41155: कौसल्यकार्मार्याभ्यां च

Padacheda: कौसल्य-कार्मार्याभ्याम् | S | 5 | 2 |

च | S | 0 | 0 |

Sutrartha

‘तस्य अपत्यम्’ अस्मिन् अर्थे कौसल्यशब्दात् कार्मार्यशब्दात् च फिञ्-प्रत्ययः भवति ।

Vasu English Summary

The affix फिञ् comes in the sense of descendant after the words कौसल्य and कार्मार्या।

Vasu English Translation

The affix फिञ् comes in the sense of descendant after the words कौसल्य and कार्मार्या। This debars इञ् ॥ Thus कौसल्यायनिः and कार्मार्यायणिः ॥ These words, however, do not mean “the son of कौसल्य or कार्मर्य,” but they mean “the son of कोसल, and कर्मार,” because of the following Vartika.

Vart:- The words दगु, कोसल, कमार्र, छाग and वृष take the augment युट before the affix फिञ् ॥ Thus दागव्यायनिः, कौसल्यायनिः, कार्मार्यायनिः, छाग्यायनिः and वार्ष्यायणिः ॥

Bhashya

कौसल्यकार्मार्याभ्यां च (1401) (फिञ्ञोऽधिकरणम्) (विकृतनिर्देशस्य विवक्षितत्वबोधकभाष्यम्) किमिदं कौसल्यकार्मार्ययोर्विकृतयोर्ग्रहणं क्रियते? एवं विकृताभ्यां यथा स्यात्। अत्यल्पमिदमुच्यते -कौसल्यकार्मार्याभ्यां चेति॥ (5309 सूत्रांशपूरकवार्तिकम्॥ 1 ॥) - फिञ्ञ्प्रकरणे दगुकोसलकर्मारच्छागवृषाणां युट् च - (भाष्यम्) फिञ्ञ्प्रकरणे दगुकोसलकर्मारच्छागवृषाणां युट् चेति वक्तव्यम्। दगु -दागव्यायनिः। कोसल -कौसल्यायनिः। कर्मार -कार्मार्यायणिः। छाग -छाग्यायनिः। वृष -वार्ष्यायणिः। (आक्षेपभाष्यम्) यदि युट् क्रियते युटि कृतेऽनादित्वादादेशो न प्राप्नोति। इदमिह संप्रधार्यम् -आदेशः क्रियतां युडिति किमत्र कर्तव्यम्? परत्वादादेशः। नित्यो युट् -कृतेऽप्यादेशे प्राप्नोति, अकृतेऽपि। युडप्यनित्यः -अन्यस्य कृत आदेशे प्राप्नोति, अन्यस्याकृते। शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति। अन्तरङ्गस्तर्हि युट्। काऽन्तरङ्गता? उत्पत्तिसंनियोगेन युडुच्यते, उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्यादेश उच्यते। आदेशोऽप्यन्तरङ्गः। कथम्? वक्ष्यत्येतत् -आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति। अनवकाशस्तर्हि युट्॥ एवं तर्हि पूर्वान्तः करिष्यते। यदि पूर्वान्तः क्रियते -दागव्यायनिः, ओर्गुणो न प्राप्नोति॥ (समाधानभाष्यम्) अस्तु तर्हि परादिरेव। ननु चोक्तम् -युटि कृतेऽनादित्वादादेशो न प्राप्नोतीति। नैष दोषः। सिद्धं त्वादिष्टस्य युड्वचनात्, सिद्धमेतत्। कथम्? आदिष्टस्य युड्वचनात्। युट्चादिष्टस्येति वक्तव्यम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। चेन संनियोगः करिष्यते -युट् च। किं च? यच्चान्यत्प्राप्नोति। किं चान्यत् प्राप्नोति? आदेश इति॥

Kashika

कौसल्यकार्मार्यशब्दाभ्यामपत्ये फिञ् प्रत्ययो भवति। इञोऽपवादः। कौसल्यायनिः। कार्मार्यायणिः। परमप्रकृतेरेवायं प्रत्यय इष्यते — कोसलस्यापत्यं कर्मारस्यापत्यमिति। प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते। तथा च स्मृत्यन्तरम् — दगुकोसलकर्मारच्छागवृषाणां युट् वादिष्टस्येति। दागव्यायनिः। कौसल्यायनिः। कार्मार्यायणिः। छाग्यायनिः। वार्ष्यायणिः॥

Siddhanta Kaumudi

अपत्ये फिञ् । इञोऽपवादः ॥ परमप्रकृतेरेवायमिष्यते । प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः ।<!छागवृषयोरपि !> (वार्तिकम्) ॥ छाग्यायनिः । वार्ष्यायणिः ॥

Balamanorama

कौसल्यकार्मार्याभ्यां च - कौसल्य । परमप्रकृतेरेवेति । कोसलकर्माराभ्यां फिञ्, तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ्, तस्य युट् चेति वक्तव्यमित्यर्थः ।

Tattvabodhini

कौसल्यकार्मार्याभ्यां च - कौशल्य । परमप्रकृतेरेवायमिति । यदि तुवृद्धेत्कोसले॑ति ञ्यङन्तात्कोशलशब्दात्कारिलक्षणण्यन्तात्कर्मारशब्दाच्चायं विधिः स्यात्तदा यून्येव प्रसज्यतेतेति भावः ।छागवृषयोरपि । छागेति । दगुशब्दस्याप्युपलक्षणमेतत् । फैञ्प्रकरणेदगुकोसलकर्मारच्छागवृषाणां युट्चाऽऽदिष्टस्यं॑इति वार्तिकात् । आदिष्टस्य । आयन्नदेशस्येत्यर्थः । अन्यथा प्रातिपदोक्ते युटि कृते प्रत्ययादित्वाऽभावात्कौशल्यायनिरित्यादौ फस्यायन्नादेसो न स्यात्, युकि कृते तुदागव्यायनिः इत्यत्र और्गुणः, अन्यत्राऽल्लोपश्च न स्यादिति भावः ।

Padamanjari

कोसलशब्दाद्’वृद्धेत्कोसलाजादाञ् ञ्यङ्’ , कर्मारशब्दात्कारिलक्षणो ण्यः, एतयोरिह ग्रहणमिति शङ्कामपाकरोति - परमप्रकृतेरेवेति । कथं तर्हि विकृतं प्रकृतिरूपं श्रूयते ? तत्राह - प्रत्ययसंयोगेन त्विति । न चेयं स्वमनीषिकेत्याह - तथा चेति । युड्वादिष्टस्येति । पूर्वान्तकरणे दांगव्यायनिः, ओर्गुणो न स्यात्, अतः परादिकरणम् । आदिष्टेस्येति । कृतायनादेशस्येत्यर्थः । एतस्मिन्ननुच्यमानेऽनवकाशत्वाद्यौटि कृतेऽनादित्वादायनादेशो न स्यात् ॥

Nyaas

परमप्रकृतेरेवायं प्रत्यय इष्यते इति। कोशलशब्दात्, कर्मारशब्दाच्च। एवकाः वृद्धेत्कोसलाजादाञ्ञ्यङ् (4.1.171) इति ञ्यङन्तो यः कौशल्यशब्दः, यश्च सेनान्तलक्षणकारिभ्यश्च (4.1.152) इति कारिलक्षणण्यप्रत्ययान्तः कर्मार्यशब्दः तयोव्र्यवच्छेदाय।यदि मूलप्रकृतेरेवेष्यते, कथमिदं विकृतं प्रकृतिरूपं श्रयूते? इत्याह - प्रत्ययसन्नियोगेन इत्यादि। न चेयं स्वमनीषिका, अपि त्वाचार्यणामेव भाष्यकारप्रभृति#ईनामिदं मतमिति दर्शयन्नाह - तथा च इत्यादि। कः पुनः परमप्रकृतेः प्रत्ययान्ताद्वत्पत्तौ विशेषः? परमप्रकृतेरुत्पत्तावपत्यमात्रे प्रत्ययो लभ्यते, प्रत्ययान्तात् तूत्पत्तौ गोत्राद्यूनि (4.1.94) इति वचनात् यून्यपत्ये इत्येव विशेषः। युड् वादिष्टस्य इति। आदिष्टग्रहणमायन्नादेशए कृते यथा स्यादित्येवमर्थम्; अन्यथा ह्रनादित्वादायन्नादेशो न स्यात्। दागव्यावनिः इति। ओर्गुणेः (6.4.146) कृते वान्तो यि प्रत्यये (6.1.79) इत्यवादेशः॥कात्र्रायणिः इति। कर्त्तुरपत्यमित्यण् - कार्त्रः, ततः फिञ्। ` दाक्षायणः` इति। दाक्षिशब्दादिञन्ताद्यूनि पञिञोश्च` (4.1.101) इति फक्। प्रतिपादनादि सुगमम्॥

Prakriyasarvasvam

कोसलकर्मारयोरेतावादेशौ निपात्य ताभ्यां फिञ्विधिः । कोसलपुत्रः कौसल्यायनिः । कर्मारसुतः कार्मर्यायणिः ।।

Vartika

वदगुकोसलकर्मारछागवृषाणां युक्चादिष्टस्य ।

Sutra Prayogas

  • कौशल्यायनि-वल्लभाम् (भट्टिकाव्यम्): कौशल्य - कार्मार्याभ्यां च इति फिल्।