41116: कन्यायाः कनीन च ====================== **Padacheda:** कन्यायाः | S | 6 | 1 | कनीन | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **'तस्य अपत्यम्' अस्मिन् अर्थे 'कन्या'शब्दात् अण्-प्रत्ययः भवति, तथा कन्या-शब्दस्य 'कनीन' आदेशः भवति ।** 'कन्यायाः अपत्यम्' इत्यस्मिन् अर्थे 'कन्या' शब्दात् अण्-प्रत्ययः भवति, तथा 'कन्या' शब्दस्य 'कनीन' आदेशः अपि भवति । यथा - कन्यायाः अण् → कन्या + ङस् + अण् [अलौकिकविग्रहः] → कन्या + अण् [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः] → कनीन + अण् [**कन्यायाः कनीन च** (4.1.116) इति कन्या-शब्दस्य कनीन-आदेशः] → कानीन + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → कानीन् + अ [**यस्येति च** (6.4.148) इति अकारलोपः] → कानीन ज्ञातव्यम् - 'कन्या' इत्युक्ते अविवाहिता स्त्री । अतः स्त्रियाः विवाहात् पूर्वम् यत् अपत्यम्, तस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा - व्यास, कर्ण - एतयोः उल्लेखः 'कानीन' शब्देन क्रियते । साहित्ये दृष्टानि उदाहरणानि एतानि - 1. 'कानीनस्य प्रसादेन महाभारतमप्युत' - नारदपुराणम्, उत्तरार्धः, द्वितीयाध्यायस्य पञ्चमः श्लोकः । अत्र 'कानीन' शब्देन व्यासमहर्षेः निर्देशः कृतः अस्ति । 2. 'तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः' - पद्मपुराणम्, 7.2.40 । अत्रापि 'कानीन' शब्देन व्यासमहर्षेः निर्देशः कृतः अस्ति । 3. श्रीवेदव्यासाष्टोत्तरशतनामावल्यामपि 'कानीनाय नमः' इति व्यासमहर्षेः एकं नाम उक्तमस्ति । 4. 'योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः' - महाभारतम् 5.142.25 । अत्र कुन्तीपुत्रकर्णस्य उल्लेखः 'कानीन' नाम्ना कृतः अस्ति । Sutrartha (English) ------------------- To indicate the meaning of 'his/her offspring', the word कन्या gets the 'अण्' प्रत्यय and it also gets 'कानीन' as आदेश. Vasu English Summary -------------------- The affix अण् comes in the sense of descendant after the word कन्या and when this affix is added, कनीन is the substitute of कन्या। Vasu English Translation ------------------------ The affix अण् comes in the sense of descendant after the word कन्या and when this affix is added, कनीन is the substitute of कन्या। Thus कन्याया अपत्यं = कानीनः 'the son of a virgin' viz '*Karna*' or '*Vyasa*'. This debars the ढक् of (4.1.121). The word कन्या means a virgin, the son of a virgin is produced by immaculate conception. मुनिदेवतामाहात्म्याद् या पुंयोगेऽपि न कन्यात्वं जहाति, यथा कुन्ती, यथा सत्यवती ॥ Bhashya ------- कन्यायाः कनीन च (1362) (आक्षेपभाष्यम्) इदं विप्रतिषिद्धम्। को विप्रतिषेधः? अपत्यमिति वर्तते। यदि च कन्या, नापत्यम्। अथापत्यम्, न कन्या। कन्या चापत्यं चेति विप्रतिषिद्धम्॥ (समाधानभाष्यम्) नैतद्विप्रतिषिद्धम्। कथम्? कन्याशब्दोऽयं पुंसाऽभिसम्बन्धपूर्वके संप्रयोगे निवर्तते। या चेदानीं प्रागभिसम्बन्धात् पुंसा सह संप्रयोगं गच्छति तस्यां कन्याशब्दो वर्तत एव। कन्यायाः कन्योक्तायाः कन्याभिमतायाः सुदर्शनाया यदपत्यं स कानीन इति॥ Kashika ------- कन्याशब्दादपत्येऽण् प्रत्ययो भवति। ढकोऽपवादः। तत्सन्नियोगेन कनीनशब्द आदेशो भवति। कन्याया अपत्यं कानीनः कर्णः। कानीनो व्यासः॥ Siddhanta Kaumudi ----------------- ढकोऽपवादोऽण् तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥ Laghu Siddhanta Kaumudi ----------------------- चादण्। कानीनो व्यासः कर्णश्च॥ Balamanorama ------------ **कन्यायाः कनीन च** - कन्यायाः क ।कनीने॑ति लुप्तप्रथमाकम् । ढक इति ।स्त्रीभ्यो ढ॑हिति विहितस्येत्यर्थः । कनीनादेशश्चेति ।प्रकृते॑रिति शेषः । भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रसिद्धम् । ननु कन्याया अप्रादुर्भूतयौवनत्वात्पुंसंयोगाऽभावात्कथमपत्यसम्बन्ध इत्यत आहानूढाया इति । अलब्धविवाहाया इत्यर्थः । एतच्च भाष्ये स्पष्टम् । Tattvabodhini ------------- **कन्यायाः कनीन च** - कन्यायाः । ननु कन्या हृक्षतयोनिः, तस्याश्चाऽपत्यसंभव एव नास्तीत्याशङ्क्याह -अनूढाया इथि । अविवाहिताया इत्यर्थः । Padamanjari ----------- ढकोऽपवाद इति ।'द्व्यचः' इति प्राप्तस्य । कन्याया अपत्यं कानीन इति । शास्त्रोक्तविवाहसंस्कारपूर्वस्य पुरुषसम्प्रयोगस्याभावः कन्याशब्दनिमितं नाक्षतयोनित्वम् । या तु विवाहसंस्कारेण विना पुरुषेण सम्प्रयुज्यते सा कन्यात्वं न जहाति । तेनैतन्न नोदनीयम् - यदि कन्या नापत्यम्, अथापत्यं न सा कन्या, कन्या चापत्यं चेति विप्रतिषिद्धमिति । अपर आह - मुनिदेवतामाहात्म्याद्या पुंयोगेऽपि न कन्यात्वं जहाति, यथा - कुन्ती, यथा - सत्यवती, सात्रोदाहरणमिति, तदाह - कानीनः कर्णः, कानीनो व्यास इति ॥ Prakriyasarvasvam ----------------- अण् । कानीनः कर्णः ॥