41140: अपूर्वपदादन्यतरस्यां यड्ढकञौ¶
Padacheda: अ-पूर्वपदात् | S | 5 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
यत्-ढकञौ | S | 1 | 2 |
Sutrartha¶
यस्य ‘कुल’शब्दस्य पूर्वपदं न विद्यते, तादृशात् ‘कुल’शब्दात् ‘तस्य अपत्यम्’ अस्मिन् अर्थे विकल्पेन ‘यत्’ तथा ‘ढकञ्’ प्रत्ययौ भवतः ।
Vasu English Summary¶
The affixes यत् and ढकञ् come optionally after the word कुल when it is not preceded by any other word which gets the designation of पद – सुप्तिङन्तं पदम् (1.4.14).
Vasu English Translation¶
The affixes यत् and ढकञ् come optionally after the word कुल when it is not preceded by any other word which gets the designation of पद – सुप्तिङन्तं पदम् (1.4.14). The word अपूर्वपद means when the word ‘kula’ is not the last member of a compound. Thus कुल्यः , कौलेयकः ॥ By the use of the word ‘optionally,’ we get the affix ख also. Thus कुलीनः ॥ The word कु꣡ल्यः has udatta on the first syllable (6.1.213).
The word पद has been defined in (l. 4.14). The word बहु is not a pada. Therefore बहुकुल will take these affixes. Thus बहुकुल्यः , बाहुकुलेयकः and बहुकुलीनः ॥
Kashika¶
कुलादित्येव। अविद्यमानं पूर्वपदं यस्य तदपूर्वपदम्। समाससंबन्धिपूर्वपदस्याभावेन कुलशब्दो विशेष्यते। अपूर्वपदात् कुलशब्दादन्यतरस्यां यत् ढकञ् इत्येतौ प्रत्ययौ भवतः। ताभ्यां मुक्ते खोऽपि भवति। कुल्यः, कौलेयकः, कुलीनः। पदग्रहणं किम् ? बहुच्पूर्वादपि यथा स्यात्। बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः॥
Siddhanta Kaumudi¶
कुलात् इत्येव । पक्षे खः । कुल्यः - कौलेयकः - कुलीनः । पदग्रहणं किम् ? बहुकुल्यः - बीहुकुलेयकः - बहुकुलीनः ॥
Balamanorama¶
अपूर्वपदादन्यतरस्यां यड्ढकञौ - अपूर्वपदादन्यतरस्याम् । कुलादित्येवेति । पूर्वपदरहितात्कुलादपत्ये यड्ढकञौ वा स्त इत्यर्थः । पक्षे ख इति । यड्ढकञोरभावपक्षे इत्यर्थः । बहुकुल्य इति ‘विभाषा सुपः’ इति बहुच्प्रत्ययो न पदम् । अतः पूर्वपदरहितत्वाद्यड्ढकञ्खा भवन्त्येवेत्यर्थः ।
Tattvabodhini¶
अपूर्वपदादन्यतरस्यां यड्ढकञौ - बहुकुल्य इति ।विभाषा सुपः॑ इति बहुच्प्रत्ययो न पदमिति अपूर्वपदत्वात्प्रत्ययत्रयं भवत्ये॑ति भावः ।
Padamanjari¶
ननु च पूर्वपदशब्दः समासावयवे रूढः, न स्य कुलशब्दे प्रसङ्गः ? इत्यत आह - समाससम्बन्धिन इत्यादि । समाससम्बन्धिपूर्वपदं कुलशब्दस्यापि कथञ्चित्सम्बन्धि भवति, द्वयोरप्येकसमासावयवत्वात् । व्यवस्थावचनस्तु नैवात्र शङ्कनीयः; पूर्वपदसभ्दस्य समासावयवे रूढत्वात् । तेन’देवदतः कुलीनः’ इत्यादौ वाक्ये प्रतिषेधशङ्का न कार्या । बहुच्पूर्वादपीति । अपूर्वादित्युच्यमाने बहुकुलशब्दो बहुचा सपूर्व इति, ततः प्रत्ययो न स्यात् । किञ्च - देवदतः कुलीन इत्यादावपि प्रतिषेधः स्यात् । तस्माद्रूढिपरिग्रहार्थमपि पदग्रहणं कर्तव्यम् ॥
Nyaas¶
ननु पूर्वशब्दोऽवयववचनः; न च कुलशब्दस्य पदान्तरमवयव उपपद्यते; पृथग्भूत्तवात्, अनारम्भकत्वाच्च, ततो व्यपच्छेद्याभावादपूर्वपदादित्युक्तमेतत्कुलशब्दस्य विशेषणम्? इत्याह - समाससम्बन्धि इत्यादि। समासे सत्येतद्भवति - पूर्वपदम्, उत्तरपदमिति। तस्मात् समाससम्बन्धिनः पूर्वपद्सयाभावेन कुलशब्दो विशेष्यते - अविद्यमानं समाससम्बन्धि पूर्वपदं यस्येति। कस्य चाविद्यमानम्? यः समासस्यान्तभूतो न भवति केवलः कुलशब्दः,तेन केवलात् कुलशब्दादयं विधिरित्युक्तं भवति। अथ व्यवस्थावाच्येव पूर्वशब्दः कस्मान्नाश्रीयते? अशक्यत्वात्। तत्र ह्राश्रीयमाणेऽविद्यमानं पूर्वपदं यस्मात् कुलशब्दात् सोऽपूर्वपदशब्देनोच्यते। ततश्च देवदत्तः कुल्यो देवदत्तः कौलेयक इति वाक्ये यड्ढकञौ न स्याताम्; देवदत्तस्येह पूर्वपदस्य विद्यमानत्वात्। पदग्रहणं किम् इति। अपूर्वादित्येवं कस्मान्नोक्तम्, एवमपि हीष्टं सिध्यति, लघु च सूत्रं भवतीति मन्यते। बहुच्पूर्वपदादपि यथा स्यात् इति। अपूर्वात् इत्युच्यमाने बहुच् पूर्वं यत्प्रतातिपदिकं बहुजस्य पूर्वं इति ततः प्रत्ययो न स्यात्। पदग्रहणे तु सति ततोऽपि भवति; तस्यापूर्वपदत्वात्। बहुकुल्यः इति। ईषदसमाप्तं कुलमिति विभाषा सुपो बहुच् पुरस्तात्तु (5.3.68) इति बहुच्। बहुकुलस्यापत्यं बहुकुल्यः॥
Prakriyasarvasvam¶
पूर्वपदरहितात् कुलादेतौ वा स्तः । कुल्यः । कौलेयकः । विकल्पात् कुलीनः । <karika>अत्रापूर्वपदत्वोक्तेस्तुल्यकुल्यो न सिध्यति । यद्वा तुल्यकुले साधुः ‘साध्वर्थे यद्वदिष्यते ॥ २०३ ॥</karika>