41128: चटकाया ऐरक्¶
Padacheda: चटकायाः | S | 5 | 1 |
ऐरक् | S | 1 | 1 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘चटका’शब्दात् ऐरक् प्रत्ययः भवति ।
Vasu English Summary¶
The word चटका takes the affix ऐरक् in forming the Patronymic.
Vasu English Translation¶
The word चटका takes the affix ऐरक् in forming the Patronymic. Thus चाटकैरः ‘son of Chataka’.
Vart:- So also after the masculine word चटक ॥ Thus चाटकैरः ‘son of Chataka’.
Vart:- In forming a descendant denoting a female, there is luk-elision of the affix. Thus the female descendant of चटका will be चटका, the टाप् being added as belonging to Ajadi class (4.1.4).
Bhashya¶
चटकाया ऐरक् (1374) (ऐरगधिकरणम्) (5290 सूत्रे स्त्रीलिंगनिर्देशस्याविवक्षितत्वबोधकवार्तिकम्॥ 1 ॥) - चटकायाः पुंलिङ्गनिर्देशः - (भाष्यम्) चटकायाः पुंलिङ्गेन निर्देशः कर्तव्यः। इहापि यथा स्यात्-चटकस्यापत्यं चाटकैरः। यदि पुंलिङ्गेन निर्देशः क्रियते, चटकाया अपत्यं चाटकैर इति न सिध्यति। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येवं भविष्यति॥ (5291 वार्तिकम्॥ 2 ॥) - स्त्रियामपत्ये लुग्वक्तव्यः - (भाष्यम्) चटकाया आपत्यं चटका॥
Kashika¶
चटकाया अपत्य ऐरक् प्रत्ययो भवति। चाटकैरः॥ चटकाच्चेति वक्तव्यम्॥ चटकस्यापत्यं चाटकैरः॥ स्त्रियामपत्ये लुग् वक्तव्यः॥ चटकाया अपत्यं स्त्री चटका॥
Siddhanta Kaumudi¶
।<!चटकस्येति वाच्यम् !> (वार्तिकम्) ॥ लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः ।<!स्त्रियामपत्ये लुग्वक्तव्यः !> (वार्तिकम्) ॥ तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ॥
Balamanorama¶
चटकाया ऐरक् - चटकायाः । चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः । ननु स्त्रीलिङ्गनिर्देशात्पुंलिङ्गान्न स्यादित्यत आह — चटकादिति । सूत्रे ‘चटकाया’ इत्यपनीयचटका॑दिति वाच्यमित्यर्थः । तर्हि स्त्रीलिङ्गान्न स्यादत आह — लिङ्गेति । स्त्रिया अपीति । स्त्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति । चटकस्य चटकायटाश्चेत्यर्थः । ननु चटकेति कथं, जातित्वान्ङीष्प्रसङ्गादित्यत आह — अजादित्वादिति ।
Padamanjari¶
स्त्रीलिङ्गनिर्देशात्पुंल्लिङ्गान्न प्रसज्यत इत्याह - चटकाच्चेति वक्तव्यमिति । एवं च पुंल्लिङ्गनिर्देश एव कर्तव्यः, लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि भविष्यति, तथा तु न कृतमित्येव । स्त्रियामपत्ये लुग्वक्तव्य इति । चटकाया अपत्यमिति । चटकस्यापीति द्रष्टव्यम् । चटकेति ।’लुक्तद्धितलुकि’ इति टापो लुकि कृते पुनरजादिलक्षणष्टाप् कर्तव्यः ॥
Nyaas¶
चटकाया अपत्यं स्त्री चटका इति। लुक् तद्धितलुकि (1.2.49) इति लुकि कृते पुनष्टाप् कर्तव्यः। पुंल्लिङ्गादपि स्त्रियामिष्यत एव लुक्। एवम् चटकादैरक् इत्येतत् सूत्रमासीत्, इदानीं प्रमादाच्च चटकायाः इति पाठः॥
Prakriyasarvasvam¶
‘चटकाच्चेति वाच्यम्’ चटकायाश्चटकस्य वा पुत्रश्चाटकैरः । ‘स्त्र्यपत्येषु’ लुग् वाच्यः’ द्वयोः पुत्री चटका ॥
Vartika¶
स्त्रियामपत्ये लुक् ।