्, तत्कुतस्ततो वुञ्प्राप्तिः? तदन्तात् इत्यादि। यद्यपि क्षुद्रकमालवशब्दो गोत्रसमुदायो गोत्रं न भवति, तदवयवस्तु भवति, तेन तदन्तविधिना प्राप्नोत्येव। न च सर्वतः इति। न च तदन्तविधिः सर्वत्रैव भवति। परिगणितेष्वेव कार्येषु तदन्तविधिरिष्यते, न चेदं तत्र परिगण्यते, तत्कुतस्तदन्तविधिना वुञ्प्राप्तिः। ज्ञापकं स्यात् इत्यादि। इदं हि क्षुद्रकमालवग्रहणं ज्ञापनार्थं भवेत्। एतज्ज्ञापयति - सामूहिकेषु तदन्तविधिरस्तीति। एवं कृत्वाऽषडपिशलेर्विधिरुपपन्नो भवति। विधीयतेऽनेनेति विधिः, स पुनः धेनोरनञः (वा।423) इति, एतद्धि तत्सूत्रम्। अस्यायमर्थः - धेनुशब्दः समूहेऽर्थे ठकमुत्पादयति, न चेद्धेनुशब्दो नञ उत्तरो भवतीति। नञ्पूर्वपदो न भवतीति यावत्। यदि तत्र सामूहिकेषु तदन्तविधिर्न स्यात् अनञः इति वचनं नोपपपद्यते। असति तदन्तविधौ धेनुशब्दादुच्यमानः प्रत्ययः, कः प्रसङ्गो यदधेनुशब्दात् स्यात् ! तदेतदनञिति वचनं परमर्थवद्भवति यदि सामूहिकेषु तदन्तविधिर्भवति, नान्यथा। प्रयोजनान्तरमाह -सेनायाम् इत्यादि। सेनासंज्ञायामेव क्षुद्रकमालशब्दादञ् भवतीत्येष नियमो यता स्यादित्येवमर्थस्तस्य गणे पाठ इत्यर्थः। यथा इत्यादि। चेति समुच्चये। पूर्वविप्रतिषेधेन वुञाऽञो बाधनं यथा स्यादित्येवमर्थो गणे पाठः।{खण्डिका -काशिका} खण्डिक इति। खण्डिकशब्दो मत्वर्थीयठन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। वल { संवरणे सञ्चलने च - धातुपाठः-} संवरणे` (धातुपाठः-491) इत्यस्मात् उणादयो बहुलम् (3.3.1) इत्यवन्प्रत्यये डलयोरेकत्वस्मरणाल्लकारस्य डकारादेशे टापि वडवेति भवति। भिक्षुकशब्दोऽपि कुत्सार्थविवक्षायां कन्नन्तत्वात् पूर्वपदाद्युदात्तः। शुकोलूकयोरपि प्राणिना कुपूर्वाणाम् (फि।सू।1।30) इति कुपूर्वादिरुदात्त एव। आञ्शब्दः कनिन् युवृषि (द।उ।6।51) इत्यतः कनिन्ग्रहणेऽनुवर्तमाने आन्नुक्षन्पूषन्प्लीहन्क्लेदन्तस्नेहन्मूर्धन्मज्जन्नर्यमन्विआप्सन्परिज्मन्मातरिआन्मघवन् (द।उ।6।55) इति कनिन्प्रत्ययान्तो निपातितः,तेनसावपि पूर्ववदाद्युदात्तः। युगवरत्राशब्दयोरचितार्थः। संहतविगृहीतार्थं युगवरत्राग्रहणं वर्णयन्त - यौगम्, वारत्रम्, योगवरत्रमिति॥

Prakriyasarvasvam

अनुदात्तादित्वं स्वरशास्त्रगम्यम् । कापोतम् । मायूरम् । तैत्तिरम् ।।