41133: ढकि लोपः

Padacheda: ढकि | S | 7 | 1 |

लोपः | S | 1 | 1 |

Sutrartha

‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘पितृष्वसृ’शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते ‘पितृष्वसृ’शब्दस्य (अन्तिमवर्णस्य) लोपः भवति ।

Vasu English Summary

The final vowel of पितृष्वसृ is elided when the affix ढक् , in the sense of a descendant, is added.

Vasu English Translation

The final vowel of पितृष्वसृ is elided when the affix ढक् , in the sense of a descendant, is added. Thus पितृष्वस् + ढक् = पैतृष्वसेयः ॥ This sutra indicates by jnapaka that the word पितृष्वसृ takes the affix ‘dhak’ also.

Bhashya

ढकि लोपः (1379) (ढक्समर्थकभाष्यम्) केन विहिते पितृष्वसुः-ढकि लोप इत्युच्यते? एतदेव ज्ञापयति पितृष्वसुर्ढगिति, यदयं ढकि लोपं शास्ति॥

Kashika

पितृष्वसुरपत्यप्रत्यये ढकि परतो लोपो भवति। पैतृष्वसेयः। कथं पुनरिह ढक् प्रत्ययः? एतदेव ज्ञापकं ढको भावस्य॥

Siddhanta Kaumudi

पितृष्वसुरन्त्यलोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः ॥

Balamanorama

ढकि लोपः - ढकि लोपः ।पितृष्वसु॑रित्यनुवर्तते । अलोऽन्त्यपरिबाषयाऽन्त्यस्य लोपः । तदाह — पितृष्वसुरन्त्यस्य लोप इति । ननु पितृष्लसुरपत्ये ढक एक दुर्लभत्वात्कथं तस्मिन्परे लोपविधिरित्यत आह — अत #एवेति । शुब्राआदित्वाड्ढगित्यन्ये । पैतृष्वसेय इति । ढकि अन्त्यस्य ऋकारस्य लोपे आदिवृद्धिः ।मातृपितृभ्यां स्वसे॑ति षत्वम् ।

Padamanjari

कथं पुनरित्यादि । ढग्विधौ टाबादिस्त्रीप्रत्ययान्तानां ग्रहणाच्छुभ्रादिष्वस्यापाठात् प्रश्नः । एतदेवेत्यादि । न ह्यसतो निमितभावः सम्भति ॥

Nyaas

कथं पुनः इत्यादि। ढग्विधौ टाबादिस्त्रीप्रत्ययान्तग्रहणात् पितृष्वसृशब्दस्य चास्त्रीप्रत्ययान्तत्वात्। ततो ढको भावमसम्भावयतः प्रश्नः। एतदेव इत्यादि। यदेतत् पितृष्वसृशब्दं प्रति ढको निमित्तत्वेनाश्रयणम्, एतदेव पितृष्वसृशब्दत् तस्य भावं ज्ञपायति। न ह्रसतो निमित्तभाव उपपद्यते॥

Prakriyasarvasvam

पितृष्वसुर्ढक् स्यात् । तस्मिन् परेऽन्त्यलोपश्च । पैतृष्वसेयः ॥