41143: स्वसुश्छः¶
Padacheda: स्वसुः | S | 5 | 1 |
छः | S | 1 | 1 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘स्वसृ’शब्दात् छ-प्रत्ययः भवति ।
Vasu English Summary¶
The affix छ comes in the sense of descendant after the word स्वसृ।
Vasu English Translation¶
The affix छ comes in the sense of descendant after the word स्वसृ। This debars अण् ॥ Thus स्वस्रीयः ‘the sister’s son.’
Kashika¶
स्वसृशब्दादपत्ये छः प्रत्ययो भवति। अणोऽपवादः। स्वसुरपत्यं स्वस्रीयः॥
Siddhanta Kaumudi¶
स्वस्त्रीयः ॥
Balamanorama¶
स्वसुश्छः - स्वसुश्छः । ‘अपत्ये’ इति शेषः । स्वस्त्रीय इति । छस्य ईयादेशः, ऋकारस्य यण् ।
Prakriyasarvasvam¶
स्वस्रीयः ॥