42015: स्थण्डिलाच्छयितरि व्रते ============================== **Padacheda:** स्थण्डिलात् | S | 5 | 1 | शयितरि | S | 7 | 1 | व्रते | S | 7 | 1 | Sutrartha --------- **'स्थण्डिल'शब्दात् 'यः व्रतस्य उद्देशेन शयनं करोति' तस्य निर्देशं कर्तुमण् प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix अञ् already ordained -- प्राग्दीव्यतोऽण् (4.1.83), comes after the word स्थण्डिल being in the Locative -7th case in construction in the sense of 'a sleeper thereon' and the whole word so formed denotes 'a person performing a vow'. Vasu English Translation ------------------------ The affix अञ् already ordained -- प्राग्दीव्यतोऽण् (4.1.83), comes after the word स्थण्डिल being in the Locative -7th case in construction in the sense of 'a sleeper thereon' and the whole word so formed denotes 'a person performing a vow'. Thus स्थण्डिले शयितुं व्रतमस्य = स्थाण्डिलः 'a person who has taken the vow to sleep on the bare ground' i. e. an ascetic or a *Brahmachari*. Why do we say 'vow'? Observe स्थण्डिले शेते ब्रह्मदत्तः '*Brahmadatta* sleeps on the bare ground', not as a matter of vow, but of necessity or pleasure. The word व्रत means a 'vow or an observance ordained by religious codes'. Kashika ------- स्थण्डिलशब्दात् सप्तमीसमर्थात् शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेद् व्रतं गम्यते। व्रतमिति शास्त्रितो नियम उच्यते। स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः। स्थाण्डिलो ब्रह्मचारी। व्रत इति किम्? स्थण्डिले शेते ब्रह्मदत्तः॥ Siddhanta Kaumudi ----------------- तत्रेत्येव । समुदायेन चेद्व्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥ Balamanorama ------------ **स्थण्डिलाच्छयितरि व्रते** - स्थण्डिलात् । स्थण्डिलशब्दात्सप्तम्यन्ताद्व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः । Tattvabodhini ------------- **स्थण्डिलाच्छयितरि व्रते** - स्थण्डिलात् । व्रतं=शास्त्रेण विहितो नियमः, तस्मिन्समुदायेन गम्ये सप्तन्यन्ताद्यथाविहितः प्रत्ययो भवति शयितर्यर्थे । Padamanjari ----------- शास्त्रित इति । संजातशास्त्र इत्यर्थः । यद्वा - तृतीयासमर्थाद्विधानेऽर्थे'प्रातिपदिकाद्धत्वर्थे' इति णिच्, कर्मणि क्तः, शास्त्रेण विहित इत्यर्थः । स्थण्डिले शयितुं व्रतमस्येति । तुमुनत्र वक्तव्यः; व्रतस्याक्रियारूपत्वात् ॥ Nyaas ----- `समुदायेन च` इत्यादिना प्रकृतिप्रत्ययोपाधित्वं व्रतस्य दर्शयति। `शास्त्रितः` शब्दः **वाचि यमो व्रते** (3.2.40) इत्यत्र व्युत्पादितः॥ Prakriyasarvasvam ----------------- स्थण्डिलशब्दात् तत्र शयितर्यर्थे व्रते द्योत्येऽण् । व्रतेन स्थण्डिले शयिता स्थाण्डिलः ॥ Sutra Prayogas -------------- * **वाचं-यमान्स्थण्डिल-शायिनश्च** (भट्टिकाव्यम्): `स्थण्डिलाच्छयितरि व्रते` इति णिनिः।