42042: ब्राह्मणमाणववाडवाद्यन्

Padacheda: ब्राह्मण-माणव-वाडवात् | S | 5 | 1 |

यन् | S | 1 | 1 |

Sutrartha

‘तस्य समूहः’ अस्मिन् अर्थे ‘ब्राह्मण’, ‘माणव’, ‘वाडव’ शब्देभ्यः यन्-प्रत्ययः भवति ।

तस्य समूहः (4.2.37) अस्मिन् अर्थे ब्राह्मण, माणव, वाडव -शब्देभ्यः यन्-प्रत्ययः भवति । यथा - 1. ब्राह्मणानां समूहः = ब्राह्मण + यन् → ब्राह्मण्य । 2. माणवानां (युवकानां) समूहः = माणव + यन् → माणव्य । 3. वाडवानां (अग्नीनाम्) समूहः = वाडव + यन् → वाडव्य । अस्मिन् सूत्रे कानिचन वार्त्तिकानि दीयन्ते - 1.<! पृष्ठात् उपसंख्यानम्!> - ‘पृष्ठ’ शब्दात् अपि तस्य समूहः (4.2.37) अस्मिन् अर्थे यन्-प्रत्ययः भवति । पृष्ठानां समूहः = पृष्ठ + यन् → पृष्ठ्यम् । 2. <!अह्नः ख क्रतौ!> - ‘अहन्’ शब्दस्य क्रतौ प्रयोगः भवति चेत् तेषां समूहं दर्शयितुम् ‘ख’ प्रत्ययः भवति । अह्नाम् समूहः = अहन् + ख → अहन् + ईन (आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति खकारस्य ईन्-आदेशः] → अह् + ईन [नस्तद्धिते (6.4.144) इति टिसंज्ञकस्य लोपः] → अहीन 3. <!पर्श्वा णस् वक्तव्यः!> - ‘पर्शु’ (वृक्षस्य भेदनार्थम् प्रयुज्यमाणमायुधम्) शब्दात् तस्य समूहः (4.2.37) अस्मिन् अर्थे णस्-प्रत्ययः भवति । यथा - पर्शूनां समूहः = पर्शु + णस् → पर्शु + अ [इत्संज्ञा, लोपः] → → पार्शु + अ [आदिवृद्धिः] → पार्श्व [अत्र प्रत्ययः ‘सित्’ अस्ति, अतः अङ्गस्य सिति च (1.4.16) इति पदसंज्ञा भवति । अतः ओर्गुणः (6.4.146) इत्यनेन गुणादेशः न विधीयते, अपितु इको यणचि (6.1.77) इति यणादेशं कृत्वा रूपं सिद्ध्यति ] 4.<! वातात् ऊलः वक्तव्यः!> - ‘वात’ शब्दात् तस्य समूहः (4.2.37) अस्मिन् अर्थे ऊल-प्रत्ययः भवति । वातानां समूहः = वात + ऊल → वातूल । ज्ञातव्यम् - 1. ‘यन्’ प्रत्यये प्रयुक्तः नकारः स्वरार्थः अरस्ति । ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन नित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यमुदात्तः भवति । 2. ‘माणव’ अयम् शब्दः ‘मनोः अपत्यम्’ अस्मिन् अर्थे अण्-प्रत्ययं कृत्वा सिद्ध्यति । ‘मनु + अण्’ इत्यत्र <!अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेनसिध्यति माणवः!> इत्यनेन भाष्योक्तसिद्धान्तेन नकारस्य णकारादेशः भवति ।

Sutrartha (English)

The words ब्राह्मण, माणव, वाडव get the ‘यन्’ प्रत्यय in the meaning of ‘तस्य समूहः’.

Vasu English Summary

The affix यन् is added in the sense of ‘collection thereof’ after the words 1. ब्राह्मण 2. माणव and वाडव ।

Vasu English Translation

The affix यन् is added in the sense of ‘collection thereof’ after the words 1. ब्राह्मण 2. माणव and वाडव । The indicatory न् of यन् makes the word take udatta accent on the first syllable (6.1.197). Thus ब्राह्मण्यम्, माणव्यम्, वाडव्यम् ॥

Vart:- Also after the word पृष्ठ e.g. पृष्ठ्यः ॥

Vart:- The affix ख is added to अहन्, in the sense of a ‘sacrifice’. e.g. अहीनः ‘a collection of days of sacrifice’. Otherwise the form is आह्नः by अञ् see (4.2.45).

Vart:-The affix णस् comes after पर्शु, e.g. पार्श्वम् ‘a collection of axes’. The final उ of पर्शु is not changed by guna into ओ before the affix, because the word पर्शु is treated as a pada-word (1.4. 16) and not a Bha-word.

Vart:- The affix ऊल is added to वात e.g. वातूलः ‘a collection of winds or a mad-man’.

Bhashya

ब्राह्मणमाणववाडवाद्यन् (1465) (यन्प्रत्ययाधिकरणम्) (नित्वफलबोधकं भाष्यम्) किमर्थं ब्राह्मणादिभ्यो यन्विधीयते, न यञ्ञ्प्रकृतस्सोनुवर्तिष्यते? न ह्यस्ति विशेषो ब्राह्मणादिभ्यो यनो वा यञ्ञो वा, तदेव रूपं स एव स्वरः। एवं तर्हि सिद्धे सति यद् ब्राह्मणादिभ्यो यनं शास्ति तज्ज्ञापयत्याचार्यः -अन्येभ्योऽप्ययं भवतीति॥ किमेतस्य ज्ञापने प्रयोजनम्? यन्प्रकरणे पृष्ठादुपसंख्यानमिति चोदयिष्यति तन्न कर्तव्यं भवति॥ (5364 सिद्धार्थकथनपरं वार्तिकम्॥ 1 ॥) - यन्प्रकरणे पृष्ठादुपसंख्यानम् - (भाष्यम्) यन्प्रकरणे पृष्ठादुपसंख्यानं कर्तव्यम्। पृष्ठानां समूहः -पृष्ठयः -षडहः॥

Kashika

ब्राह्मणादिभ्यः शब्देभ्यो यन् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। नकारः स्वरार्थः। ब्राह्मणानां समूहो ब्राह्मण्यम्। माणव्यम्। वाडव्यम्॥ यन्प्रकरणे पृष्ठादुपसंख्यानम्॥ पृष्ठानां समूहः पृष्ठ्यः षडहः॥ अह्नः खः क्रतौ ॥ अह्नां समूहः अहीनः क्रतुः। क्रताविति किम्? आह्नः। खण्डिकादिषु दर्शनादञ् भवति॥ पर्श्वा णस् वक्तव्यः॥ पर्शूनां समूहः पार्श्वम्। पदसंज्ञकत्वाद् गुणो न भवति॥ वातादूलः॥ वातानां समूहो वातूलः॥

Siddhanta Kaumudi

ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ।<!पृष्ठादुपसंख्यानम् !> (वार्तिकम्) ॥ पृष्ठ्यम् ॥

Balamanorama

ब्राह्मणमाणववाडवाद्यन् - ब्राआहृणमाणव । ब्राआहृण्यमित्यादि । ब्राआहृणानां माणवानां बाडबानां च समूह इति विग्रहः । मनोरपत्यं माणवः । अणि नस्य णत्वम् ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेनसिध्यति माणवः॑ इतिमनोर्जातावञ्यतौ षुक्च॑ इति सूत्रे भाष्यम् ।पृष्ठादिति । ‘यन’ इति शेषः । पृष्ठ्यः षडह इति । षष्ण्णामह्नां समाहारः षडहः । समाहारे द्विगुः । ‘राजाहः सखिभ्यः’ इति टचि टिलोपः । रथन्तरबृहद्रौरूपवैराजशाक्वररैवताख्यानि षट् पृष्ठाख्यस्तोत्राणि । तद्युक्तान्यहानि लक्षणया पृष्ठानि, तेषां समूह इति विग्रहः ।

Tattvabodhini

ब्राह्मणमाणववाडवाद्यन् - ब्राआहृणमाणव । ननु त्रयोऽप्यमी वृद्धाः । तेभ्यः प्रकृतो यञेवास्तु, वृद्धाद्यनि यञि वा रूपे विशेषऽभावात् । नापि स्वरे विशेषः, उभयथाप्युदात्तत्वात् । स्त्रिया विशेषस्तु न शङ्क्य एव, नपुंसकत्वात् ।यञश्चे॑त्यत्रापत्यग्रहणाच्च । ठञ् तु नानुवर्तिष्यते, अस्वरितत्वादिति, चेत् । सत्यम् । अवृद्धादपि कृतश्चिद्विधानार्थं यन्वचनम् । तत्सिद्धार्थानुवादकं वार्तिकमाह — ।पृष्ठादुपसङ्ख्यानम् । पुष्ठादिति । पृष्ठं — स्तोत्रविशेषः । पष्ट इति । पृष्टानां समूहः ।पृष्ठ्यः षडह॑इति तु मत्वर्थलक्षणया बोध्यम् ।

Padamanjari

नकारः स्वार्थ इति ।’ञ्नित्यादिर्नित्यम्’ इत्याद्यौदातत्वं यथा स्यात् । किमर्थं पुनर्ब्राह्मणादिभ्यो यन्विधीयते, न प्रकृतो यञेव विधीयते, न हि वृद्धेषु यञो यनो वा विशेषोऽस्ति - तदेव रूपम्, स एव स्वरः, ठञस्त्वस्वरितत्वादननुवृत्तिः ? ज्ञापनार्थं तु । एतज् ज्ञापयति - अन्येभ्यऽप्ययम् । किं सिद्धं भवति ? पृष्ठादुपसङ्ख्यानं चोदयिष्यति तन्न वक्तव्यं भवति । पृष्ठानां समूह इति । पृष्ठशब्दः स्तुतिविशेषवचनः । पृष्ठयः षडह इति । तद्वति तदुपचारः । णस्वक्तव्य इति । सकारः पदसञ्ज्ञार्थः, तेन पार्श्वमित्यत्र भत्वाभावादोर्गुणो न भवति ॥

Nyaas

पृष्टादुपसंख्यानम् इति। पृष्ठशब्दाद्यन्प्रत्ययस्योपसंख्यानम् = व्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन पृष्ठशब्दादपि भविष्यतीति। अहीनः इति। अह्नष्टखोरेव (6.4.145) टिलोपः। आह्नः इति। अल्लोपोऽनः (6.4.134) इत्यकारलोपः। ननु चाचित्तलक्षणेन ठका भवितव्यम्, तत्कथमाह्न इति भवति? इत्याह - खण्डिकादिषु ` इत्यादि।`णस्वक्तव्यः इति। सकारः सिति च (1.4.16) इति विशेषणार्थः। तेन पार्(ामित्यत्र भत्वाभावात् ओर्गुणः (6.4.146) न भवति॥

Prakriyasarvasvam

ब्राह्मणसमूहो ब्रह्मण्यम् । माणव्यम् । बाडव्यम् । ‘वृषाच्चेष्टम्’ । वृषससूहो वृष्यम् ।<!अह्नः खः क्रतौ!> (वा०) अहन् ईन्—

Vartika

पृष्ठादुपसंख्यानम् ।