41107: कपिबोधादाङ्गिरसे

Padacheda: कपि-बोधात् | S | 5 | 1 |

आङ्गिरसे | S | 7 | 1 |

Sutrartha

आङ्गिरसकुलवाची यः ‘कपि’शब्दः ‘बोध’शब्दः च, तस्मात् गोत्रापत्यस्य निर्देशार्थम् यञ् प्रत्ययः भवति ।

Vasu English Summary

The affix यञ् comes in the sense of a गोत्र (Patronymic) descendant after the words 1. कपिand 2. बोध when the special descendants of the family of अङ्गिरस are meant.

Vasu English Translation

The affix यञ् comes in the sense of a गोत्र (Patronymic) descendant after the words 1. कपिand 2. बोध when the special descendants of the family of अङ्गिरस are meant. Thus कपि + यञ् = काप्यः ‘the grand-son or a still lower descendant of ‘Kapi’ of the family of Angiras.’ So also बौध्यः ॥

Why do we say of the family of Angiras ? Observe कापेयः (4.1.122) “the gotra-descendant of Kapi” so also बौधिः formed by इञ् because it is a Non-Rishi word or because it belongs to Bahvadi (4.1.96) class.

The word कपि occurs in Gargadi class. The present sutra declares a restriction i. e. the ‘yan’ is to be applied only when Angirasa descendant is meant. It is included in the Gargadi class also for the purpose of applying (4.1.18). Thus काप्यायनी “grand-daughter or a still lower descendant of Kapi.”

Kashika

कपिबोधशब्दाभ्यामाङ्गिरसेऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। काप्यः। बौध्यः। आङ्गिरस इति किम्? कापेयः। बौधिः। कपिशब्दो गर्गादिषु पठ्यते। तस्य नियमार्थं वचनम्। आङ्गिरसे यथा स्यात्। लोहितादिकार्यार्थश्च गणे पाठः। काप्यायनी॥

Siddhanta Kaumudi

गोत्रे यञ्स्यात् । काप्यः । बौध्यः । आङ्गरसे किम् ? कापेयः । बौधिः ॥

Balamanorama

कपिबोधादाङ्गिरसे - कपिबोधादा । गोत्रे यञ्स्यादिति । शेषपूरणमिदं । कपिशब्दाद्बोधशब्दाच्च आङ्गिरसात्मके गोत्रे गम्ये यञ्स्यादित्यर्थः । कापेय इति । अत्र गोत्रस्य अनाङ्गिरसत्वाद्यञभावे ‘इतश्चानिञः’ इति ढक् । बौधिरिति । अत्राप्यनाङ्गिरसत्वाद्यञभावे ऋष्यणं बाधित्वा बाह्वादित्वादिञिति भावः । कपेर्गर्गादौ पाठेऽपि आङ्गिरस एवेति नियमार्थं ग्रहणम् । तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः । काप्यायनी । बोधशब्दात्तु अप्राप्ते विधिः ।

Tattvabodhini

कपिबोधादाङ्गिरसे - कापेय इति ।इतश्चऽनिञः॑इति ढक् । कपेर्गर्गादिगणे पाठो लोहितादिकार्यार्थः । तेन कात्यायनीति सिध्यति । बौधिरिति । अनृषित्वादि॑ञ्, बाह्वादित्वाद्वा ।

Padamanjari

कापेय इति । ठितश्चानिञःऽ इति ढक् । बौधिरिति । अनृषित्वादिञ्, बाह्वादिर्वा ॥

Nyaas

कापेयः`इति। `इतश्चामिञः (4.1.122) इति ढञक्। यदि कपिशब्दो गर्गादिषु पठते, नियमार्थं त्विह तस्य ग्रहणम्, एवं सत्याङ्गिरसे विध्यर्थमेवास्य ग्रहणमेवास्तु,नार्थो गर्गादिषु पाठेन? इत्यत आह - लोहितादिकार्यार्थश्च इत्यादि॥