41108: वतण्डाच्च ================ **Padacheda:** वतण्डात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **आङ्गिरसकुलवाची यः 'वतण्ड'शब्दः, तस्मात् गोत्रापत्यस्य निर्देशार्थम् यञ् प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix यञ् comes in the sense of a गोत्र (Patronymic) descendant after the word वतण्ड when meaning a descendant of अङ्गिरस। Vasu English Translation ------------------------ The affix यञ् comes in the sense of a गोत्र (Patronymic) descendant after the word वतण्ड when meaning a descendant of अङ्गिरस। Thus वातण्ड्यः = आंगिरसः, otherwise वातण्डः ॥ The word वतण्ड occurs both in the *Gargadi* class (4.1.105) and in the *Sivadi* class (4.1.112). It would have taken both affixes अञ् and अण्. The present *sutra* declares that when it means an *Angirasa*, then वतण्ड will not take अण् of the शिवादि class : and when it does not mean *Angirasa*, then it takes both these affixes e. g. वातंड्यः and वातंडः any descendant of *Vatanda*. Bhashya ------- वतण्डाच्च (1354) (यञ्ञोऽधिकरणम्) (सूत्रफलप्रदर्शकभाष्यम्) किमर्थमिदमुच्यते? न गर्गादिभ्यो यञ्ञ् (4.1.105) इत्येव सिद्धम्। लुक् स्त्रियाम् (109) इति वक्ष्यामीति॥ (आक्षेपभाष्यम्) यदि पुनस्तत्रैवोच्येत॥ (समाधानभाष्यम्) नैवं शक्यम्, आङि्गरसग्रहणं हि विच्छिद्येत॥ Kashika ------- आङ्गिरस इत्येव। वतण्डशब्दादाङ्गिरसेऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। वातण्ड्यः। आङ्गिरस इति किम्? वातण्डः। किमर्थमिदं यावता गर्गादिष्वयं पठ्यते? शिवादिष्वप्ययं पठ्यते। तत्राङ्गिरसे। शिवाद्यणोऽपवादार्थं पुनर्वचनम्। अनाङ्गिरसे तूभयत्र पाठसामर्थ्यात् प्रत्ययद्वयमपि भवति। वातण्ड्यः। वातण्डः॥ Siddhanta Kaumudi ----------------- आङ्गिरसे इत्येन । वातण्ड्यः । अनाङ्गिरसे चु गर्गादौ शिवादौ च पाठाद्यञणौ, वातण्ड्यः-वातण्डः ॥ Balamanorama ------------ **वतण्डाच्च** - वतण्डाच्च । वतण्डस्य गर्गादौ शिवादौ च पाठाद्यञणोः प्राप्तयोराङ्गिरसे यञेवेति नियमार्थमिदम् । Tattvabodhini ------------- **वतण्डाच्च** - वतण्डाच्च । यञणोः प्राप्तयोराङ्गिरस यञेवेति नियमार्थं सूत्रम् । Padamanjari ----------- किमर्थमिति ।'वतण्डाल्लुक् स्त्रियाम्' इत्येव कस्मान्नोक्तम्, किमर्थो योगविभाग इति प्रश्नः । परिहरति - शिवादिष्वपीति । वतण्डो नाम ऋषिः, तत ऋषित्वादेवाणि सिद्धे शिवादिषु तस्य पाठो गोत्रे गर्गादियञा समावेशार्थः । तत्र यथाऽनाङ्गिरसे समावेशो भवति, एवमाङ्गिरसेऽपि स्यादिति तन्निवत्यर्थो योगविभाग इत्यर्थः ॥ Nyaas ----- किमर्थमिदम्? अनर्थकमिदमित्यर्थः। किं कारणमित्याह - `यावता` इत्यादि। `शिवादिष्वपि` इत्यादिना प्रयोजनं दर्शयति। यदीदं नोच्येत, ततो गर्गादिपाठादाङ्गिरसे यथा यञ् भवति, तथा शिवादिषु पाठादणपि स्यात्। तस्मादाङ्गिरसे यञा शिवाद्यणो बाधनं यथा स्यादित्येवमर्थं पुनर्वचनम्। अथ गर्गादिपाठादेव सिद्धे, आङ्गिरसे नियमार्थमेतदिति कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्; प्रयोजनाभावे हि नियमार्थं भवति। इह चास्ति प्रयोजनम्, तच्च दर्शितमेव॥ Prakriyasarvasvam ----------------- अस्मादप्याङ्गिरसे वाच्ये गोत्रे यञ् । वातण्ड्यः । अन्यत्र वातण्डो वातण्ड्य इति विकल्पः शिवादिगर्गादिपाठात् ।।