41142: दुष्कुलाड्ढक्¶
Padacheda: दुष्कुलात् | S | 5 | 1 |
ढक् | S | 1 | 1 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘दुष्कुल’शब्दात् विकल्पेन ‘ढक्’ प्रत्ययः भवति ।
Vasu English Summary¶
The affix ढक् comes optionally in the sense of descendant after the word दुष्कुल।
Vasu English Translation¶
The affix ढक् comes optionally in the sense of descendant after the word दुष्कुल। Thus दौष्कुलेयः ॥ By the force of the word ‘optionally’ we get ख also. Thus दुष्कुलीनः ॥
Kashika¶
दुष्कुलशब्दादपत्ये ढक् प्रत्ययो भवति। अन्यतरस्यामित्यनुवृत्तेः खश्च। दौष्कुलेयः। दुष्कुलीनः॥
Siddhanta Kaumudi¶
पूर्ववत्पक्षे खः । दौष्कुलेयः - दुष्कुलीनः ॥
Balamanorama¶
दुष्कुलाड्ढक् - दुष्कुलाड्ढक् । पूर्ववदिति । अन्यतरस्याङ्रग्रहणानुवृत्तेरिति भावः ।
Prakriyasarvasvam¶
वा स्यात् । दौष्कुलेयः । दुष्कुलीनः ॥
Sutra Prayogas¶
दौष्कुलेयेन (भट्टिकाव्यम्): दुष्कुलाड्ढक् इति दुष्कुलस्यापत्यमिति ढक्।