42015: स्थण्डिलाच्छयितरि व्रते

Padacheda: स्थण्डिलात् | S | 5 | 1 |

शयितरि | S | 7 | 1 |

व्रते | S | 7 | 1 |

Sutrartha

‘स्थण्डिल’शब्दात् ‘यः व्रतस्य उद्देशेन शयनं करोति’ तस्य निर्देशं कर्तुमण् प्रत्ययः भवति ।

Vasu English Summary

The affix अञ् already ordained – प्राग्दीव्यतोऽण् (4.1.83), comes after the word स्थण्डिल being in the Locative -7th case in construction in the sense of ‘a sleeper thereon’ and the whole word so formed denotes ‘a person performing a vow’.

Vasu English Translation

The affix अञ् already ordained – प्राग्दीव्यतोऽण् (4.1.83), comes after the word स्थण्डिल being in the Locative -7th case in construction in the sense of ‘a sleeper thereon’ and the whole word so formed denotes ‘a person performing a vow’. Thus स्थण्डिले शयितुं व्रतमस्य = स्थाण्डिलः ‘a person who has taken the vow to sleep on the bare ground’ i. e. an ascetic or a Brahmachari.

Why do we say ‘vow’? Observe स्थण्डिले शेते ब्रह्मदत्तः ‘Brahmadatta sleeps on the bare ground’, not as a matter of vow, but of necessity or pleasure. The word व्रत means a ‘vow or an observance ordained by religious codes’.

Kashika

स्थण्डिलशब्दात् सप्तमीसमर्थात् शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेद् व्रतं गम्यते। व्रतमिति शास्त्रितो नियम उच्यते। स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः। स्थाण्डिलो ब्रह्मचारी। व्रत इति किम्? स्थण्डिले शेते ब्रह्मदत्तः॥

Siddhanta Kaumudi

तत्रेत्येव । समुदायेन चेद्व्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥

Balamanorama

स्थण्डिलाच्छयितरि व्रते - स्थण्डिलात् । स्थण्डिलशब्दात्सप्तम्यन्ताद्व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः ।

Tattvabodhini

स्थण्डिलाच्छयितरि व्रते - स्थण्डिलात् । व्रतं=शास्त्रेण विहितो नियमः, तस्मिन्समुदायेन गम्ये सप्तन्यन्ताद्यथाविहितः प्रत्ययो भवति शयितर्यर्थे ।

Padamanjari

शास्त्रित इति । संजातशास्त्र इत्यर्थः । यद्वा - तृतीयासमर्थाद्विधानेऽर्थे’प्रातिपदिकाद्धत्वर्थे’ इति णिच्, कर्मणि क्तः, शास्त्रेण विहित इत्यर्थः । स्थण्डिले शयितुं व्रतमस्येति । तुमुनत्र वक्तव्यः; व्रतस्याक्रियारूपत्वात् ॥

Nyaas

समुदायेन च इत्यादिना प्रकृतिप्रत्ययोपाधित्वं व्रतस्य दर्शयति। शास्त्रितः शब्दः वाचि यमो व्रते (3.2.40) इत्यत्र व्युत्पादितः॥

Prakriyasarvasvam

स्थण्डिलशब्दात् तत्र शयितर्यर्थे व्रते द्योत्येऽण् । व्रतेन स्थण्डिले शयिता स्थाण्डिलः ॥

Sutra Prayogas

  • वाचं-यमान्स्थण्डिल-शायिनश्च (भट्टिकाव्यम्): स्थण्डिलाच्छयितरि व्रते इति णिनिः।