42041: ठञ् कवचिनश्च =================== **Padacheda:** ठञ् | S | 1 | 1 | कवचिनः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **'तस्य समूहः' अस्मिन् अर्थे केदार-शब्दात् कवचिन्-शब्दात् च 'ठञ्' प्रत्ययः भवति ।** **तस्य समूहः** (4.2.37) अस्मिन् अर्थे केदार-शब्दात् **केदारात् यञ्च** (4.2.40) इत्यनेन यञ् तथा वुञ्-प्रत्यययोः प्राप्तयोः अनेन सूत्रेण ठञ्-प्रत्ययः अपि भवति । तथा, कवचिन् (= यः कवचं धारयति सः) शब्दात् अपि वर्तमानसूत्रेण ठञ्-प्रत्ययः उच्यते । 1. केदाराणाम् समूहः = केदार + ठञ् → केदार + इक [**ठस्येकः** (7.3.50) इति ठकारस्य इक्-आदेशः] → कैदार + इक [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → कैदार् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → कैदारिक 2. कवचिनां समूहः = कवचिन् + ठक् → कवचिन् + इक [**ठस्येकः** (7.3.50) इति ठकारस्य इक्-आदेशः] → कावचिन् + इक [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → कावच् + इक [**नस्तद्धिते** (6.4.144) इति टिलोपः] → कावचिक Sutrartha (English) ------------------- The words केदार and कवचिन् get the ठञ् प्रत्यय in the meaning of 'तस्य समूहः'. Vasu English Summary -------------------- The affix ठञ् comes in the sense of 'collection thereof' after the word केदार and also after the word कवचिन । Vasu English Translation ------------------------ The affix ठञ् comes in the sense of 'collection thereof' after the word केदार and also after the word कवचिन । Thus कावचिकम् (6.4.144); and कैदारिकम्. We read the *anuvritti* of केदार in this *Sutra*, by virtue of the word च Kashika ------- कवचिन्शब्दाद् ठञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। कवचिनां समूहः कावचिकम्। चकारः केदारादित्यस्यानुकर्षणार्थः। केदाराणां समूहः कैदारिकम् ॥ Siddhanta Kaumudi ----------------- चाक्तेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥ Balamanorama ------------ **ठञ् कवचिनश्च** - ठञ्कवचिनश्च । केदारादपीति । कवचिन्शब्दात्केदारशब्दाच्च समूहे ठञ् स्यादित्यर्थः । कावचिकमिति । ठञ्, इकादेशे टिलोपः । Nyaas ----- कवचिञ्शब्दो मत्वर्थीयेनिप्रत्ययान्तः,प्रत्ययस्वरेणान्तोदात्तः। तस्मादनुदात्तादि (4.2.43) लक्षणेऽञि प्राप्ते वचनम्॥ Prakriyasarvasvam ----------------- अस्मात् केदाराच्च समूहे ठञ् । 'नस्तद्धिते' । कावचिकम् । कैदारिकम् ।। Sutra Prayogas -------------- * **कैदारिकाणाम्** (शिशुपालवधम्): `ठञ् कवचिनश्च` इति चकाराट्ठञ्प्रत्ययः।