42041: ठञ् कवचिनश्च

Padacheda: ठञ् | S | 1 | 1 |

कवचिनः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha

‘तस्य समूहः’ अस्मिन् अर्थे केदार-शब्दात् कवचिन्-शब्दात् च ‘ठञ्’ प्रत्ययः भवति ।

तस्य समूहः (4.2.37) अस्मिन् अर्थे केदार-शब्दात् केदारात् यञ्च (4.2.40) इत्यनेन यञ् तथा वुञ्-प्रत्यययोः प्राप्तयोः अनेन सूत्रेण ठञ्-प्रत्ययः अपि भवति । तथा, कवचिन् (= यः कवचं धारयति सः) शब्दात् अपि वर्तमानसूत्रेण ठञ्-प्रत्ययः उच्यते । 1. केदाराणाम् समूहः = केदार + ठञ् → केदार + इक [ठस्येकः (7.3.50) इति ठकारस्य इक्-आदेशः] → कैदार + इक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कैदार् + इक [यस्येति च (6.4.148) इति अकारलोपः] → कैदारिक 2. कवचिनां समूहः = कवचिन् + ठक् → कवचिन् + इक [ठस्येकः (7.3.50) इति ठकारस्य इक्-आदेशः] → कावचिन् + इक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कावच् + इक [नस्तद्धिते (6.4.144) इति टिलोपः] → कावचिक

Sutrartha (English)

The words केदार and कवचिन् get the ठञ् प्रत्यय in the meaning of ‘तस्य समूहः’.

Vasu English Summary

The affix ठञ् comes in the sense of ‘collection thereof’ after the word केदार and also after the word कवचिन ।

Vasu English Translation

The affix ठञ् comes in the sense of ‘collection thereof’ after the word केदार and also after the word कवचिन । Thus कावचिकम् (6.4.144); and कैदारिकम्. We read the anuvritti of केदार in this Sutra, by virtue of the word च

Kashika

कवचिन्शब्दाद् ठञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। कवचिनां समूहः कावचिकम्। चकारः केदारादित्यस्यानुकर्षणार्थः। केदाराणां समूहः कैदारिकम् ॥

Siddhanta Kaumudi

चाक्तेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥

Balamanorama

ठञ् कवचिनश्च - ठञ्कवचिनश्च । केदारादपीति । कवचिन्शब्दात्केदारशब्दाच्च समूहे ठञ् स्यादित्यर्थः । कावचिकमिति । ठञ्, इकादेशे टिलोपः ।

Nyaas

कवचिञ्शब्दो मत्वर्थीयेनिप्रत्ययान्तः,प्रत्ययस्वरेणान्तोदात्तः। तस्मादनुदात्तादि (4.2.43) लक्षणेऽञि प्राप्ते वचनम्॥

Prakriyasarvasvam

अस्मात् केदाराच्च समूहे ठञ् । ‘नस्तद्धिते’ । कावचिकम् । कैदारिकम् ।।

Sutra Prayogas

  • कैदारिकाणाम् (शिशुपालवधम्): ठञ् कवचिनश्च इति चकाराट्ठञ्प्रत्ययः।