42044: अनुदात्तादेरञ् ===================== **Padacheda:** अनुदात्त-आदेः | S | 5 | 1 | अञ् | S | 1 | 1 | Sutrartha --------- **अनुदात्तादिशब्दात् 'तस्य समूहः' अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।** यस्य शब्दस्य प्रथमः स्वरः अनुदात्तः अस्ति, तस्मात् शब्दात् 'तस्य समूहः' अस्मिन् अर्थे अञ्-प्रत्ययः क्रियते । यथा, कपोत, मयूर, तित्तिर एते शब्दाः अनुदात्तादयः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्तिः दृश्यते - 1. कपोतानाम् समूहः कापोतम् । 2. मयूराणां समूहः मायूरम् । 3. तित्तिराणां समूहः तैत्तिरम् । ज्ञातव्यम् - 1. 'अञ्' प्रत्ययः 'ञित्' अस्ति, अतः **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्यनेन अञ्-प्रत्यये कृते प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः उदात्तः जायते । अनेन प्रकारेण प्रकृतौ विद्यमानः अनुदात्तः आदिस्वरः प्रक्रियायाः अनन्तरमुदात्तत्वं प्राप्नोति । 2. यदि कश्चन शब्दः अचित्तवाची अस्ति तथा अनुदात्तादिः अपि अस्ति, तर्हि वर्तमानसूत्रेण अञ्-प्रत्यये प्राप्ते तं परत्वात् बाधित्वा **अचित्तहस्तिधेनोष्ठक्** (4.2.47) इत्यनेन ठक्-प्रत्ययः विधीयते । Sutrartha (English) ------------------- For the words whose first vowel is अनुदात्त, the अञ् प्रत्यय is added in the meaning of 'तस्य समूहः'. Vasu English Summary -------------------- The affix अञ् comes in the sense of 'collection thereof' after the words having अनुदात्त on the first syllable. Vasu English Translation ------------------------ The affix अञ् comes in the sense of 'collection thereof' after the words having अनुदात्त on the first syllable. Thus कपोतानां समूहः = कापोतम्, मायूरम्, तैत्तिरम् ॥ Kashika ------- अनुदात्तादेः शब्दादञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। कपोतानां समूहः कापोतम्। मायूरम्। तैत्तिरम्॥ Siddhanta Kaumudi ----------------- कापोतम् । मायूरम् ॥ Balamanorama ------------ **अनुदात्तादेरञ्** - अनुदात्तादेरञ् । समूह इत्येव । कापोतं । मायूरमिति ।लघावन्ते द्वयोश्च बह्वषो गुरु॑रिति कपोतमयूरशब्दौ मध्योदात्ताविति भावः । Padamanjari ----------- अचितात्परत्वाद् ठका भवितव्यमिति । चितवन्त उदाहृताः, कपोतमयूरशब्दौ'लघावन्ते' इति मध्योदातौ, इगुपधात्कः, तरतेः सन्वतुक् चाभ्यासस्येति किप्रत्ययान्तस्तितिरिशब्दः प्रत्ययस्वरेणान्तोदातः । सन्वद्भावेनाद्यौदातत्वं न भवति; ठुणादयो बहुलम्ऽ इति बहुलवचनात् ॥ Nyaas ----- `कापोतम्, मायूरम्` इति। कपोतमयूरशब्दौ `लघावन्ते द्वयोश्च बह्वषो गुरुः` (फि।सू।2।42) इति मध्योदात्तौ`। `तैत्तरम्` इति। तित्तिरिशब्दः कित्` (द।उ।1।48) इति कित्प्रत्ययान्तः। तरतेः {सन्वल्लुक् इति। प्रांउ।पाठः} सन्वत्तुक् चाभ्यासस्येति प्रत्ययस्वरेणान्तोदात्तः। ननु च सन्वद्भावादाद्युदात्तः प्राप्नोति? **उणादयो बहुलम्** (3.3.1) इति बहुलवचनात् स्वरे सन्वद्भावो न भविष्यतीत्यदोषः॥`आद्युदात्तार्थमचित्तार्थञ्च वचनम्` इति। असत्येतस्मिन्नाद्युदात्तेभ्योऽण् स्यात्, अचितेब्योऽचित्तलक्षणष्ठक् प्रसज्येत। `क्षुद्रकाश्चमालवाश्चेति क्षत्तरियद्वन्द्वः` इति।क्षुद्रकस्यापत्यानि बहूनि **जनपदशब्दात् क्षत्रियादञ्** (4.1.168) , मालवस्यापत्यानि बहूनि। **वृद्धेत्कोसलाजादाञ्ञ्यङ्** (4.1.171) । तयोः `तद्राजस्य` (2.4.62) इति बहुषु लुक्, पश्चाद्द्वन्द्वः। `ततः पूर्वेणाञि सिद्धे` इति। समासान्तोदात्तत्वे कृते द्वन्द्वसमासस्यानुदात्तादित्वात्। वचनं गोत्रवुञो बाधनार्थम्। **गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्** (4.2.39) इत्यादिना गोत्रलक्षणो वुञ्प्राप्नोति, तद्बाधनार्थं क्षुद्रकलृमालवकस्येह गणे पाठः।`ननु च` इत्यादि। परत्वादेवाञ् वुञं बाधिष्यत इत्यतो नार्थो वुञो बाधनार्थेनानेन वचनेनेति भावः। एतच्च गोत्रत्वमभ्युपेत्योक्तम्। इदानीं गोत्रत्वमेव न भवतीति दर्शयितुमाह - `न च` इत्यादि। गोत्रसमुच्चयोऽयम्। न च गोत्रसमुदायो गोत्रग्रहणेन गृह्रते, यथा जनपदसमुदायो न जनपदग्रहणेन। तथा च काशयश्च कोशलाश्च काशिकोशलाः, तेषु भवाः काशिकोशलीयाः। जनपदत्वाभावात् `{जनपदवध्योश्च -मु।पाठः} जनपदतदवध्योश्च` (4.2.123) इति वुञ् न भवति, `वृद्धाश्छः` (4.2.113) एव तु भवति। स्यादेतत् - यद्यपि गोत्रसमुदायो गोत्रं न भवति, तदवयुस्तु भवति, क्षुद्रकमालवकशब्दोऽवयवो गोत्रम्, अतस्तदन्तविधिना तदन्ताद्गोत्रसमुदःयादपि वुञ् प्राप्नोति? अत आह - `न च` इत्यादि। न हि सर्वस्तदन्तविधिर्भवतीति। तथा हि - **येन विधिस्तदन्तस्य** (1.1.72) इत्यत्रोक्तम् -`समासप्रत्ययविधौ प्रतिषेधः`, `उगिद्वर्णग्रहणवर्जम्` (वा।12,13) इति। प्रत्ययविधिश्चायम्। येषु तत्र च तदन्तविधिरिष्यते ते तत्रैव `भयाद्यादिग्रहणम्` (वा।303) इत्यादिना परिगणिताः, न चास्य तत्र परिगणनम्। ततो नास्ति तदन्तविधिः। `एवं तर्हि` इत्यादि। यदयं क्षुद्रमालवकग्रहणं करोति वुञ्बाधनर्थाम्, तज्ज्ञापयति - वुञि पूर्वविप्रतिषेधो भवति, न परविप्रतिषेधः। `सामूहिकेषु च तदन्तविधिरस्ति` इति। किमेतस्य ज्ञापने प्रयोजनमित्याह - `औपगवकम्, कापटवकम्` इति। एतद् वुञ्पूर्वविप्रतिषेधज्ञापनस्य प्रोजनम्। असति ह्रेतस्मिञ्ज्ञापने परिविप्रतिषेधेन **अनुदात्तादेरञ्** (4.2.44) इत्यञ् स्यात्। वुञस्तु यत्राद्युदात्तत्वं सोऽवकाशः - ग्लौचुकायनकमिति। ग्लुचुकायनशब्दो हि `प्राचामवृद्धात् फिन् बहुलम्` (4.1.160) इति फिन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः॥ `वानहस्तिकम्,गोथेनुकम्` इति। तदन्तविधिज्ञापनस्य प्रयोजनम्। असत्येतस्मिञ्ज्ञापने **अचित्तहस्तिधेनोष्ठक्** (4.2.47) इति धेनुहस्तिशब्दाभ्यां विधीयमानष्ठक् न तदन्तात् स्यात्।`{क्षुद्रकमालवात् - काशिका, पदमञ्जरी च।} क्षुद्रकमालवकात्` इति। गणे `क्षुद्रकमालवात् सेनासंज्ञायाम्` (ग।सू।82) इति पठते, तत्र यद्ययमेको योगः स्यात्, एकेन यत्नेन च ज्ञापनं नियमश्च न लभ्यते। तस्मादत्र योगविभागः कर्तव्यः। तत्र क्षुद्रकमालवादित्येको योगः, सेनासंज्ञायामिति द्वितीयः। तत्र पूर्वो योगो ज्ञापनार्थः, उत्तरो नियमार्थः। `पुनरस्यैव` इति। क्षुद्रकमालवादित्यस्यैव योगस्य। `क्षौद्रकमालवी` इति। `टिड्ढाणञ्` (4.1.15) इति ङीप्। `क्षौद्रकमालवकमन्यत्` इति। तदन्तविधिनात्र वुञ् भवति।`अञ्सिद्धेः` इत्यादि। क्षुद्रकमालशब्दात् **अनुदात्तादेरञ्** (4.2.44) इत्यञ् सिद्धः। तत्कोऽर्थः किं प्रयोजनं तस्य गणपाठेन?न किञ्चिदित्यर्थः। स्यादेतत् -यो गोत्रलक्षणो वुञ् स्यादेतस्तद्बाधनार्थः पाठः? इत्याह - `गोत्राद्वुञ् विधीयते` (इति)। न च क्षुद्रकमालवशब्दो गोत्रम्, तत्कुतस्ततो वुञ्प्राप्तिः? `तदन्तात्` इत्यादि। यद्यपि क्षुद्रकमालवशब्दो गोत्रसमुदायो गोत्रं न भवति, तदवयवस्तु भवति, तेन तदन्तविधिना प्राप्नोत्येव। `न च सर्वतः` इति। न च तदन्तविधिः सर्वत्रैव भवति। परिगणितेष्वेव कार्येषु तदन्तविधिरिष्यते, न चेदं तत्र परिगण्यते, तत्कुतस्तदन्तविधिना वुञ्प्राप्तिः। `ज्ञापकं स्यात्` इत्यादि। इदं हि क्षुद्रकमालवग्रहणं ज्ञापनार्थं भवेत्। एतज्ज्ञापयति - सामूहिकेषु तदन्तविधिरस्तीति। एवं कृत्वाऽषडपिशलेर्विधिरुपपन्नो भवति। विधीयतेऽनेनेति विधिः, स पुनः `धेनोरनञः` (वा।423) इति, एतद्धि तत्सूत्रम्। अस्यायमर्थः - धेनुशब्दः समूहेऽर्थे ठकमुत्पादयति, न चेद्धेनुशब्दो नञ उत्तरो भवतीति। नञ्पूर्वपदो न भवतीति यावत्। यदि तत्र सामूहिकेषु तदन्तविधिर्न स्यात् `अनञः` इति वचनं नोपपपद्यते। असति तदन्तविधौ धेनुशब्दादुच्यमानः प्रत्ययः, कः प्रसङ्गो यदधेनुशब्दात् स्यात् ! तदेतदनञिति वचनं परमर्थवद्भवति यदि सामूहिकेषु तदन्तविधिर्भवति, नान्यथा। प्रयोजनान्तरमाह -`सेनायाम्` इत्यादि। सेनासंज्ञायामेव क्षुद्रकमालशब्दादञ् भवतीत्येष नियमो यता स्यादित्येवमर्थस्तस्य गणे पाठ इत्यर्थः। `यथा` इत्यादि। चेति समुच्चये। पूर्वविप्रतिषेधेन वुञाऽञो बाधनं यथा स्यादित्येवमर्थो गणे पाठः।`{खण्डिका -काशिका} खण्डिक` इति। खण्डिकशब्दो मत्वर्थीयठन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। `वल { संवरणे सञ्चलने च` - धातुपाठः-} संवरणे` (धातुपाठः-491) इत्यस्मात् **उणादयो बहुलम्** (3.3.1) इत्यवन्प्रत्यये डलयोरेकत्वस्मरणाल्लकारस्य डकारादेशे टापि वडवेति भवति। भिक्षुकशब्दोऽपि कुत्सार्थविवक्षायां कन्नन्तत्वात् पूर्वपदाद्युदात्तः। शुकोलूकयोरपि `प्राणिना कुपूर्वाणाम्` (फि।सू।1।30) इति कुपूर्वादिरुदात्त एव। आञ्शब्दः `कनिन् युवृषि` (द।उ।6।51) इत्यतः कनिन्ग्रहणेऽनुवर्तमाने `आन्नुक्षन्पूषन्प्लीहन्क्लेदन्तस्नेहन्मूर्धन्मज्जन्नर्यमन्विआप्सन्परिज्मन्मातरिआन्मघवन्` (द।उ।6।55) इति कनिन्प्रत्ययान्तो निपातितः,तेनसावपि पूर्ववदाद्युदात्तः। युगवरत्राशब्दयोरचितार्थः। संहतविगृहीतार्थं युगवरत्राग्रहणं वर्णयन्त - यौगम्, वारत्रम्, योगवरत्रमिति॥ Prakriyasarvasvam ----------------- अनुदात्तादित्वं स्वरशास्त्रगम्यम् । कापोतम् । मायूरम् । तैत्तिरम् ।।