41144: भ्रातुर्व्यच्च ===================== **Padacheda:** भ्रातुः | S | 5 | 1 | व्यत् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'तस्य अपत्यम्' अस्मिन् अर्थे 'भ्रातृ'शब्दात् 'छ' तथा 'व्यत्' प्रत्ययौ भवतः ।** Vasu English Summary -------------------- The affix व्यत् also comes in the sense of descendant after the word भ्रातृ। Vasu English Translation ------------------------ The affix व्यत् also comes in the sense of descendant after the word भ्रातृ। By the force of the word च in the *sutra*, we get the affix छ as well. This debars अण् ॥ Thus भ्रातृव्यः or भ्रात्रीयः 'the brother's son'. The त् of व्यत् the regulates the accent, making it *svarita*. Kashika ------- भ्रातृशब्दादपत्ये व्यत् प्रत्ययो भवति। चकाराच्छश्च। अणोऽपवादः। भ्रा॒तृ॒व्यः॑। भ्रात्रीयः। तकारः स्वरार्थः॥ Siddhanta Kaumudi ----------------- चाच्छः । अणोऽपवादः । भ्रातृव्यः - भ्रात्रीयः ॥ Balamanorama ------------ **भ्रातुर्व्यच्च** - भ्रातुव्र्यच्च । तकारःतित्स्वरित॑मिति स्वरार्थ इति बोध्यम् । Nyaas ----- `तकारः स्वरार्थः` इति। **तित्स्वरितम्** (6.1.185) इति स्वरितत्वं यथा स्यात्। Prakriyasarvasvam ----------------- छञ्च स्यात् । भ्रातुपुत्रो भ्रातृव्यः । भ्रात्रीयः ॥ Sutra Prayogas -------------- * **भ्रातृव्यं** (भट्टिकाव्यम्): `भ्रातुर्व्यच्च` इति व्यत्-प्रत्ययः।