42012: द्वैपवैयाघ्रादञ्

Padacheda: द्वैप-वैयाघ्रात् | S | 5 | 1 |

अञ् | S | 1 | 1 |

Sutrartha

द्वैपशब्दात् वैयाघ्रशब्दात् च ‘परिवृतः’ अस्मिन् अर्थे रथं निर्देशयितुम् ‘अञ्’ प्रत्ययः भवति ।

परिवृतो रथः (4.2.10) अस्मिन् अर्थे ‘द्वैप’ तथा ‘वैयाघ्र’ शब्दाभ्यामञ्-प्रत्ययः विधीयते । यथा - द्वैपेन परिवृतो रथः = द्वैपः रथः । वैयाघ्रेन परिवृतो रथः वैयाघ्रः रथः । ज्ञातव्यम् - द्वैप तथा वैयाघ्र - द्वयोः अर्थः ‘व्याघ्रस्य चर्म’ इति भवति ।

Sutrartha (English)

The words द्वैप and वैयाघ्र get the प्रत्यय अञ् in the meaning of ‘परिवृतो रथः’

Vasu English Summary

The affix अञ् comes after the words द्वैप and वैयाघ्र being in the Instrumental -3rd case in construction in the sense of ‘surrounded’ the thing so surrounded being ‘a chariot’.

Vasu English Translation

The affix अञ् comes after the words द्वैप and वैयाघ्र being in the Instrumental -3rd case in construction in the sense of ‘surrounded’ the thing so surrounded being ‘a chariot’. Thus द्वैपेन परिवृतो रथः = दैपः ‘a car covered with a tiger’s skin’. So also वैयाघ्रः ॥ This affix अञ् debars अण्, the difference between these two being in accent only.

Kashika

द्वीपिव्याघ्रयोर्विकारभूते चर्मणी द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां परिवृतो रथ इत्येतस्मिन्नर्थेऽञ् प्रत्ययो भवति। अणोऽपवादः। स्वरे विशेषः। द्वैपेन परिवृतो रथो द्वैपः। वैयाघ्रः॥

Siddhanta Kaumudi

द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ॥

Balamanorama

द्वैपवैयाघ्रादञ् - द्वैपवैयाघ्रादञ् । तेनेति परिवृतो रथ इति चानुवर्तते । तृतीयान्ताद्द्वैपशब्दार्वैयाघ्रशब्दाच्च परिवृतो रथ इत्यर्थे अञ् स्यादित्यर्थः । अणोऽपवादः । स्वरे विशेषः । द्वीपिन इति । द्वीपी — व्याघ्रः, तस्य विकारश्चर्मेत्यर्थे ‘प्राणिरजतादिभ्यः’ इत्यञि द्वैपशब्द इत्यर्थः । एवं वैयाघ्र इति । व्याघ्रस्य चर्म, वैयाघ्रम् । अञिन य्वाभ्या॑मित्यैच् । तेन परिवृतो वैयाघ्र इति भावः ।

Padamanjari

द्वीपिव्याघ्रयोरिति ।’विरूपाणामपि समानार्थानाम्’ एकशेषः प्राप्नोति, तत्रावान्तरजातिभेदेन भिन्नार्थत्वान्न भविष्यतीति समाधातव्यम् । चर्मणैव रथस्य परिवरणं सम्भवति, न विकारमात्रेणेति’चर्मणी’ इत्युक्तम् । द्वीषिव्याघ्रशब्दाभ्याम् प्राणिरजतादिभ्योऽञ्ऽ इत्यञ्प्रत्ययः, द्वीपिनष्टिलोपः ॥

Nyaas

द्वीपिव्याघ्रयोर्विकार इत्यादि। द्वीपिनो विकारश्चर्म, व्याघ्रस्य विकारश्चर्म - इत्यर्थविवक्षायां प्राणिरजतादिभ्योऽञ् (4.3.154) इत्यञ्प्रत्ययान्तत्वात् द्वैपवैयाघ्रशब्दयोः, ताभ्यामिह द्वीपिव्याघ्रविकारत्वाच्चर्मणि अभिधीयेते। चर्मणैव द्वीपिव्याघ्रविकारेण रथस्य परिवृतत्वं सम्भवति, न विकारमात्रेणेति चर्मणी इह द्वैपवैयाघ्रशब्दाभ्यां विवक्षिते इति गम्यते॥

Prakriyasarvasvam

द्वीपचर्म द्वैपं, तदेव वैयाघ्रम् । आभ्यामुक्तेऽर्थेऽञ् । द्वैपो रथः । वैयाघ्रः ॥