41137: राजश्वशुराद्यत्¶
Padacheda: राज-श्वशुरात् | S | 5 | 1 |
यत् | S | 1 | 1 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘राजन्’शब्दात् तथा ‘श्वशुर’शब्दात यत्-प्रत्ययः भवति ।
Vasu English Summary¶
The affix यत् comes in the sense of the descendant after the words राजन् and श्वसुर।
Vasu English Translation¶
The affix यत् comes in the sense of the descendant after the words राजन् and श्वसुर। This debars अण् and अञ् respectively. Thus राजन्यः (4.4.168) ‘a person of Kshatriya class’. This is the special meaning of the word; it does not mean ‘the son of a Raja.’ The word राजनः will mean ‘the son of a King.’ So also श्वशुरर्यः ‘son of the father-in-in-law.’
Bhashya¶
राजश्वशुराद्यत् (1383) (यतोऽधिकरणम्) (5293 अर्थविशेषे प्रत्ययनियामकवार्तिकम्॥ 1 ॥) - राज्ञोऽपत्ये जातिग्रहणम् - (भाष्यम्) राज्ञोऽपत्ये जातिग्रहणं कर्तव्यम्। राजन्यो नाम जातिः। क्व मा भूत्? राजनः इति॥
Kashika¶
राजन्श्वशुरशब्दाभ्यामपत्ये यत् प्रत्ययो भवति। यथाक्रममणिञोरपवादः। राजन्यः। श्वशुर्यः॥ राज्ञोऽपत्ये जातिग्रहणम्॥ राजन्यो भवति क्षत्रियजातिश्चेत्। राजनोऽन्यः॥
Siddhanta Kaumudi¶
।<!राज्ञो जातावेवेति वाच्यम् !> (वार्तिकम्) ॥
Laghu Siddhanta Kaumudi¶
राज्ञो जातावेवेति वाच्यम् (वार्त्तिकम्)॥
Balamanorama¶
राजश्वशुराद्यत् - राजआशुराद्यत् । राजन्शब्दाच्छ्वशुरशब्दाच्चापत्ये यत्प्रत्ययः स्यादित्यर्थः । क्रमेण अणिञोरपवादः । राज्ञो जातावेवेति । जातिः समुदायवाच्याचेदित्यर्थः ।
Tattvabodhini¶
राजश्वशुराद्यत् - राजआशुराद्यत् ।कमेणाऽणिञोरपवादः ।राज्ञो जातावेवेति वाच्यम । जाता वेवेति । प्रकृति प्रत्ययसमुदायेन जातिश्चेद्वाच्येत्यर्थः । प्रत्ययस्त्वपत्य एव । एवं च पङ्कजादिवद्योगरूढ इति फलितोऽर्थः ।
Padamanjari¶
क्षत्रियजातिश्चेदिति । प्रकृतिप्रत्ययसमुदायेन क्षत्रियजातिश्चेद् गम्येतेत्यर्थः । राजन्य इति ।’ये चाभावकर्मणोः’ इति प्रकृतिभावः । राजनोऽन्य इति । स पुनर्वैश्याशूद्रयोरुत्पन्नः, ठन्ऽ इति प्रकृतिभावः ॥
Nyaas¶
क्षत्रियजातिश्चेत् इति। प्रत्ययान्तेन यदि क्षत्रियजातिर्गम्यते एवं यद् भवति। यो ह्रपत्यमेव राज्ञो न क्षत्त्रियजातिस्तत्राणेवौत्सर्गिको भवति। एतच्च वा (4.1.131) इत्यस्येहानुवृत्तस्य व्यवस्थिविभाषात्वविज्ञानाल्लभ्यते। `राजन्यः इति। ये चाभावकर्मणोः (6.4.168) इति प्रकृतिभावः। राजनः इति। अत्रापि अन् (6.4.167) इति प्रकृतिभावः॥
Prakriyasarvasvam¶
श्वशुर्यः । राजन् य ‘नस्तद्धित’ (६-४-१४४) इति टिलोपे प्राप्ते ॥
Vartika¶
राज्ञो जातावेवेति वाच्यम् ।
Sutra Prayogas¶
राजन्यान् (रघुवंशम्): राजश्वशुराद्यत् इत्यपत्यार्थे यत्प्रत्ययः।
अनेकराजन्यरथाश्वसंकुलं (किरातार्जुनीयम्): राजश्वशुराद्यत् इति यत्प्रत्ययः।
राजन्य (भट्टिकाव्यम्): राजश्वशुराद्यत् इति यत्-प्रत्ययः।
राजन्य (भट्टिकाव्यम्): राज-श्वशुराद्यत् राजन्याः क्षत्रियाः ।