42042: ब्राह्मणमाणववाडवाद्यन् ============================= **Padacheda:** ब्राह्मण-माणव-वाडवात् | S | 5 | 1 | यन् | S | 1 | 1 | Sutrartha --------- **'तस्य समूहः' अस्मिन् अर्थे 'ब्राह्मण', 'माणव', 'वाडव' शब्देभ्यः यन्-प्रत्ययः भवति ।** **तस्य समूहः** (4.2.37) अस्मिन् अर्थे ब्राह्मण, माणव, वाडव -शब्देभ्यः यन्-प्रत्ययः भवति । यथा - 1. ब्राह्मणानां समूहः = ब्राह्मण + यन् → ब्राह्मण्य । 2. माणवानां (युवकानां) समूहः = माणव + यन् → माणव्य । 3. वाडवानां (अग्नीनाम्) समूहः = वाडव + यन् → वाडव्य । अस्मिन् सूत्रे कानिचन वार्त्तिकानि दीयन्ते - 1. - 'पृष्ठ' शब्दात् अपि **तस्य समूहः** (4.2.37) अस्मिन् अर्थे यन्-प्रत्ययः भवति । पृष्ठानां समूहः = पृष्ठ + यन् → पृष्ठ्यम् । 2. - 'अहन्' शब्दस्य क्रतौ प्रयोगः भवति चेत् तेषां समूहं दर्शयितुम् 'ख' प्रत्ययः भवति । अह्नाम् समूहः = अहन् + ख → अहन् + ईन (**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति खकारस्य ईन्-आदेशः] → अह् + ईन [**नस्तद्धिते** (6.4.144) इति टिसंज्ञकस्य लोपः] → अहीन 3. - 'पर्शु' (वृक्षस्य भेदनार्थम् प्रयुज्यमाणमायुधम्) शब्दात् **तस्य समूहः** (4.2.37) अस्मिन् अर्थे णस्-प्रत्ययः भवति । यथा - पर्शूनां समूहः = पर्शु + णस् → पर्शु + अ [इत्संज्ञा, लोपः] → → पार्शु + अ [आदिवृद्धिः] → पार्श्व [अत्र प्रत्ययः 'सित्' अस्ति, अतः अङ्गस्य **सिति च** (1.4.16) इति पदसंज्ञा भवति । अतः **ओर्गुणः** (6.4.146) इत्यनेन गुणादेशः न विधीयते, अपितु **इको यणचि** (6.1.77) इति यणादेशं कृत्वा रूपं सिद्ध्यति ] 4. - 'वात' शब्दात् **तस्य समूहः** (4.2.37) अस्मिन् अर्थे ऊल-प्रत्ययः भवति । वातानां समूहः = वात + ऊल → वातूल । ज्ञातव्यम् - 1. 'यन्' प्रत्यये प्रयुक्तः नकारः स्वरार्थः अरस्ति । **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्यनेन नित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यमुदात्तः भवति । 2. 'माणव' अयम् शब्दः 'मनोः अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययं कृत्वा सिद्ध्यति । 'मनु + अण्' इत्यत्र इत्यनेन भाष्योक्तसिद्धान्तेन नकारस्य णकारादेशः भवति । Sutrartha (English) ------------------- The words ब्राह्मण, माणव, वाडव get the 'यन्' प्रत्यय in the meaning of 'तस्य समूहः'. Vasu English Summary -------------------- The affix यन् is added in the sense of 'collection thereof' after the words 1. ब्राह्मण 2. माणव and वाडव । Vasu English Translation ------------------------ The affix यन् is added in the sense of 'collection thereof' after the words 1. ब्राह्मण 2. माणव and वाडव । The indicatory न् of यन् makes the word take *udatta* accent on the first syllable (6.1.197). Thus ब्राह्मण्यम्, माणव्यम्, वाडव्यम् ॥ Vart:- Also after the word पृष्ठ e.g. पृष्ठ्यः ॥ Vart:- The affix ख is added to अहन्, in the sense of a 'sacrifice'. e.g. अहीनः 'a collection of days of sacrifice'. Otherwise the form is आह्नः by अञ् see (4.2.45). Vart:-The affix णस् comes after पर्शु, e.g. पार्श्वम् 'a collection of axes'. The final उ of पर्शु is not changed by *guna* into ओ before the affix, because the word पर्शु is treated as a *pada*-word (1.4. 16) and not a *Bha*-word. Vart:- The affix ऊल is added to वात e.g. वातूलः 'a collection of winds or a mad-man'. Bhashya ------- ब्राह्मणमाणववाडवाद्यन् (1465) (यन्प्रत्ययाधिकरणम्) (नित्वफलबोधकं भाष्यम्) किमर्थं ब्राह्मणादिभ्यो यन्विधीयते, न यञ्ञ्प्रकृतस्सोनुवर्तिष्यते? न ह्यस्ति विशेषो ब्राह्मणादिभ्यो यनो वा यञ्ञो वा, तदेव रूपं स एव स्वरः। एवं तर्हि सिद्धे सति यद् ब्राह्मणादिभ्यो यनं शास्ति तज्ज्ञापयत्याचार्यः -अन्येभ्योऽप्ययं भवतीति॥ किमेतस्य ज्ञापने प्रयोजनम्? यन्प्रकरणे पृष्ठादुपसंख्यानमिति चोदयिष्यति तन्न कर्तव्यं भवति॥ (5364 सिद्धार्थकथनपरं वार्तिकम्॥ 1 ॥) - यन्प्रकरणे पृष्ठादुपसंख्यानम् - (भाष्यम्) यन्प्रकरणे पृष्ठादुपसंख्यानं कर्तव्यम्। पृष्ठानां समूहः -पृष्ठयः -षडहः॥ Kashika ------- ब्राह्मणादिभ्यः शब्देभ्यो यन् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। नकारः स्वरार्थः। ब्राह्मणानां समूहो ब्राह्मण्यम्। माणव्यम्। वाडव्यम्॥ यन्प्रकरणे पृष्ठादुपसंख्यानम्॥ पृष्ठानां समूहः पृष्ठ्यः षडहः॥ अह्नः खः क्रतौ ॥ अह्नां समूहः अहीनः क्रतुः। क्रताविति किम्? आह्नः। खण्डिकादिषु दर्शनादञ् भवति॥ पर्श्वा णस् वक्तव्यः॥ पर्शूनां समूहः पार्श्वम्। पदसंज्ञकत्वाद् गुणो न भवति॥ वातादूलः॥ वातानां समूहो वातूलः॥ Siddhanta Kaumudi ----------------- ब्राह्मण्यम् । माणव्यम् । वाडव्यम् । (वार्तिकम्) ॥ पृष्ठ्यम् ॥ Balamanorama ------------ **ब्राह्मणमाणववाडवाद्यन्** - ब्राआहृणमाणव । ब्राआहृण्यमित्यादि । ब्राआहृणानां माणवानां बाडबानां च समूह इति विग्रहः । मनोरपत्यं माणवः । अणि नस्य णत्वम् ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेनसिध्यति माणवः॑ इतिमनोर्जातावञ्यतौ षुक्च॑ इति सूत्रे भाष्यम् ।पृष्ठादिति । 'यन' इति शेषः । पृष्ठ्यः षडह इति । षष्ण्णामह्नां समाहारः षडहः । समाहारे द्विगुः । 'राजाहः सखिभ्यः' इति टचि टिलोपः । रथन्तरबृहद्रौरूपवैराजशाक्वररैवताख्यानि षट् पृष्ठाख्यस्तोत्राणि । तद्युक्तान्यहानि लक्षणया पृष्ठानि, तेषां समूह इति विग्रहः । Tattvabodhini ------------- **ब्राह्मणमाणववाडवाद्यन्** - ब्राआहृणमाणव । ननु त्रयोऽप्यमी वृद्धाः । तेभ्यः प्रकृतो यञेवास्तु, वृद्धाद्यनि यञि वा रूपे विशेषऽभावात् । नापि स्वरे विशेषः, उभयथाप्युदात्तत्वात् । स्त्रिया विशेषस्तु न शङ्क्य एव, नपुंसकत्वात् ।यञश्चे॑त्यत्रापत्यग्रहणाच्च । ठञ् तु नानुवर्तिष्यते, अस्वरितत्वादिति, चेत् । सत्यम् । अवृद्धादपि कृतश्चिद्विधानार्थं यन्वचनम् । तत्सिद्धार्थानुवादकं वार्तिकमाह — ।पृष्ठादुपसङ्ख्यानम् । पुष्ठादिति । पृष्ठं — स्तोत्रविशेषः । पष्ट इति । पृष्टानां समूहः ।पृष्ठ्यः षडह॑इति तु मत्वर्थलक्षणया बोध्यम् । Padamanjari ----------- नकारः स्वार्थ इति ।'ञ्नित्यादिर्नित्यम्' इत्याद्यौदातत्वं यथा स्यात् । किमर्थं पुनर्ब्राह्मणादिभ्यो यन्विधीयते, न प्रकृतो यञेव विधीयते, न हि वृद्धेषु यञो यनो वा विशेषोऽस्ति - तदेव रूपम्, स एव स्वरः, ठञस्त्वस्वरितत्वादननुवृत्तिः ? ज्ञापनार्थं तु । एतज् ज्ञापयति - अन्येभ्यऽप्ययम् । किं सिद्धं भवति ? पृष्ठादुपसङ्ख्यानं चोदयिष्यति तन्न वक्तव्यं भवति । पृष्ठानां समूह इति । पृष्ठशब्दः स्तुतिविशेषवचनः । पृष्ठयः षडह इति । तद्वति तदुपचारः । णस्वक्तव्य इति । सकारः पदसञ्ज्ञार्थः, तेन पार्श्वमित्यत्र भत्वाभावादोर्गुणो न भवति ॥ Nyaas ----- `पृष्टादुपसंख्यानम्` इति। पृष्ठशब्दाद्यन्प्रत्ययस्योपसंख्यानम् = व्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन पृष्ठशब्दादपि भविष्यतीति। `अहीनः` इति। **अह्नष्टखोरेव** (6.4.145) टिलोपः। `आह्नः` इति। **अल्लोपोऽनः** (6.4.134) इत्यकारलोपः। ननु चाचित्तलक्षणेन ठका भवितव्यम्, तत्कथमाह्न इति भवति? इत्याह - `खण्डिकादिषु ` इत्यादि।`णस्वक्तव्यः` इति। सकारः `सिति च` (1.4.16) इति विशेषणार्थः। तेन पार्(ामित्यत्र भत्वाभावात् **ओर्गुणः** (6.4.146) न भवति॥ Prakriyasarvasvam ----------------- ब्राह्मणसमूहो ब्रह्मण्यम् । माणव्यम् । बाडव्यम् । 'वृषाच्चेष्टम्' । वृषससूहो वृष्यम् । (वा०) अहन् ईन्— Vartika ------- पृष्ठादुपसंख्यानम् ।