41129: गोधाया ढ्रक् =================== **Padacheda:** गोधायाः | S | 5 | 1 | ढ्रक् | S | 1 | 1 | Sutrartha --------- **'तस्य अपत्यम्' अस्मिन् अर्थे 'गोधा'शब्दात् ढ्रक्-प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix ढ्रक् comes in the sense of a descendant after the word गोधा। Vasu English Translation ------------------------ The affix ढ्रक् comes in the sense of a descendant after the word गोधा। Thus गोधा + ढ्रक् = गौधेरः ॥ Of the affix '*dhrak*', the letter ढ् is replaced by एय् (7.1.2), क् causes *Vriddhi* (7.2.118) and makes the *udatta* accent fall on the final (4.1.165). Thus the real affix is एय्र, but the य् is elided by (6.1.66) and so the affix that is actually added is एर ॥ This word गोधा occurs in the *Subhradi* class (4.1.123), also, thus it takes the affix '*dhak*' as well. Thus गौधेयः ॥ Kashika ------- गोधाया अपत्ये ढ्रक् प्रत्ययो भवति। गौधेरः। शुभ्रादिष्वयं पठ्यते। तेन गौधेयोऽपि भवति॥ Siddhanta Kaumudi ----------------- गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ॥ Balamanorama ------------ **गोधाया ढ्रक्** - गोधाया ढ्रक् । गौधेर इति । गोधाया अपत्यमिति विग्रहः । ढ्रकि ढकारस्य एयादेशेलोपोव्यो॑रिति यलोपः । कित्त्वादादिवृद्धिरिति भावः । Tattvabodhini ------------- **गोधाया ढ्रक्** - गौधेर इति । ढस्य एयादेशे कृतेलोपो व्यो॑रिति यलोपः । Nyaas ----- `गोधेरः` इति। पूर्ववद्यलोपः॥ Prakriyasarvasvam ----------------- ढमात्रस्य एय् । गोधा एय् र 'लोपो व्यो—' (६-१-६६) इति यलोपः । गोधा पर, वृद्धिः । यस्येति च । गौधेरः । शुभ्रादित्वाढ्ढकि गौधेयोऽपि ॥