42035: महाराजप्रोष्ठपदाट्ठञ् ============================ **Padacheda:** महाराज-प्रोष्ठपदात् | S | 5 | 1 | ठञ् | S | 1 | 1 | Sutrartha --------- **'सा अस्य देवता' अस्मिन् अर्थे 'महाराज' शब्दात् तथा 'प्रोष्ठपद' शब्दात् ठञ् प्रत्ययः भवति ।** **सा अस्य देवता** (4.2.24) अस्मिन् अर्थे 'महाराज'शब्दात् तथा 'प्रोष्ठपद'शब्दात् ठञ्-प्रत्यय भवति । यथा - 1. महाराजः अस्य देवता सः = महाराज + ठञ् → महाराज + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → माहाराज + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → माहाराज् + इक [**यस्येति च** (6.4.148) इति कारलोपः] → माहाराजिक 2. प्रोष्ठपदः (भाद्रपदमासस्य अन्यत् नाम) अस्य देवता सः = प्रोष्ठपद + ठञ् → प्रोष्ठपद + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → प्रौष्ठपद + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → प्रौष्ठपद् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → प्रौष्ठपदिक Sutrartha (English) ------------------- The words 'महाराज' and 'प्रोष्ठपद' get the प्रत्यय ठञ् in the meaning of 'सा अस्य देवता'. Vasu English Summary -------------------- The affix ठञ् comes in the sense of 'this its deity' after the words 1. महाराज and 2. प्रोष्ठपद। Vasu English Translation ------------------------ The affix ठञ् comes in the sense of 'this its deity' after the words 1. महाराज and 2. प्रोष्ठपद। Thus महाराजो देवताऽस्य = महाराजिकम्, प्रौष्ठपदिकम् ॥ Vart:- After the words नवयज्ञ &c the affix ठञ् comes in the sense of 'that exists in it'. As नवयज्ञोऽस्मिन् वर्तते = नावयज्ञिकः कालः ॥ So also पाकयज्ञिकः &c. Vart:- After the word पूर्णमास, the affix अण् comes in the same sense. As पूर्णमासोऽस्यां वर्तते = पौर्णमासी तिथिः 'the day in which the full-moon occurs.' Bhashya ------- महाराजप्रोष्ठपदाट्ठञ्ञ् (1458) (ठञ्ञोऽधिकरणम्) (5350 सिद्धान्तवार्तिकम्॥ 1 ॥) - ठञ्ञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् - (भाष्यम्) ठञ्ञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानं कर्तव्यम्। नवयज्ञो वर्ततेऽस्मिन् काले -नावयज्ञिकः, पाकयज्ञिकः॥ (5351 सिद्धान्तवार्तिकम्॥ 2 ॥) - पूर्णमासादण् - (भाष्यम्) पूर्णमासादण्वक्तव्यः। पूर्णमासो वर्ततेऽस्मिन् काले -पौर्णमासी तिथिः॥ Kashika ------- महाराजशब्दात् प्रोष्ठपदशब्दात् च ठञ् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। महाराजो देवतास्य माहाराजिकम्। प्रौष्ठपदिकम्॥ ठञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानम्॥ नवयज्ञोऽस्मिन् वर्तते नावयज्ञिकः कालः। पाकयज्ञिकः॥ पूर्णमासादण्॥ पूर्णमासोऽस्यां वर्तते पा॒ैर्णमा॒सी॑ (मै०सं० १.६.९) तिथिः॥ Siddhanta Kaumudi ----------------- माहाराजिकम् । प्रौष्ठपदिकम् ॥ Balamanorama ------------ **महाराजप्रोष्ठपदाट्ठञ्** - महाराजप्रोष्ठपदाट्ठञ् । माहाराजिकमिति । महाराजो वैश्रवणः, स देवता अस्येति विग्रहः । प्रौष्ठपदिकमिति । प्रोष्ठपदो देवता अस्येति विग्रहः । Padamanjari ----------- महाराजो वैश्रवणः, प्रोष्ठपदशब्दात्पूर्वेण नक्षत्राणि प्राप्ते वचनम्, नवयज्ञ आग्रयणम् । पूर्णमासादणिति । अस्मिन्वर्तत इत्येव । पौर्णमासीति । पूर्णो मासोऽस्या तिथौ वर्तत इति विग्रहः, एषेव च व्युत्पत्तिः'सास्मिन्पौर्णमासी' इत्यत्रापि दर्शिता ॥ Prakriyasarvasvam ----------------- महाराजः कुबेरः । तद्देवत्यं माहागजिकम् । प्रौष्ठपदिकं तन्नक्षत्रदेवत्यम् । ‘तदस्मिन् वर्तत इति नवयज्ञादिभ्यष्ठञ् वाच्यः’ (वा०) । नवयज्ञः आग्रयणं, तदस्मिन् वर्तत इति नावयज्ञिकः शरत्कालः । पाकयज्ञिकं गृहम् ॥ Vartika ------- तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् ।