42011: पाण्डुकम्बलादिनिः

Padacheda: पाण्डुकम्बलात् | S | 5 | 1 |

इनिः | S | 1 | 1 |

Sutrartha

‘पाण्डुकम्बल’शब्दात् ‘परिवृतः’ अस्मिन् अर्थे रथं निर्देशयितुम् इनि प्रत्ययः भवति ।

परिवृतो रथः (4.2.10) अस्मिन् अर्थे ‘पाण्डुकम्बल’ शब्दात् ‘इनि’ प्रत्ययः भवति । अस्मिन् प्रत्यये नकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य प्रक्रियायां लोपः भवति । पाण्डुकम्बलेन परिवृतो रथः = पाण्डुकम्बल + इन् → पाण्डुकम्बल् + इन् [यस्येति च (6.4.148) इति अन्तिमवर्णलोपः] → पाण्डुकम्बलिन्

Sutrartha (English)

The word पाण्डुकम्बल gets the प्रत्यय ‘इनि’ in the meaning of ‘परिवृतो रथः’.

Vasu English Summary

The affix इनि comes after the word पाण्डुकम्बल etc. being in the Instrumental -3rd case in construction in the sense of ‘surrounded’ the thing so surrounded being ‘a chariot’.

Vasu English Translation

The affix इनि comes after the word पाण्डुकम्बल etc. being in the Instrumental -3rd case in construction in the sense of ‘surrounded’ the thing so surrounded being ‘a chariot’. This debars अण् ॥ Thus पाण्डुकम्बली रथः ‘a carriage covered with a white woolen blanket’. The word पाण्डुकम्बल means the housing of a royal elephant. The form पाण्डुकम्बलिन् would have been obtained by the affix इनि of (5.2.115), the present sutra is made in order to debar the affix अण् ॥

Bhashya

पाण्डुकलादिनिः (1434) (इनिप्रत्ययाधिकरणम्) (फलाभावबोधकभाष्यम्) अयं योगः शक्योऽवक्तुम्। कथम् - पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिन इति। इनिनैतन्मत्वर्थीयेन सिद्धम्। पाण्डुकम्बलोऽस्यास्तीति - पाण्डुकम्बली॥

Kashika

पाण्डुकम्बलशब्दात् तृतीयासमर्थात् परिवृतो रथ इत्येतस्मिन्नर्थ इनिः प्रत्ययो भवति। अणोऽपवादः। पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिनः। पाण्डुकम्बलशब्दो राजास्तरणस्य वर्णकम्बलस्य वाचकः। मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम्॥

Siddhanta Kaumudi

पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ॥

Balamanorama

पाण्डुकम्बलादिनिः - पाण्डुकम्बलादिनिः । तेनेति, परिवृतो रथ इति चानुवर्तते । इनिप्रत्यये नकारादिकार उच्चारणार्थः । ननु ‘अत इनिठनौ’ इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह — अणो निवृत्त्यर्थमिति ।

Padamanjari

मत्वर्थीयेनैव सिद्ध इति । यो हे येन परिवृतः स तस्यास्ति । अणो निवृत्यर्थमिति । यद्येतन्नारभ्येत, परिवृतो रथ इति विवक्षायां पूर्वेणाण् प्रसज्येत ॥

Nyaas

पाण्डुकम्बली इति। सौ च (6.4.13) इति दीर्घः।मत्वर्थीयेनैव सिद्धे इति। यद्धि येन सम्न्ताद्वेष्टितं तत् तस्यास्ति। तस्मात् अत इनिठनौ (5.2.115) इति म्तवर्थीयेनेनिना सिद्धे यत्तद्वचनं तदणो निवृत्त्यर्थम्। यदि लभ्येत, तन्नारभ्येत। यदि ह्रेतद्वचनं न स्यात्, तदा परिवृतो रथः (4.2.10) इत्यण्प्रसज्येत्, ततश्च पाण्डुकम्बल इति स्यात्, पाण्डुकम्बलीति चेष्यते। तस्मादण्निनृत्त्यर्थमुच्यते॥

Prakriyasarvasvam

गजास्तरणार्थो वर्णकम्बलः पाण्डुकम्बलः । तदाच्छादितो रथः पाण्डु- कम्बली ॥