41139: कुलात् खः ================ **Padacheda:** कुलात् | S | 5 | 1 | खः | S | 1 | 1 | Sutrartha --------- **'तस्य अपत्यम्' अस्मिन् अर्थे 'कुल'शब्दात् ख-प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix ख comes in the sense of a descendant after the प्रातिपदिक (Nominal Stem) कुल and a compound word that ends in कुल। Vasu English Translation ------------------------ The affix ख comes in the sense of a descendant after the प्रातिपदिक (Nominal Stem) कुल and a compound word that ends in कुल। In the next *sutra*, it will be taught that the word कुल when not preceded by any other word, takes the affixes '*yat*' and '*dhakan*.' That indicates by implication that the present *sutra* applies to the simple word कुल and to the words ending in कुल also. Thus कुलीनः, आढ्यकुलीनः, श्रोत्रियकुलीनः ॥ Kashika ------- उत्तरसूत्रे पूर्वपदप्रतिषेधादिह तदन्तः केवलश्च दृश्यते। कुलशब्दान्तात् प्रातिपदिकात् केवलाच्चापत्ये खः प्रत्ययो भवति। आढ्यकुलीनः। श्रोत्रियकुलीनः। कुलीनः॥ Siddhanta Kaumudi ----------------- कुलीनः । तदन्तादपि । उत्तरसूत्रे अपूर्वपदात् इति लिङ्गात् । आढ्यकुलीनः ॥ Balamanorama ------------ **कुलात् खः** - कुलात्खः । 'अपत्ये' इति शेषः । कुलीन इति । खस्य ईनादेशः । ननु 'समासप्रत्ययविधौ' इति तदन्तविधिनिषेधादाढकुलीन इति कथमित्यत आह — तदन्तादपीति । आढकुलीन इति । आढकुलशब्दात्कर्मधारयात्खः । कुले आध्यत्वप्रतीतिरत्र फलम् । कुलीनशब्देन कर्मधारये तु तदप्रतीतिरिति भेदः । Tattvabodhini ------------- **कुलात् खः** - कुलीन इथि । लिङ्गादिति । अन्यथाग्रहणवते॑ति तदन्तविधिप्रतिषेधादपूर्वपदग्रहणं व्यर्थं स्यादिति भावः । आढकुलीन इति । आढश्चासौ कुलीनश्चेति कुलीनविशेषणत्वे कुलस्याढत्वं न प्रतीयते । किं च ईकार उदात्त इति स्वरेऽपि विशेषोऽस्तीति भावः । Padamanjari ----------- उतरसूत्र इत्यादि । पूर्वपदप्रतिषेधस्यैतत्प्रयोजनम् - आढ।ल्कुलादेर्माभूदिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेवाढ।ल्कुलादेर्न भविष्यति, पश्यति त्वचार्यः - नायं प्रतिषेधः कुलशब्दे प्रवर्तत इति । तेनात्र तावतदन्तस्य ग्रहणम्'येन विधिस्तदन्तस्य' इत्यत्र स्वरूपमित्यनुवृतेः केवलस्याति ग्रहणम् । सामान्यापेक्षं च ज्ञापकम् -'प्रातिपदिकश्रुतिमती परिभाषा कुशलशब्दे न प्रवर्तते इति, तेन'व्यपदेशिवद्भावो' प्रातिपदिकेन' इत्यस्या अप्यप्रवृत्तिः । कुलीन इति उतरसूत्रेऽन्यतरस्यांग्रहणात्केवलादप्यनेन खो भवति । प्रशस्तो वंशःउकुलम्, तस्यापत्यं तत्प्रभवस्यापत्यमित्यर्थः ॥ Nyaas ----- `उत्तरसूत्रे` इत्यादि। उत्तरसूत्रे हि पूर्वपदप्रतिषेधाद्यस्यां परिभाषायां प्रातिपदिकश्रुतिरस्ति, साऽत्र नोपतिष्ठत इत्येषोऽर्थो ज्ञायते। यदि ह्रुपतिष्ठेत, तदा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव (व्या।प।89) स पूर्वपदान्न भविष्यतीत्यपूर्वपदादिति प्रतिषेधोऽनर्थकः स्यात्। सामान्यापेक्षञ्च ज्ञापकम्; तेन `व्यपदेशिवद्भावोऽप्रातिपदिकेन` (शाक।प।65), `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नेष्यते` (व्या।प।89) इत्येतयोरपीह परिभाषयोरुपस्थानं न भवति। ततश्च कुलशब्दान्तं प्रातिपदिकं कुलशब्दो गृह्रते॥ Prakriyasarvasvam ----------------- केवलात् कुलात् तदन्ताच्च खः स्यात् । कुलशब्देन सत्कुलवान् लक्ष्यते । तत्सुतः कुलीनः । द्विजकुलीनः ॥