41171: वृद्धेत्कोसलाजादाञ्ञ्यङ् =============================== **Padacheda:** वृद्ध-इत्-कोसल-अजादात् | S | 5 | 1 | ञ्यङ् | S | 1 | 1 | Sutrartha --------- **'कोसल', 'अजाद' एतौ क्षत्रियवाचिनौ शब्दौ , वृद्धसंज्ञकाः क्षत्रियवाचिनः शब्दाः, तथा च इकारान्ताः क्षत्रियवाचिनः शब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे ञ्यङ्-प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix ञ्यङ् comes in the sense of descendant after a word having वृद्धि in the first syllable and after a word ending in short इ and after the words 1. कोसल and 2. अजाद when they are the names of countries and क्षत्रिय-s. Vasu English Translation ------------------------ The affix ञ्यङ् comes in the sense of descendant after a word having वृद्धि in the first syllable and after a word ending in short इ and after the words 1. कोसल and 2. अजाद when they are the names of countries and क्षत्रिय-s. This debars अञ् ॥ Thus, to give example of *Vriddha* words, आम्बष्ठ्यः सौवीर्यः 'the sons or kings of *Ambashtha* and *Sauvira*'. Similarly to take words ending in short इ, we have आवन्त्यः and कौन्त्यः 'the son or kings of *Avanti* and *Kunti*'. These are words ending in short इ ॥ So also कौसल्यः and आजाद्यः, which are neither *Vriddhas* nor end in short इ ॥ Vart:- The affix '*dyan*' comes after the word '*Pandu*' when it is the name of a country as well as *Kshatriya* tribe. Thus पांड्यः, otherwise it will be पांडवः ॥ See (4.1.74). Kashika ------- जनपदशब्दात् क्षत्रियादित्येव। वृद्धात् प्रातिपदिकादिकारान्ताच्च कोसलाजाद — शब्दाभ्यां चापत्ये ञ्यङ् प्रत्ययो भवति। अञोऽपवादः। वृद्धात्तावत् — आम्बष्ठ्यः। सौवीर्यः। इकारान्तात् — आवन्त्यः। कौन्त्यः। कोसलाजादयोरवृद्धार्थं वचनम्। कौसल्यः। आजाद्यः। तपरकरणं किम्? कुमारी नाम जनपदसमानशब्दः क्षत्रियः, तस्यापत्यं कौमारः॥ पाण्डोर्जनपदशब्दात् क्षत्रियाड् ड्यण् वक्तव्यः॥ पाण्ड्यः॥ अन्यस्मात् पाण्डव एव। तस्य राजनीत्येव — आम्बष्ठ्यो राजा। आवन्त्यः। कौन्त्यः। कौसल्यः। आजाद्यः॥ Siddhanta Kaumudi ----------------- वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ॥ Padamanjari ----------- ड।ल्ण्वक्तव्य इति । डकारष्टिलोषार्थः, णकारो वृद्धिनिमितस्येति पुंवद्भाव प्रतिषेधार्थः । अन्यस्मादिति । गुणवचनाद्यौधिष्ठिरपितृवचनाच्च । पुरीरण्वक्तव्यः पौरव इति क्वचित्पठ।ल्ते, तत्र पुरुशब्दस्याजनपदशब्दत्वात्प्राग्दीव्यतीयेऽणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे'द्व्यञ्मगध' इत्येव सिद्धम् ॥ Nyaas ----- वृद्धग्रहणेनेह **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (1.1.73) इति गृह्रते, तस्यैव हि जनपदशब्दता क्षत्त्रियवाचित्वं च सम्भवति, न शास्त्रान्तरपरिभाषितस्य। `आम्बष्ठ्यः सौवीर्यः` इति। आम्बष्ठसौवीरशब्दाभ्यां ञ्यङ। `आवन्त्यः, कौन्त्यः` इति। अवन्तिकुन्तिशब्दाभ्यां ञ्यङ। `कौमारः` इत्यत्राञ् भवति। `डण् वक्तव्यः` इति। क्षत्त्रियञ्यङोऽपवाद इति, डकारष्टिलोपार्थ इति। स च `वान्यस्मिन् सपिण्डे` (4.1.165) इत्यतो मण्डूकप्लुतिन्यायेन वेत्यनुवृत्तेर्लभ्यते। तथैवमतिप्रसङ्गो भवति? व्यवस्थितविभाषात्वात् स न भविष्यति। `अन्यस्मात् पाण्डवः` इति। यः पाण्डुशब्दः क्षत्त्रिये वर्तते,तस्मादौत्सर्गिकेऽणि कृते पाण्डव इति भवति॥ Prakriyasarvasvam ----------------- वृद्धेभ्य इदन्तात् कोसलाजादशब्दाभ्यां च ञ्यङ् स्यात् । वृद्धात्, सौवीरपुत्रः सौवीर्यः । इदन्तात्, चैद्यः । आवन्त्यः । कौन्त्यः । कौसल्यः । आजाद्यः । 'अप्रसिद्धात् पाण्डोः ड्यण् वाच्यः' । पाण्डूनां सुतस्तेषां राजा च पाण्ड्यः ॥ Sutra Prayogas -------------- * **कौसल्या** (रघुवंशम्): `वृद्धेत्कोसलाजादाञ्ञ्यङ्` इति ञ्यङ्। * **चैद्यं** (शिशुपालवधम्): `वृद्धेत्कोसलाजादाञ्ञ्यङ्` इति ञ्यङ्प्रत्ययः। * **कौसल्ययाऽसावि** (भट्टिकाव्यम्): `वृद्धेत्कोसलाजादाञ्ञ्यङ्` इति कोसलय राज्ञोऽपत्यम्।