42017: शूलोखाद्यत्

Padacheda: शूल-ऊखात् | S | 5 | 1 |

यत् | S | 1 | 1 |

Sutrartha

शूलशब्दात् उखाशब्दात् च ‘संस्कृतं भक्षाः’ इत्यस्मिन् अर्थे यत्-प्रत्ययः भवति ।

संस्कृतं भक्षाः (4.2.16) इत्यस्मिन् अर्थे शूल तथा उखा - एताभ्याम् शब्दाभ्याम् ‘यत्’ प्रत्ययः विधीयते । शूले संस्कृतम् शूल्यम् मांसम् । उखायाम् संस्कृतमुख्यम् मांसम् । ज्ञातव्यम् - शूल तथा उखा - द्वावपि पात्रविशेषौ स्तः ।

Sutrartha (English)

The words शूल and उखा get the प्रत्यय यत् in the meaning of संस्कृतं भक्षाः.

Vasu English Summary

The affix यत् comes in the sense of ‘prepared food’ after the words शूल and उखा ending in the Locative -7th case.

Vasu English Translation

The affix यत् comes in the sense of ‘prepared food’ after the words शूल and उखा ending in the Locative -7th case. This debars अण् (4.1.83). As शूले संस्कृतं = शू꣡ल्यं ‘roasted on a spit’ – i.e. meat. So also उ꣡ख्यम् ‘flesh boiled in a pot’.

Kashika

शूलशब्दादुखाशब्दाच्च सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणोऽपवादः। शूले संस्कृतं शूल्यं मांसम्। उख्यम्॥

Siddhanta Kaumudi

अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः तस्यां संस्कृतं उख्यम् ॥

Tattvabodhini

शूलोखाद्यत् - शूलोखात् ।संस्कृतं भक्षाः॑इत्यनुवर्तते । कथम्उख्योऽग्निः॑इति । न ह्रसौ भक्ष इति चेत् । अत्राहुः -दिगादित्वाद्भावार्थे यदिति ।

Padamanjari

शूलोखादिति । समाहारद्वन्द्वः, उखाउपात्रविशेषः । यस्तु स्वाङ्गवाच्युखाशब्दस्तस्येह ग्रहणं न भवति; स्वाङ्गे संस्कर्तव्यस्याभावात् । कथमुख्योऽग्निरिति । न ह्यसौ भक्षः, भवार्थे दिगादित्वाद् द्रष्टव्यः ॥

Prakriyasarvasvam

शूले संस्कृतं शूल्यं मांसम् । उखायां चेद्, उख्यम् ॥

Sutra Prayogas

  • शूल्यमुख्यं (भट्टिकाव्यम्): शूलोखाद्यत् इति यत्।