42016: संस्कृतं भक्षाः¶
Padacheda: संस्कृतम् | S | 1 | 1 |
भक्षाः | S | 1 | 3 |
Sutrartha¶
सप्तमीसमर्थशब्दात् ‘संस्कृतम्’ इत्यस्मिन् अर्थे भक्षं निर्देशयितुमण् प्रत्ययः भवति ।
‘संस्कृतम्’ इत्युक्ते ‘प्रक्रियया परिवर्तितम्’ । यदि कस्यचन भक्षस्य ( = खाद्यपदार्थस्य) कस्मिंश्चित् माध्यमे पात्रे वा प्रक्रियां कृत्वा परिवर्तनं क्रियते, तर्हि तस्य परिवर्तित-पदार्थस्य निर्देशं कर्तुम् ‘यस्मिन् माध्यमे / पात्रे परिवर्तनं कृतम्’ तस्मात् सप्तमीसमर्थात् शब्दात् यथाविहितः तद्धितप्रत्ययः भवति । यथा - 1. कलशे संस्कृताः यवाः = कालशाः । 2. कुम्भे संस्कृताः अपूपाः = कौम्भाः । 3. घृते संंस्कृतम् ओदनम् = घार्तम् ओदनम् । 4. भ्राष्ट्रे संस्कृताः अपूपाः = भ्राष्ट्राः अपूपाः । 5. अष्टसु कपालेषु (= अष्टाकपालेषु) संस्कृतः पुरोडाशः = अष्टाकपालः पुरोडाशः । अत्र ‘अष्टाकपाल’ अयं शब्दः द्विगुसमासेन निर्मितः अस्ति, अतः द्विगोर्लुगनपत्ये (4.1.88) इति तस्मात् परस्य अण्-प्रत्ययस्य लुक् भवति । ज्ञातव्यम् - 1. अत्र कलश, कुम्भ, भ्राष्ट्र, अष्टकपाल - एतानि सर्वाणि पात्रविशेषानि सन्ति येषु पदार्थस्य संस्करणम् कृतमस्ति । ‘घृत’ इति तु माध्यममस्ति यस्मिन् अन्यपदार्थस्य संस्करणम् कृतमस्ति । एतादृशम् पात्रवाचिनः शब्दात् तथा माध्यमवाचिनः शब्दात् - द्वाभ्यामपि शब्दाभ्यामनेन सूत्रेण यथाविहितः प्रत्ययः विधीयते । 2. ‘भक्ष’ इत्युक्ते भुज्यः / खाद्यः पदार्थः । भक्ष्यते तत् भक्ष्यम् । ‘भक्ष्’ इत्यस्मात् धातोः कर्मणि घञ्-प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । 3. यदि भक्षस्य निर्देशः नास्ति तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - ‘पुष्पपुटे संस्कृतः मालागुणः’ इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।
Sutrartha (English)¶
To indicate a food item using the vessel or the medium used for its processing / culturing / preparation, an appropriate तद्धितप्रत्यय can be used with the word in the सप्तमी विभक्ति indicating the name of the vessel or the medium.
Vasu English Summary¶
The affix अण् comes after a word ending in the Locative -7th case to denote ‘what is prepared therein’ -if that which is so prepared be ‘granular food’.
Vasu English Translation¶
The affix अण् comes after a word ending in the Locative -7th case to denote ‘what is prepared therein’ -if that which is so prepared be ‘granular food’. Thus भ्राष्ट्रे संस्कृता भक्षा = भ्राष्टाः ‘a cake fried in the pan’. Similarly कालशाः कौम्भाः ॥ Why do we say “if it means food”? Observe पुष्पपुटे संस्कृतो मालागुणः ॥
Kashika¶
तत्रेति सप्तमीसमर्थात् संस्कृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् संस्कृतं भक्षाश्चेत् ते भवन्ति। खरविशदमभ्यवहार्यं भक्षमित्युच्यते। सत उत्कर्षाधानं संस्कारः। भ्राष्टे्र संस्कृता भक्षा भ्राष्ट्रा अपूपाः। कालशाः। कौम्भाः। भक्षा इति किम्? पुष्पपुटे संस्कृतो मालागुणः॥
Siddhanta Kaumudi¶
सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृताभ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टकपालः पुरोडाशः ॥
Laghu Siddhanta Kaumudi¶
सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः। भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः॥
Balamanorama¶
संस्कृतं भक्षाः - संस्कृतं भक्षाः । भक्ष्यन्ते इति भक्षाः, कर्मणि घञ् । तत्रेत्यनुवर्तते । तदाह — सप्तम्यन्तादिति । एकवचनं बहुवचनं च सामान्याभिप्रायं, जात्याख्यायामेकस्मिन्बहुवचन॑मित्युक्तेरित्यभिप्रेत्याह — यत्संस्कृतमिति । संस्कारो नाम पाकादिना गुणविशेषाधानम् । अष्टाकपाल इति । ‘तद्धितार्थ’ इति समासः । भक्षा इति किम् पुष्पपुटे संस्कृतं भक्षाः॑ इत्यर्थे यत्स्यादित्यर्थः । उखा पात्रविशेष इति ।पिठरं स्थाल्युखा कुण्ड॑मित्यमरः ।
Tattvabodhini¶
संस्कृतं भक्षाः - अष्टाकपाल इति ।द्विगोर्लुगनपत्ये॑इत्यणो लुक् ।
Padamanjari¶
संस्कृतमित्येतत् कर्मसामान्ये व्युत्पाद्यते, तेन नपुंसकलिङ्गमेकवचनं च, भक्षा इत्येततु अपूपाद्यभ्यवहार्यविशेषे व्युत्पाद्यते, तेन पुलिङ्गं बहुवचनं च । तत्र वाक्यार्थगम्यस्यार्थस्य पदसंस्कारेऽनुपयोगात्संस्कृतमित्येनद्भवति, अत एव विरम्य सम्बन्धं दर्शयति - यतत्संस्कृतम्भक्षास्ते चेद् भवन्तीति, अणौ यत्कर्म णौ चेत् स कर्तेतिवत्, तच्छब्दस्य प्रतिनिर्दिश्यमानलिङ्गता । खरविशदमिति । खरमु कठिनम्, विशदमु विभक्तम् । भक्षशब्देनोच्यत इति । यद्यप्यब्भक्षो वायुभक्ष इति भक्षयतेरन्यत्रापि प्रयोगः, भक्षशब्दस्तु तत्रैव प्रसिद्ध इति भावः ॥
Prakriyasarvasvam¶
<karika>तत्र संस्कृतमित्यर्थेऽण् भक्षाश्चेत् संस्कृता इह । दन्तैर्भक्ष्यं भक्षमाहुः पैठरास्तिलतण्डुलाः ॥ २३२ ॥</karika>