41129: गोधाया ढ्रक्¶
Padacheda: गोधायाः | S | 5 | 1 |
ढ्रक् | S | 1 | 1 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘गोधा’शब्दात् ढ्रक्-प्रत्ययः भवति ।
Vasu English Summary¶
The affix ढ्रक् comes in the sense of a descendant after the word गोधा।
Vasu English Translation¶
The affix ढ्रक् comes in the sense of a descendant after the word गोधा। Thus गोधा + ढ्रक् = गौधेरः ॥ Of the affix ‘dhrak’, the letter ढ् is replaced by एय् (7.1.2), क् causes Vriddhi (7.2.118) and makes the udatta accent fall on the final (4.1.165). Thus the real affix is एय्र, but the य् is elided by (6.1.66) and so the affix that is actually added is एर ॥
This word गोधा occurs in the Subhradi class (4.1.123), also, thus it takes the affix ‘dhak’ as well. Thus गौधेयः ॥
Kashika¶
गोधाया अपत्ये ढ्रक् प्रत्ययो भवति। गौधेरः। शुभ्रादिष्वयं पठ्यते। तेन गौधेयोऽपि भवति॥
Siddhanta Kaumudi¶
गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ॥
Balamanorama¶
गोधाया ढ्रक् - गोधाया ढ्रक् । गौधेर इति । गोधाया अपत्यमिति विग्रहः । ढ्रकि ढकारस्य एयादेशेलोपोव्यो॑रिति यलोपः । कित्त्वादादिवृद्धिरिति भावः ।
Tattvabodhini¶
गोधाया ढ्रक् - गौधेर इति । ढस्य एयादेशे कृतेलोपो व्यो॑रिति यलोपः ।
Nyaas¶
गोधेरः इति। पूर्ववद्यलोपः॥
Prakriyasarvasvam¶
ढमात्रस्य एय् । गोधा एय् र ‘लोपो व्यो—’ (६-१-६६) इति यलोपः । गोधा पर, वृद्धिः । यस्येति च । गौधेरः । शुभ्रादित्वाढ्ढकि गौधेयोऽपि ॥