41150: फाण्टाहृतिमिमताभ्यां णफिञौ¶
Padacheda: फाण्टाहृति-मिमताभ्याम् | S | 5 | 2 |
ण-फिञौ | S | 1 | 2 |
Sutrartha¶
सौवीरकुलवाचिभ्याम् ‘फाण्टाह्रति’-तथा-‘मिमत’-शब्दाभ्याम् तस्य अपत्यमस्मिन् अर्थे ‘ण’ तथा ‘फिञ्’ प्रत्ययौ भवतः ।
Vasu English Summary¶
The affixes ण and फिञ् comes in the sense of descendant of a person belonging to सुविर country after the word फाण्टाहृति and मिमता।
Vasu English Translation¶
The affixes ण and फिञ् comes in the sense of descendant of a person belonging to सुविर country after the word फाण्टाहृति and मिमता। This debars फक् । By the rule of composition in (11.2. 34), the word मिमत consisting of less syllables than फाण्टाहृत, ought to have been placed first. Its not being placed first in this sutra indicates, that Sutra (1.3. 10) does not apply here. So that both the affixes ण and फिञ् are applied to each of these words, and not one to each respectively, Thus फाण्टाहृतः or फाण्टाहृतायनिः, मैमतः or मैमतायनिः ॥
When not denoting Sauvira Gotras, we have फाण्टाहृतायनः and मैमतायनः (by फक् ॥ See (4.1.101) and (4.1.99)). The word मिमत belongs to Nadadi-class. (4.1.99).
Bhashya¶
फाण्टाहृतिमिमताभ्यां णफिञ्ञौ (1396) (णित्वाक्षेपे भाष्यम्) किमर्थो णकारः? वृद्ध्यर्थः। ञ्ञ्णितीति वृद्धिर्यथा स्यात् -फाण्टाहृतः॥ (5302 आक्षेपवार्तिकम्॥ 1 ॥) - फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य - (भाष्यम्) फाण्टाहृतेः प्रत्ययस्य णित्करणमनर्थकम्। किं कारणम्? वृद्धत्वात् प्रातिपदिकस्य। वृद्धमेवैतत्प्रातिपदिकम्॥ (5303 णित्वफलवार्तिकम्॥ 2 ॥) - पुंवद्भावप्रतिषेधार्थं तु - (भाष्यम्) पुंवद्भावस्य प्रतिषेधार्थो णकारः कर्तव्यः। फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः। वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधो यथा स्यात् -इति॥ (5304 णित्वप्रयोजनाप्रयोजनवार्तिकम्॥ 3 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? गोत्राद्यून्यस्त्रियामिति वचनादप्रयोजनम्, अवंश्यत्वाद्वा स्त्रियाः प्रयोजनमिति॥
Kashika¶
सौवीरेष्वित्येव। कुत्सन इति निवृत्तम्। फाण्टाहृतिमिमतशब्दाभ्यां सौवीरविषयाभ्यामपत्ये णफिञौ प्रत्ययौ भवतः। फकोऽपवादः। अल्पाच्तरस्यापूर्वनिपातो लक्षणव्यभिचारचिह्नम्, तेन यथासंख्यमिह न भवतीति। फाण्टाहृतः, फाण्टाहृतायनिः। मैमतः, मैमतायनिः। सौवीरेष्वित्येव — फाण्टाहृतायनः। मैमतायनः। फाण्टाहृतेः यञिञोश्च (४.१.१०१) इति फक्। मिमतशब्दोऽपि नडादिषु पठ्यते॥
Siddhanta Kaumudi¶
सौवीरेषु । नेह यथासंख्यम् । अल्पाच्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति स्थितम् । फाण्टाहृतः - फाण्टाहृतायनिः । मैमतः - मैमतायनिः ॥
Balamanorama¶
फाण्टाहृतिमिमताभ्यां णफिञौ - फाण्टाह्मति ।सौवीरेष्विति । शेषपूरणमिदम् । सैवीरगोत्रादित्यर्थः । फाण्टाह्मतस्य गोत्रापत्यं फाण्टाह्मतिः, अत इञ् । तस्यापत्यं युवेति विग्रहः । मैमत इति । मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीरगोत्रादिति न संबध्यते, व्याख्यानाद्गोत्रत्वाऽभावाच्चेति भावः ।
Tattvabodhini¶
फाण्टाहृतिमिमताभ्यां णफिञौ - फाण्टाह्मति ।कुत्सने॑इति निवृत्तम् । वृत्तिमते णित्त्वस्य फलमस्तीति ध्वनयन्नुदाहरति -मैमत इति । न च भाष्यमतेऽपिफाण्टाह्मताभार्यः॑इत्यत्रवृद्धिनिमित्तस्ये॑ति पुंवद्भावनिवृत्तिर्णित्त्वफलमस्तीति वाच्यम्,अस्त्रिया॑मिति युवसंज्ञानिषेधाद्गोत्रसंज्ञासद्भावात्एको गोत्रे॑इति नियमादिञन्तात्फाण्टाह्मतिशब्दादन्यस्यापत्ययस्याऽभावात्फाण्टाह्मताशब्दस्यैवाऽसत्त्वादिति भावः ।
Padamanjari¶
तेन यथासंख्यामिह न भवतीति । एवं च कृत्वा णस्य णित्करणमर्थवद्भवति, तद्धि मिमतशब्दे वृद्ध्यर्थम् । यथासंख्ये तु फाण्टाहृतेर्वृद्धत्वाणिणत्करणमनर्थकं स्यात् । इह तु फाण्टाहृताभार्य इति गार्गाभार्य इतिवत्पुंवद्भावप्रतिषेधादिकं द्रष्टव्यम् । यथा तु वार्तिकं तथा यथासंख्यमत्रेष्यते, यथाह -‘फाण्टाहृतेर्णस्य णित्करणानर्वस्यं वृद्धत्वात्’ ,’प्रातिपदिकस्य पुंवद्भावप्रतिषेधार्यं तु’ , ठुक्तं वाऽ इति ॥
Nyaas¶
आल्पाच्तरस्य इत्यादि। मिमतशब्दोऽयमल्पाच्तरः, तस्य अल्पाच्तरम् (2.2.34) इति पूर्वनिपाते प्राप्ते यः परनिपातः स लक्षमव्यभिचारचिह्नं सूचयति। यथेदं पूर्वनिपातलक्षणं व्यभिचरति = स्वविषये न प्रवर्तते, तथा यथासंख्यलक्षणमपीति यथासंख्यं न भवति। अत एवैकैकस्मात् प्रत्ययद्वयं सिद्धं भवति॥
Prakriyasarvasvam¶
सौवीरगोत्रगाभ्यामाभ्याम् अपत्ये णफिञौ स्तः । क्रमोऽत्र न । फाण्टाहृतः । फाण्टाहृतायनिः । मैमतः । मैमतायनिः ।।