41150: फाण्टाहृतिमिमताभ्यां णफिञौ ================================= **Padacheda:** फाण्टाहृति-मिमताभ्याम् | S | 5 | 2 | ण-फिञौ | S | 1 | 2 | Sutrartha --------- **सौवीरकुलवाचिभ्याम् 'फाण्टाह्रति'-तथा-'मिमत'-शब्दाभ्याम् तस्य अपत्यमस्मिन् अर्थे 'ण' तथा 'फिञ्' प्रत्ययौ भवतः ।** Vasu English Summary -------------------- The affixes ण and फिञ् comes in the sense of descendant of a person belonging to सुविर country after the word फाण्टाहृति and मिमता। Vasu English Translation ------------------------ The affixes ण and फिञ् comes in the sense of descendant of a person belonging to सुविर country after the word फाण्टाहृति and मिमता। This debars फक् । By the rule of composition in (11.2. 34), the word मिमत consisting of less syllables than फाण्टाहृत, ought to have been placed first. Its not being placed first in this *sutra* indicates, that *Sutra* (1.3. 10) does not apply here. So that both the affixes ण and फिञ् are applied to each of these words, and not one to each respectively, Thus फाण्टाहृतः or फाण्टाहृतायनिः, मैमतः or मैमतायनिः ॥ When not denoting *Sauvira* *Gotras*, we have फाण्टाहृतायनः and मैमतायनः (by फक् ॥ See (4.1.101) and (4.1.99)). The word मिमत belongs to *Nadadi*-class. (4.1.99). Bhashya ------- फाण्टाहृतिमिमताभ्यां णफिञ्ञौ (1396) (णित्वाक्षेपे भाष्यम्) किमर्थो णकारः? वृद्ध्यर्थः। ञ्ञ्णितीति वृद्धिर्यथा स्यात् -फाण्टाहृतः॥ (5302 आक्षेपवार्तिकम्॥ 1 ॥) - फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य - (भाष्यम्) फाण्टाहृतेः प्रत्ययस्य णित्करणमनर्थकम्। किं कारणम्? वृद्धत्वात् प्रातिपदिकस्य। वृद्धमेवैतत्प्रातिपदिकम्॥ (5303 णित्वफलवार्तिकम्॥ 2 ॥) - पुंवद्भावप्रतिषेधार्थं तु - (भाष्यम्) पुंवद्भावस्य प्रतिषेधार्थो णकारः कर्तव्यः। फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः। वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधो यथा स्यात् -इति॥ (5304 णित्वप्रयोजनाप्रयोजनवार्तिकम्॥ 3 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? गोत्राद्यून्यस्त्रियामिति वचनादप्रयोजनम्, अवंश्यत्वाद्वा स्त्रियाः प्रयोजनमिति॥ Kashika ------- सौवीरेष्वित्येव। कुत्सन इति निवृत्तम्। फाण्टाहृतिमिमतशब्दाभ्यां सौवीरविषयाभ्यामपत्ये णफिञौ प्रत्ययौ भवतः। फकोऽपवादः। अल्पाच्तरस्यापूर्वनिपातो लक्षणव्यभिचारचिह्नम्, तेन यथासंख्यमिह न भवतीति। फाण्टाहृतः, फाण्टाहृतायनिः। मैमतः, मैमतायनिः। सौवीरेष्वित्येव — फाण्टाहृतायनः। मैमतायनः। फाण्टाहृतेः **यञिञोश्च** (४.१.१०१) इति फक्। मिमतशब्दोऽपि नडादिषु पठ्यते॥ Siddhanta Kaumudi ----------------- सौवीरेषु । नेह यथासंख्यम् । अल्पाच्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति स्थितम् । फाण्टाहृतः - फाण्टाहृतायनिः । मैमतः - मैमतायनिः ॥ Balamanorama ------------ **फाण्टाहृतिमिमताभ्यां णफिञौ** - फाण्टाह्मति ।सौवीरेष्विति । शेषपूरणमिदम् । सैवीरगोत्रादित्यर्थः । फाण्टाह्मतस्य गोत्रापत्यं फाण्टाह्मतिः, अत इञ् । तस्यापत्यं युवेति विग्रहः । मैमत इति । मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीरगोत्रादिति न संबध्यते, व्याख्यानाद्गोत्रत्वाऽभावाच्चेति भावः । Tattvabodhini ------------- **फाण्टाहृतिमिमताभ्यां णफिञौ** - फाण्टाह्मति ।कुत्सने॑इति निवृत्तम् । वृत्तिमते णित्त्वस्य फलमस्तीति ध्वनयन्नुदाहरति -मैमत इति । न च भाष्यमतेऽपिफाण्टाह्मताभार्यः॑इत्यत्रवृद्धिनिमित्तस्ये॑ति पुंवद्भावनिवृत्तिर्णित्त्वफलमस्तीति वाच्यम्,अस्त्रिया॑मिति युवसंज्ञानिषेधाद्गोत्रसंज्ञासद्भावात्एको गोत्रे॑इति नियमादिञन्तात्फाण्टाह्मतिशब्दादन्यस्यापत्ययस्याऽभावात्फाण्टाह्मताशब्दस्यैवाऽसत्त्वादिति भावः । Padamanjari ----------- तेन यथासंख्यामिह न भवतीति । एवं च कृत्वा णस्य णित्करणमर्थवद्भवति, तद्धि मिमतशब्दे वृद्ध्यर्थम् । यथासंख्ये तु फाण्टाहृतेर्वृद्धत्वाणिणत्करणमनर्थकं स्यात् । इह तु फाण्टाहृताभार्य इति गार्गाभार्य इतिवत्पुंवद्भावप्रतिषेधादिकं द्रष्टव्यम् । यथा तु वार्तिकं तथा यथासंख्यमत्रेष्यते, यथाह -'फाण्टाहृतेर्णस्य णित्करणानर्वस्यं वृद्धत्वात्' ,'प्रातिपदिकस्य पुंवद्भावप्रतिषेधार्यं तु' , ठुक्तं वाऽ इति ॥ Nyaas ----- `आल्पाच्तरस्य` इत्यादि। मिमतशब्दोऽयमल्पाच्तरः, तस्य `अल्पाच्तरम्` (2.2.34) इति पूर्वनिपाते प्राप्ते यः परनिपातः स लक्षमव्यभिचारचिह्नं सूचयति। यथेदं पूर्वनिपातलक्षणं व्यभिचरति = स्वविषये न प्रवर्तते, तथा यथासंख्यलक्षणमपीति यथासंख्यं न भवति। अत एवैकैकस्मात् प्रत्ययद्वयं सिद्धं भवति॥ Prakriyasarvasvam ----------------- सौवीरगोत्रगाभ्यामाभ्याम् अपत्ये णफिञौ स्तः । क्रमोऽत्र न । फाण्टाहृतः । फाण्टाहृतायनिः । मैमतः । मैमतायनिः ।।