41106: मधुबभ्र्वोर्ब्राह्मणकौशिकयोः

Padacheda: मधु-बभ्र्वोः | S | 6 | 2 |

ब्राह्मण-कौशिकयोः | S | 7 | 2 |

Sutrartha

गोत्रापत्यस्य निर्देशार्थम् मधु-शब्दात् ब्राह्मणस्य निर्देशं कर्तुम् तथा बभ्रु-शब्दात् कौशिकगोत्रोत्पन्नस्य निर्देशं कर्तुम् यञ्-प्रत्ययः भवति ।

Vasu English Summary

The affix यञ् comes, in the sense of a गोत्र (Patronymic) descendant after the words 1. मधु and 2. बभ्रु when the words so formed mean ब्राह्मण and कौशिक respectively.

Vasu English Translation

The affix यञ् comes, in the sense of a गोत्र (Patronymic) descendant after the words 1. मधु and 2. बभ्रु when the words so formed mean ब्राह्मण and कौशिक respectively. Thus माधव्यः = ब्राह्मणः ‘Brahmana.’ Otherwise माधवः “son of Madhu.” बाभ्रव्यः = कौशिकः Otherwise बाभ्रवः ॥

The word बभ्रु belongs to the Gargadi class, so it would have taken yan by the last sutra also. The present sutra declares a restriction, viz. बभ्रु takes यञ् only then when कौशिक is denoted. Its being read in the Gargadi class serves another purpose : as it belongs to the sub-class लोहितादि, the rule (4.1.18) becomes applicable to it; so that its feminine is formed by ष्फ. Thus बाभ्रव्यायणी ॥ In fact, it would have been better, if in the body of the Ganapatha, instead of writing बभ्रु alone, there was बभ्रु कौशिके ॥ It would have saved the repetition of it in the present sutra.

Kashika

मधुशब्दाद् बभ्रुशब्दात् च गोत्रापत्ये यञ् प्रत्ययो भवति यथासंख्यं ब्राह्मणे कौशिके वाच्ये। माधव्यो भवति ब्राह्मणश्चेत्। माधव एवान्यः। बाभ्रव्यो भवति कौशिकश्चेत्। बाभ्रव एवान्यः। बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम्। गर्गादिषु पाठोऽप्यन्तर्गणकार्यार्थः। सर्वत्र लोहितादिकतन्तेभ्यः (४.१.१८) इति। बाभ्रव्यायणी॥

Siddhanta Kaumudi

गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठात्सिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ॥

Balamanorama

मधुबभ्र्वोर्ब्राह्मणकौशिकयोः - मधुबभ्व्रोः । शेषपूरणेन सूत्रं व्याचष्टे — गोत्रे यञिति । मधुशब्दाद्वभ्रुशब्दाच्च गोत्रापत्ये यञ्स्याद्वाहृणे कौशिके च यथासङ्ख्यं वाच्ये इत्यर्थः । लोहितादिकार्यमिति । ष्फ इत्यर्थः । लोहितादिर्गर्गाद्यन्तर्गणै इति भावः । बाभ्रव्यायणीति । बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः । गर्गादियञि बाभ्रव्यशब्दात्सर्वत्र लोहितादिकतन्तेभ्यः॑ इति ष्फः ।आयन्नादेशः, षित्त्वान्ङीषिति भावः ।

Tattvabodhini

मधुबभ्र्वोर्ब्राह्मणकौशिकयोः - गोत्रे यद्यञन्तमित्यादि । प्रवराध्यायप्रसिद्धगोत्रवाचिनौ केवलौ यञञौ न भवत इतिगोत्र ॑इत्यनेन तदन्तं विशेषितम् । तदवयवयोरिति । निर्दिश्यमानस्यादेशा भवन्ती॑ति भावः । प्रवराध्यायेति । एतच्चस्त्रीपुंसाभ्या॑मिति सूत्रेलौकिकष्य गोत्रस्य ग्रहण॑मिति भाष्यमुपादाय कैयटेनोक्तमिति भावः । लोहितादीति ।सर्वत्र लोहितादी॑त्यादिना ष्फः । ष्फेणोक्तेऽपि स्त्रीत्वे षित्त्वासामर्थ्यान्ङीषित्याशयेनाह -बाभ्रव्यायणीति । गर्गादिगण एवबभ्रुः, कौशिक॑इति पाठम्, एवं हि द्विर्बभ्रुग्रहणं न कर्तव्यं भवतीति हरदत्तादयः ।

Padamanjari

गण एव बभ्रुकौशिक इति वक्तव्यम्, एवं हि द्विबेभ्रुग्रहणं न कर्तव्यं भवति ? तथा तु न कृतमित्येव ॥

Nyaas

यदि तर्हि बभ्रुशब्दस्य गर्गादिपाठादेव सिद्धे कौशिके नियमार्थमिह ग्रहणम्, एवं सति नार्थो गर्गादिषु पाठेन, कौशिके विध्यर्थमेव ग्रहणमस्तु, नास्य? इत्यत आह - गर्गादिषु पाठोऽपि इत्यादि। गर्गादिषु पाठोऽपि कर्तव्यः। सर्वत्र लोहितर (4.1.18) इत्यादिनान्तर्गणकार्य ष्फो यथा स्यात्। अथ गण ए कौशिकग्रहणं कस्मान्न कृतम्, कः पुनरेवं सति गुणो भवति, सुत्रे पुनर्बभ्रुग्रहणं न कर्तव्यं भवति? सत्यमेतत्; अपाणिनीयत्वात् गणस्य। नैवं चाकरणे पाणिनिरुपालम्भमर्हति। गणकारेणापि हि किं न कृतम्? वैचित्र्यार्थम्। विचित्रा हि गणस्य कृतिर्गणकारेण॥

Prakriyasarvasvam

क्रमाद् यञ् । मधुपौत्रो ब्राह्मणो माधव्यः । माधवोऽन्यः । कौशिकगोत्रा- द्दत्तश्चेत् बाभ्रव्यः । बाभ्रवोऽन्यः ।।