41139: कुलात् खः

Padacheda: कुलात् | S | 5 | 1 |

खः | S | 1 | 1 |

Sutrartha

‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘कुल’शब्दात् ख-प्रत्ययः भवति ।

Vasu English Summary

The affix ख comes in the sense of a descendant after the प्रातिपदिक (Nominal Stem) कुल and a compound word that ends in कुल।

Vasu English Translation

The affix ख comes in the sense of a descendant after the प्रातिपदिक (Nominal Stem) कुल and a compound word that ends in कुल। In the next sutra, it will be taught that the word कुल when not preceded by any other word, takes the affixes ‘yat’ and ‘dhakan.’ That indicates by implication that the present sutra applies to the simple word कुल and to the words ending in कुल also. Thus कुलीनः, आढ्यकुलीनः, श्रोत्रियकुलीनः ॥

Kashika

उत्तरसूत्रे पूर्वपदप्रतिषेधादिह तदन्तः केवलश्च दृश्यते। कुलशब्दान्तात् प्रातिपदिकात् केवलाच्चापत्ये खः प्रत्ययो भवति। आढ्यकुलीनः। श्रोत्रियकुलीनः। कुलीनः॥

Siddhanta Kaumudi

कुलीनः । तदन्तादपि । उत्तरसूत्रे अपूर्वपदात् इति लिङ्गात् । आढ्यकुलीनः ॥

Balamanorama

कुलात् खः - कुलात्खः । ‘अपत्ये’ इति शेषः । कुलीन इति । खस्य ईनादेशः । ननु ‘समासप्रत्ययविधौ’ इति तदन्तविधिनिषेधादाढकुलीन इति कथमित्यत आह — तदन्तादपीति । आढकुलीन इति । आढकुलशब्दात्कर्मधारयात्खः । कुले आध्यत्वप्रतीतिरत्र फलम् । कुलीनशब्देन कर्मधारये तु तदप्रतीतिरिति भेदः ।

Tattvabodhini

कुलात् खः - कुलीन इथि । लिङ्गादिति । अन्यथाग्रहणवते॑ति तदन्तविधिप्रतिषेधादपूर्वपदग्रहणं व्यर्थं स्यादिति भावः । आढकुलीन इति । आढश्चासौ कुलीनश्चेति कुलीनविशेषणत्वे कुलस्याढत्वं न प्रतीयते । किं च ईकार उदात्त इति स्वरेऽपि विशेषोऽस्तीति भावः ।

Padamanjari

उतरसूत्र इत्यादि । पूर्वपदप्रतिषेधस्यैतत्प्रयोजनम् - आढ।ल्कुलादेर्माभूदिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेवाढ।ल्कुलादेर्न भविष्यति, पश्यति त्वचार्यः - नायं प्रतिषेधः कुलशब्दे प्रवर्तत इति । तेनात्र तावतदन्तस्य ग्रहणम्’येन विधिस्तदन्तस्य’ इत्यत्र स्वरूपमित्यनुवृतेः केवलस्याति ग्रहणम् । सामान्यापेक्षं च ज्ञापकम् -‘प्रातिपदिकश्रुतिमती परिभाषा कुशलशब्दे न प्रवर्तते इति, तेन’व्यपदेशिवद्भावो’ प्रातिपदिकेन’ इत्यस्या अप्यप्रवृत्तिः । कुलीन इति उतरसूत्रेऽन्यतरस्यांग्रहणात्केवलादप्यनेन खो भवति । प्रशस्तो वंशःउकुलम्, तस्यापत्यं तत्प्रभवस्यापत्यमित्यर्थः ॥

Nyaas

उत्तरसूत्रे इत्यादि। उत्तरसूत्रे हि पूर्वपदप्रतिषेधाद्यस्यां परिभाषायां प्रातिपदिकश्रुतिरस्ति, साऽत्र नोपतिष्ठत इत्येषोऽर्थो ज्ञायते। यदि ह्रुपतिष्ठेत, तदा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव (व्या।प।89) स पूर्वपदान्न भविष्यतीत्यपूर्वपदादिति प्रतिषेधोऽनर्थकः स्यात्। सामान्यापेक्षञ्च ज्ञापकम्; तेन व्यपदेशिवद्भावोऽप्रातिपदिकेन (शाक।प।65), ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नेष्यते (व्या।प।89) इत्येतयोरपीह परिभाषयोरुपस्थानं न भवति। ततश्च कुलशब्दान्तं प्रातिपदिकं कुलशब्दो गृह्रते॥

Prakriyasarvasvam

केवलात् कुलात् तदन्ताच्च खः स्यात् । कुलशब्देन सत्कुलवान् लक्ष्यते । तत्सुतः कुलीनः । द्विजकुलीनः ॥