41108: वतण्डाच्च¶
Padacheda: वतण्डात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
आङ्गिरसकुलवाची यः ‘वतण्ड’शब्दः, तस्मात् गोत्रापत्यस्य निर्देशार्थम् यञ् प्रत्ययः भवति ।
Vasu English Summary¶
The affix यञ् comes in the sense of a गोत्र (Patronymic) descendant after the word वतण्ड when meaning a descendant of अङ्गिरस।
Vasu English Translation¶
The affix यञ् comes in the sense of a गोत्र (Patronymic) descendant after the word वतण्ड when meaning a descendant of अङ्गिरस। Thus वातण्ड्यः = आंगिरसः, otherwise वातण्डः ॥
The word वतण्ड occurs both in the Gargadi class (4.1.105) and in the Sivadi class (4.1.112). It would have taken both affixes अञ् and अण्. The present sutra declares that when it means an Angirasa, then वतण्ड will not take अण् of the शिवादि class : and when it does not mean Angirasa, then it takes both these affixes e. g. वातंड्यः and वातंडः any descendant of Vatanda.
Bhashya¶
वतण्डाच्च (1354) (यञ्ञोऽधिकरणम्) (सूत्रफलप्रदर्शकभाष्यम्) किमर्थमिदमुच्यते? न गर्गादिभ्यो यञ्ञ् (4.1.105) इत्येव सिद्धम्। लुक् स्त्रियाम् (109) इति वक्ष्यामीति॥ (आक्षेपभाष्यम्) यदि पुनस्तत्रैवोच्येत॥ (समाधानभाष्यम्) नैवं शक्यम्, आङि्गरसग्रहणं हि विच्छिद्येत॥
Kashika¶
आङ्गिरस इत्येव। वतण्डशब्दादाङ्गिरसेऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। वातण्ड्यः। आङ्गिरस इति किम्? वातण्डः। किमर्थमिदं यावता गर्गादिष्वयं पठ्यते? शिवादिष्वप्ययं पठ्यते। तत्राङ्गिरसे। शिवाद्यणोऽपवादार्थं पुनर्वचनम्। अनाङ्गिरसे तूभयत्र पाठसामर्थ्यात् प्रत्ययद्वयमपि भवति। वातण्ड्यः। वातण्डः॥
Siddhanta Kaumudi¶
आङ्गिरसे इत्येन । वातण्ड्यः । अनाङ्गिरसे चु गर्गादौ शिवादौ च पाठाद्यञणौ, वातण्ड्यः-वातण्डः ॥
Balamanorama¶
वतण्डाच्च - वतण्डाच्च । वतण्डस्य गर्गादौ शिवादौ च पाठाद्यञणोः प्राप्तयोराङ्गिरसे यञेवेति नियमार्थमिदम् ।
Tattvabodhini¶
वतण्डाच्च - वतण्डाच्च । यञणोः प्राप्तयोराङ्गिरस यञेवेति नियमार्थं सूत्रम् ।
Padamanjari¶
किमर्थमिति ।’वतण्डाल्लुक् स्त्रियाम्’ इत्येव कस्मान्नोक्तम्, किमर्थो योगविभाग इति प्रश्नः । परिहरति - शिवादिष्वपीति । वतण्डो नाम ऋषिः, तत ऋषित्वादेवाणि सिद्धे शिवादिषु तस्य पाठो गोत्रे गर्गादियञा समावेशार्थः । तत्र यथाऽनाङ्गिरसे समावेशो भवति, एवमाङ्गिरसेऽपि स्यादिति तन्निवत्यर्थो योगविभाग इत्यर्थः ॥
Nyaas¶
किमर्थमिदम्? अनर्थकमिदमित्यर्थः। किं कारणमित्याह - यावता इत्यादि। शिवादिष्वपि इत्यादिना प्रयोजनं दर्शयति। यदीदं नोच्येत, ततो गर्गादिपाठादाङ्गिरसे यथा यञ् भवति, तथा शिवादिषु पाठादणपि स्यात्। तस्मादाङ्गिरसे यञा शिवाद्यणो बाधनं यथा स्यादित्येवमर्थं पुनर्वचनम्। अथ गर्गादिपाठादेव सिद्धे, आङ्गिरसे नियमार्थमेतदिति कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्; प्रयोजनाभावे हि नियमार्थं भवति। इह चास्ति प्रयोजनम्, तच्च दर्शितमेव॥
Prakriyasarvasvam¶
अस्मादप्याङ्गिरसे वाच्ये गोत्रे यञ् । वातण्ड्यः । अन्यत्र वातण्डो वातण्ड्य इति विकल्पः शिवादिगर्गादिपाठात् ।।