41141: महाकुलादञ्खञौ¶
Padacheda: महाकुलात् | S | 5 | 1 |
अञ्-खञौ | S | 1 | 2 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘महाकुल’शब्दात् विकल्पेन ‘अञ्’ तथा ‘खञ्’ प्रत्ययौ भवतः ।
Vasu English Summary¶
The affixes अञ् and खञ् come optionally after the word महाकुल।
Vasu English Translation¶
The affixes अञ् and खञ् come optionally after the word महाकुल। Thus माहाकुलः, माहाकुलीनः and महाकुलीनः ॥ The last is formed by the affix ख of (4.1.139).
Kashika¶
अन्यतरस्यामित्यनुवर्तते। महाकुलशब्दाद् अञ्खञौ प्रत्ययौ भवतः। पक्षे खः। माहाकुलः। माहाकुलीनः। महाकुलीनः॥
Siddhanta Kaumudi¶
अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुलः - माहाकुलीनः - महाकुलीनः ॥
Balamanorama¶
महाकुलादञ्खञौ - महाकुलादञ्खञौ । अनुवर्तत इति । अन्यथा महाविभाषाधिकारे अपवादेन मुक्ते उत्सर्गस्याऽप्रवृकत्तेः पीलाया वे॑त्यत्रोक्तत्वात्पूर्वसूत्रोक्तः खो न स्यादिति भावः । तदाह — पक्षे ख इति । तथा सति आदिवृद्धिर्नेति भावः ।
Prakriyasarvasvam¶
वाधिकारात् खञ्च । माहाकुलः । माहाकुलीनः । महाकुलीनः ॥
Sutra Prayogas¶
महाकुलीनेन (रघुवंशम्): महाकुलादञ्खञौ इति खञ्प्रत्ययः।
महा-कुलीन (भट्टिकाव्यम्): महाकुलादञ् खञौ इति खञ्-प्रत्ययः।
माहाकुलीं (भट्टिकाव्यम्): महाकुलादञ्खञौ इति महाकुलस्यापत्यमिति अञ्खञौ।