42013: कौमारापूर्ववचने

Padacheda: कौमार | S | | | 1

अपूर्ववचने | S | 7 | 1 |

Sutrartha

‘अविवाहितम्’ अस्मिन् अर्थे ‘कौमार’ इति शब्दः निपात्यते ।

Vasu English Summary

The word कौमार is irregularly formed by adding the affix अण् when meaning ‘virginity’.

Vasu English Translation

The word कौमार is irregularly formed by adding the affix अण् when meaning ‘virginity’. Karika कौमारापूर्ववचने कुमार्या अण्विधीयते । अपूर्वत्वं यदा तस्याः कुमार्या भवतीतिवा ॥

Thus कौमारो भर्ता = अपूर्वपतिं कुमारीमुपपन्नः ‘the husband of a virgin’. i. e. one whose wife was given to him in marriage while she was a maid (not a widow). So also कौमारी भार्या = कुमारी अपूर्वपतिः पतिमुपपन्ना “a virgin wife” i. e. a wife who is taken in marriage while she was a maid (not a widow). In both these cases the word refers to the woman.

The word कौमार is formed by adding अण् to कुमारी ॥ Thus कुमार्याम् भवः = कौमारः; तस्य स्त्री कौमारी भार्या ॥

Bhashya

कौमारापूर्ववचने (1436) (निपातनाधिकरणम्) (5341 अपूर्ववचनार्थबोधकवार्तिकम्॥ 1 ॥) - कौमारापूर्ववचन इत्युभयतः स्त्रिया अपूर्वत्वे - (भाष्यम्) कौमारापूर्ववचन इत्यत्रोभयतः स्त्रिया अपूर्वत्व इति वक्तव्यम्। अपूर्वपतिं कुमारीमुपपन्नः कौमारो भर्ता। कुमारी -अपूर्वपतिः -पतिमुपपन्ना कौमारी भार्या॥ (भाष्यवार्तिकम्) कौमारापूर्ववचने कुमार्या अण्विधीयते। अपूर्वत्वं यदा तस्याः कुमार्यां भवतीति वा॥ (भाष्यम्) अथ वा कुमार्यां भवः कौमारः॥ यद्येवं कौमारीभार्येति न सिध्यति॥ (5342 अन्यथासिद्धिसाधकवार्तिकम्॥ 2 ॥) - पुंयोगात् स्त्र्यभिधानम् - (भाष्यम्) पुंयोगात् स्त्र्यभिधानं भविष्यति। कौमारस्य भार्या कौमारीति॥

Kashika

कौमार इत्येतदण्प्रत्ययान्तं निपात्यतेऽपूर्ववचने। पाणिग्रहणस्यापूर्ववचनम्। उभयतः स्त्रिया अपूर्वत्वे निपातनमेतत्। अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः। कुमारीशब्दाद् द्वितीयासमर्थादुपयन्तरिः प्रत्ययः। अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या। प्रथमान्तादेव स्वार्थे प्रत्ययोऽपूर्वत्वे द्योत्ये।

कौमारापूर्ववचने कुमार्या अण् विधीयते।

अपूर्वत्वं यदा तस्याः कुमार्यां भवतीति वा॥

कुमार्यां भवः कौमारः पतिः, तस्य स्त्री कौमारी भार्येति सिद्धम्॥

Siddhanta Kaumudi

कौमारेत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः । यद्वा । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ॥

Balamanorama

कौमारापूर्ववचने - कौमारापूर्व । तेनेति परिवृतो रथ इति च निवृत्तम् । अविभक्तिक इति । लुप्तप्रथमाक इति भावः । अपूर्वशब्दो भावप्रधान इत्याह — अपूर्वत्वे निपातनमिदमिति । न पूर्व पतिर्यस्याः सा अपूर्वपतिः, तां कुमारीमुपयतवान् पतिरित्यर्थे द्वितीयान्तात्कुमारीशब्दादण् स्यादित्येकोऽर्थः । कुमारी अपूर्वपतिमुपपन्नेत्यर्थे प्रथमान्तात्कुमारीशब्दादण् स्यादित्यन्योऽर्थः । आद्यो उदाहरति — अपूर्वपतिमिति । द्वितीये उदाहरति — यद्वेत्यादि । आद्ये उपयन्तरि प्रत्ययः । द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः ।

Tattvabodhini

कौमारापूर्ववचने - कौमारा । तेनेति निवृत्तम् ।अपूर्व॑इति भावप्रधानो निर्देश इत्याह -अपूर्वत्वे इति । अपूर्वत्वं तु स्त्रिया एवेष्यते, पुरुषस्तु अपूर्वभार्योऽस्तु वा मा वेत्यनाग्रहः । अपूर्वपतिमिति । न पूर्वं पतिर्यस्या इति बहुव्रीहिः । कौमारः परिति । द्वितीयान्तात्कुमारीशब्दादुपयन्तरि प्रत्ययः । कौमारीति । इह कुमारीशब्दात्प्रथमान्तात्स्वार्थे प्रत्ययः,टिढ्ढा॑णिति ङीप् । तत्रोद्धृत ।सास्मिन्पौर्णमासी॑ति सूत्रात्प्राक्तत्रे॑त्यधिकारः । पात्रवाचिभ्यः सप्तम्यन्तेभ्य उद्धृतमित्यर्थे यथाविहितं प्रत्ययाः स्युः ।

Padamanjari

अपूर्ववचन इति । अपूर्वशब्दो भावप्रधानः । अपूर्वत्वस्य वचनमपूर्ववचनम्, तस्मिन्नपूर्ववचने । कस्य पुनरपूर्वत्वोक्तावित्याह - पाणिग्रहणस्येति । एतच्च निपातनसामर्थ्याल्लभ्यते । उभयतः । आद्यादित्वातसिः । स्त्रीपुंसयोरुभयोरप्येतन्निपातनमिष्यते, उभयोश्च पक्षयोरपूर्वत्वं स्त्रिया एव, न पुंस इत्यर्थः । तत्र कौमारेति स्त्रीपुंससाधारणप्रातिपदिकमात्रनिर्देशादवसीयते - उभयोरपि निपातनमिति । स्त्रिया एवापूर्वत्वमित्येततु निपातनबलाल्लभ्यते । अपूर्वपतिमिति । यस्याः पाणिर्न केनचिद्गृहीतपूर्वः साऽपूर्वपतिः, न विद्यते पूर्वः पतिरिति कृत्वा, तामुपपन्नःउप्राप्तः, भार्यात्वेन स्वीकृतवानित्यर्थः । स तु पूर्वकृतोद्वाहो भवतु मा वा भूत् । अपूर्वपतिरिति । अयमपि बहुव्रीहिः, अत्रापि पुरुषः पूर्ववत् । कोमारेत्यादि । कौमारेति निपात्यतेऽपूर्वचने । किमत्र निपात्यते ? कुमार्या अण् विधीयते । कदा ? अपूर्वत्वं यदा तस्याः । यदा कुमार्या अपूर्वत्वं न पुंसस्तदेत्यर्थः । कुमार्या भवतीति वेति । अनेन योगः प्रत्याख्यायते; यः कुमारीमुपपन्नस्तस्यामसौ भवति, तदायतत्वाद्धर्माचरणादेः, ततश्च’तत्र भवः’ इत्यवाण सिद्धः । यद्यपि वाण्याद्यपि कुमार्यां भवति तथापि सत्यभिधाने’तत्र भावः’ इति भवत्येव । सूत्रारम्भेऽपि हि नासौ दण्डवारितः, एवं तावत्कौमार इति सिद्धम् । स्त्रियामपि सिद्धम्, कथम् ? कौमारस्य स्त्री कौमारी, प्रत्यासत्या च यस्यामसाभवन् कौमारव्यपदेशं लभते सैवाभिधीयते न स्त्र्यन्तरम्, एतच्च सूत्रारम्भेऽप्यङ्गीकर्तव्यम् ॥

Nyaas

अपूर्ववचने`इति। अपूर्वस्य वचन इति, अपूर्वाभिधान इत्यर्थः। कस्यापूर्ववचनमित्याह -`पाणिग्रहणस्य इत्यादि। एतच्च सामान्योक्तावपि निपातनसामर्थ्याल्लभ्यते। यथैव हि निपातनसामर्थ्यादन्यदपि किञ्चिदलाक्षणिकं कार्यं लभ्यते,तथेदमपि। उभयतः स्त्रियाम् इत्यादि। यदि कौमार इति पुमानभिधीयते, एवमप्यस्यापूर्वत्वं यदा स्त्रिया एव विशेषणं भवति, न पुंसः एवमतन्निपात्यते नान्यथेत्यर्थः। अपूर्वपतिम् इति। नास्याः पूर्वः पतिरिति बहुव्रीहिः। पत्या सह यस्याः पाणिग्रहणं निवृत्तं साऽपूर्वपतिः। तां पतिरुपपन्नः प्राप्तवानित्यर्थः। अपूर्वपतिः इति। अयमपि बहुव्रीहिः।कौमारापूर्ववचने इत्यादि। कौमार इत्येतन्निपात्यते, अपूर्ववचने। किं पुनरिह निपात्यत इत्याह - कुमार्या अण्विधीयते इति। कुमारीशब्दादण् निपात्यत इत्यर्थः। कदेत्याह - अपूर्वत्वं यदा तस्याः इति। इह हि निपातनेन पुमानभिधीयते, स्त्री वा,तत्र द्वयोरपि पक्षयोरपूर्वत्वम्। यदा तस्याः स्त्रिया विशेषणं भवति, न पुंसः, तदेतन्निपातनम्, नान्यथेत्यर्थः। कुमार्या भवतीति वा इति। अनेन योगः प्रत्याख्यायते। यो हि कुमारीं प्राप्तवानसौ तत्र भवति। ततस्च तत्र भवः (4.3.53) इति शैषिके भवार्थेऽणन्तं कौमारशब्दं व्युत्पद्येत,ततः पुंयगोलक्षणे ङीषि सति हि कुमारीत्येतत् सिद्धम्। स्वरकृतो विशेषो नास्त्येव। तथा हि अणन्तान्ङीष्यपि कृते यस्येति च (6.4.148) इति लोपे च अनुदात्तस्य च यत्रोदात्तलोपः (6.1.161) इत्युदात्तेन ङीपा भवितव्यम्। ङीष् प्रत्ययस्वरेणाद्युदात्त एव। ननु चैवं सति कौमारस्य याऽन्यापि स्त्रीकौमारव्यपदेशस्य कारणं सापि कौमारीति प्रसज्यते? नैष दोषः; प्रत्यासत्तेर्हि या तस् प्रत्यासन्ना सैव तस्य कौमारीति भविष्यति। का पुनस्तस्य प्रत्यासन्ना? या कौमारे व्यपदेशस्य हेतुः। यस्यामसौ भवन् कौमार इत्युच्यते सैव, नान्या। यद्यपि व्यासादयोऽपि कुमार्या भवन्ति तथापि तेष्वण्, न भविष्यति; अनभिधानात्। एतच्चावश्यमनभिधानमाश्रयणीयमिति; इतरथा हि क्रियमाणेऽपि निपातने तत्र भवः (4.3.53) इत्यनेनाण् स्यादेव॥

Prakriyasarvasvam

अपूर्वत्वे द्योत्येऽणन्तः कौमारशब्दो निपात्यते । अनन्यपूर्वां कुमारीमूढवान कौमारः पतिः । अनन्यपूर्वां पतिं प्राप्ता सा कुमार्येव कौमारीत्युभयत्रापि, स्त्रिया अपूर्वत्वमिष्टं वृत्त्यादौ । शृङ्गारे तूक्तं— <karika> ‘कौमारी सा भवेद् भार्या यां कुमारः प्रपद्यते । प्रपद्यते कुमारी यं स कौमारो मतः पतिः ॥ २३१ ॥ </karika> इति । अत्रानूढभार्यस्याद्या भार्या कौमारीति भेदः ।

Sutra Prayogas

  • कौमारीं (भट्टिकाव्यम्): कौमारापूर्ववचने इति निपात्यते।