41144: भ्रातुर्व्यच्च

Padacheda: भ्रातुः | S | 5 | 1 |

व्यत् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘भ्रातृ’शब्दात् ‘छ’ तथा ‘व्यत्’ प्रत्ययौ भवतः ।

Vasu English Summary

The affix व्यत् also comes in the sense of descendant after the word भ्रातृ।

Vasu English Translation

The affix व्यत् also comes in the sense of descendant after the word भ्रातृ। By the force of the word च in the sutra, we get the affix छ as well.

This debars अण् ॥ Thus भ्रातृव्यः or भ्रात्रीयः ‘the brother’s son’. The त् of व्यत् the regulates the accent, making it svarita.

Kashika

भ्रातृशब्दादपत्ये व्यत् प्रत्ययो भवति। चकाराच्छश्च। अणोऽपवादः। भ्रा॒तृ॒व्यः॑। भ्रात्रीयः। तकारः स्वरार्थः॥

Siddhanta Kaumudi

चाच्छः । अणोऽपवादः । भ्रातृव्यः - भ्रात्रीयः ॥

Balamanorama

भ्रातुर्व्यच्च - भ्रातुव्र्यच्च । तकारःतित्स्वरित॑मिति स्वरार्थ इति बोध्यम् ।

Nyaas

तकारः स्वरार्थः इति। तित्स्वरितम् (6.1.185) इति स्वरितत्वं यथा स्यात्।

Prakriyasarvasvam

छञ्च स्यात् । भ्रातुपुत्रो भ्रातृव्यः । भ्रात्रीयः ॥

Sutra Prayogas

  • भ्रातृव्यं (भट्टिकाव्यम्): भ्रातुर्व्यच्च इति व्यत्-प्रत्ययः।