41155: कौसल्यकार्मार्याभ्यां च ============================== **Padacheda:** कौसल्य-कार्मार्याभ्याम् | S | 5 | 2 | च | S | 0 | 0 | Sutrartha --------- **'तस्य अपत्यम्' अस्मिन् अर्थे कौसल्यशब्दात् कार्मार्यशब्दात् च फिञ्-प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix फिञ् comes in the sense of descendant after the words कौसल्य and कार्मार्या। Vasu English Translation ------------------------ The affix फिञ् comes in the sense of descendant after the words कौसल्य and कार्मार्या। This debars इञ् ॥ Thus कौसल्यायनिः and कार्मार्यायणिः ॥ These words, however, do not mean "the son of कौसल्य or कार्मर्य," but they mean "the son of कोसल, and कर्मार," because of the following *Vartika*. Vart:- The words दगु, कोसल, कमार्र, छाग and वृष take the augment युट before the affix फिञ् ॥ Thus दागव्यायनिः, कौसल्यायनिः, कार्मार्यायनिः, छाग्यायनिः and वार्ष्यायणिः ॥ Bhashya ------- कौसल्यकार्मार्याभ्यां च (1401) (फिञ्ञोऽधिकरणम्) (विकृतनिर्देशस्य विवक्षितत्वबोधकभाष्यम्) किमिदं कौसल्यकार्मार्ययोर्विकृतयोर्ग्रहणं क्रियते? एवं विकृताभ्यां यथा स्यात्। अत्यल्पमिदमुच्यते -कौसल्यकार्मार्याभ्यां चेति॥ (5309 सूत्रांशपूरकवार्तिकम्॥ 1 ॥) - फिञ्ञ्प्रकरणे दगुकोसलकर्मारच्छागवृषाणां युट् च - (भाष्यम्) फिञ्ञ्प्रकरणे दगुकोसलकर्मारच्छागवृषाणां युट् चेति वक्तव्यम्। दगु -दागव्यायनिः। कोसल -कौसल्यायनिः। कर्मार -कार्मार्यायणिः। छाग -छाग्यायनिः। वृष -वार्ष्यायणिः। (आक्षेपभाष्यम्) यदि युट् क्रियते युटि कृतेऽनादित्वादादेशो न प्राप्नोति। इदमिह संप्रधार्यम् -आदेशः क्रियतां युडिति किमत्र कर्तव्यम्? परत्वादादेशः। नित्यो युट् -कृतेऽप्यादेशे प्राप्नोति, अकृतेऽपि। युडप्यनित्यः -अन्यस्य कृत आदेशे प्राप्नोति, अन्यस्याकृते। शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति। अन्तरङ्गस्तर्हि युट्। काऽन्तरङ्गता? उत्पत्तिसंनियोगेन युडुच्यते, उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्यादेश उच्यते। आदेशोऽप्यन्तरङ्गः। कथम्? वक्ष्यत्येतत् -आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति। अनवकाशस्तर्हि युट्॥ एवं तर्हि पूर्वान्तः करिष्यते। यदि पूर्वान्तः क्रियते -दागव्यायनिः, ओर्गुणो न प्राप्नोति॥ (समाधानभाष्यम्) अस्तु तर्हि परादिरेव। ननु चोक्तम् -युटि कृतेऽनादित्वादादेशो न प्राप्नोतीति। नैष दोषः। सिद्धं त्वादिष्टस्य युड्वचनात्, सिद्धमेतत्। कथम्? आदिष्टस्य युड्वचनात्। युट्चादिष्टस्येति वक्तव्यम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। चेन संनियोगः करिष्यते -युट् च। किं च? यच्चान्यत्प्राप्नोति। किं चान्यत् प्राप्नोति? आदेश इति॥ Kashika ------- कौसल्यकार्मार्यशब्दाभ्यामपत्ये फिञ् प्रत्ययो भवति। इञोऽपवादः। कौसल्यायनिः। कार्मार्यायणिः। परमप्रकृतेरेवायं प्रत्यय इष्यते — कोसलस्यापत्यं कर्मारस्यापत्यमिति। प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते। तथा च स्मृत्यन्तरम् — दगुकोसलकर्मारच्छागवृषाणां युट् वादिष्टस्येति। दागव्यायनिः। कौसल्यायनिः। कार्मार्यायणिः। छाग्यायनिः। वार्ष्यायणिः॥ Siddhanta Kaumudi ----------------- अपत्ये फिञ् । इञोऽपवादः ॥ परमप्रकृतेरेवायमिष्यते । प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः । (वार्तिकम्) ॥ छाग्यायनिः । वार्ष्यायणिः ॥ Balamanorama ------------ **कौसल्यकार्मार्याभ्यां च** - कौसल्य । परमप्रकृतेरेवेति । कोसलकर्माराभ्यां फिञ्, तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ्, तस्य युट् चेति वक्तव्यमित्यर्थः । Tattvabodhini ------------- **कौसल्यकार्मार्याभ्यां च** - कौशल्य । परमप्रकृतेरेवायमिति । यदि तुवृद्धेत्कोसले॑ति ञ्यङन्तात्कोशलशब्दात्कारिलक्षणण्यन्तात्कर्मारशब्दाच्चायं विधिः स्यात्तदा यून्येव प्रसज्यतेतेति भावः ।छागवृषयोरपि । छागेति । दगुशब्दस्याप्युपलक्षणमेतत् । फैञ्प्रकरणेदगुकोसलकर्मारच्छागवृषाणां युट्चाऽऽदिष्टस्यं॑इति वार्तिकात् । आदिष्टस्य । आयन्नदेशस्येत्यर्थः । अन्यथा प्रातिपदोक्ते युटि कृते प्रत्ययादित्वाऽभावात्कौशल्यायनिरित्यादौ फस्यायन्नादेसो न स्यात्, युकि कृते तुदागव्यायनिः इत्यत्र और्गुणः, अन्यत्राऽल्लोपश्च न स्यादिति भावः । Padamanjari ----------- कोसलशब्दाद्'वृद्धेत्कोसलाजादाञ् ञ्यङ्' , कर्मारशब्दात्कारिलक्षणो ण्यः, एतयोरिह ग्रहणमिति शङ्कामपाकरोति - परमप्रकृतेरेवेति । कथं तर्हि विकृतं प्रकृतिरूपं श्रूयते ? तत्राह - प्रत्ययसंयोगेन त्विति । न चेयं स्वमनीषिकेत्याह - तथा चेति । युड्वादिष्टस्येति । पूर्वान्तकरणे दांगव्यायनिः, ओर्गुणो न स्यात्, अतः परादिकरणम् । आदिष्टेस्येति । कृतायनादेशस्येत्यर्थः । एतस्मिन्ननुच्यमानेऽनवकाशत्वाद्यौटि कृतेऽनादित्वादायनादेशो न स्यात् ॥ Nyaas ----- `परमप्रकृतेरेवायं प्रत्यय इष्यते` इति। कोशलशब्दात्, कर्मारशब्दाच्च। एवकाः **वृद्धेत्कोसलाजादाञ्ञ्यङ्** (4.1.171) इति ञ्यङन्तो यः कौशल्यशब्दः, यश्च **सेनान्तलक्षणकारिभ्यश्च** (4.1.152) इति कारिलक्षणण्यप्रत्ययान्तः कर्मार्यशब्दः तयोव्र्यवच्छेदाय।यदि मूलप्रकृतेरेवेष्यते, कथमिदं विकृतं प्रकृतिरूपं श्रयूते? इत्याह - `प्रत्ययसन्नियोगेन` इत्यादि। न चेयं स्वमनीषिका, अपि त्वाचार्यणामेव भाष्यकारप्रभृति#ईनामिदं मतमिति दर्शयन्नाह - `तथा च` इत्यादि। कः पुनः परमप्रकृतेः प्रत्ययान्ताद्वत्पत्तौ विशेषः? परमप्रकृतेरुत्पत्तावपत्यमात्रे प्रत्ययो लभ्यते, प्रत्ययान्तात् तूत्पत्तौ `गोत्राद्यूनि` (4.1.94) इति वचनात् `यून्यपत्ये` इत्येव विशेषः। `युड् वादिष्टस्य` इति। आदिष्टग्रहणमायन्नादेशए कृते यथा स्यादित्येवमर्थम्; अन्यथा ह्रनादित्वादायन्नादेशो न स्यात्। `दागव्यावनिः` इति। `ओर्गुणेः` (6.4.146) कृते **वान्तो यि प्रत्यये** (6.1.79) इत्यवादेशः॥`कात्र्रायणिः` इति। कर्त्तुरपत्यमित्यण् - कार्त्रः, ततः फिञ्। ` दाक्षायणः` इति। दाक्षिशब्दादिञन्ताद्यूनि पञिञोश्च` (4.1.101) इति फक्। प्रतिपादनादि सुगमम्॥ Prakriyasarvasvam ----------------- कोसलकर्मारयोरेतावादेशौ निपात्य ताभ्यां फिञ्विधिः । कोसलपुत्रः कौसल्यायनिः । कर्मारसुतः कार्मर्यायणिः ।। Vartika ------- वदगुकोसलकर्मारछागवृषाणां युक्चादिष्टस्य । Sutra Prayogas -------------- * **कौशल्यायनि-वल्लभाम्** (भट्टिकाव्यम्): `कौशल्य - कार्मार्याभ्यां च` इति फिल्।