41091: फक्फिञोरन्यतरस्याम्¶
Padacheda: फक्-फिञोः | S | 6 | 2 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
There is optionally लुक् elision of the युवन् affixes फक् and फिञ् when a प्राग्दीव्यतीय affix beginning with a vowel is to be added.
Vasu English Translation¶
There is optionally लुक् elision of the युवन् affixes फक् and फिञ् when a प्राग्दीव्यतीय affix beginning with a vowel is to be added. By the last sutra, all Yuvan affixes were told to be elided. The present sutra declares an option in the case of the Yuvan affixes फक् and फिञ्. Thus the patronymic of गर्ग is गार्ग्य (4.1.105); the Yuvan of गार्ग्य is formed by फक् (4.1.101) गार्ग्यायणः ॥ The word denoting the pupils of Gargyana will be गार्गीय or गार्ग्यायणीयाः; वात्सीयाः or वात्सयायनीयाः ॥ Similarly of the affix फिञ् (4.1.156). Thus from यस्क, the Patronymic is यास्क (4.1.112). The Yuvan of the latter is यास्कायनि (4.1.146). The pupils of Yaskayani will be called यास्कीया or यास्कायनीयाः ॥
Kashika¶
यूनीत्येव। पूर्वसूत्रेण नित्ये लुकि प्राप्ते विकल्प उच्यते। फक् फिञोर्युवप्रत्यययोः प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽन्यतरस्यां लुग् भवति। गर्गादिभ्यो यञि (४.१.१०५) कृते यञिञोश्च (४.१.१०१) इति फक्, गार्ग्यायणः। तस्य छात्रा गार्गीयाः, गार्ग्यायणीयाः। वात्सीयाः, वात्स्यायनीयाः। फिञः खल्वपि। यस्कस्यापत्यम्, शिवादिभ्योऽण् (४.१.११२)। यास्कः। तस्यापत्यं युवा, अणो द्व्यचः (४.१.१५६) इति फिञ् यास्कायनिः। तस्य छात्रा यास्कीयाः, यास्कायनीयाः॥
Siddhanta Kaumudi¶
यूनि लुक्-(SK1083) इति नित्ये लुकि प्राप्ते विकल्पार्थे सूत्रम् । कात्यायनस्य छात्राः कातीयाः-कात्यायनीयाः । यस्कस्यापत्यं यास्कः, शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । अणो द्व्यचः-(SK1180) इति फिञ् । तस्य छात्राः यास्कीयाः-यास्कायनीयाः ॥
Balamanorama¶
फक्फिञोरन्यतरस्याम् - ॒इञः प्राचा॑मिति लुङ्नेत्यर्थः । अथ प्रकृतं चातुर्थिकं लुग्विधिमनुसरति — फक्फिञोरन्यतरस्यां । यूनीत्येवेति ।यूनि लु॑गिति पूर्वसूत्रमनुवर्तते इत्यर्थः ।यूनि लु॑गित्यक्तो लुक् फक्फिञोर्वा स्यादित्यर्थः । तदाह — पूर्वेणेति । कात्यायनस्येति । कतस्य गोत्रापत्यं कात्यः । गर्गादित्वाद्यञ् । तस्यापत्यं युवा — कात्यायनः ।यञिञोश्चे॑ति फक् । कात्यायनस्य छात्रा इत्यर्थेतस्येद॑मित्यनुवृत्तौ ‘वृद्धाच्छः’ इति छः । तस्य ईयादेशः । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफको लुकि सति, कात्य-ईय इति स्थिते॒यस्येति चे॑त्यकारलोपेआपत्यस्य चे॑ति यलोपे ‘कातीया’ इति रूपम् । फको लुगभावे तु ‘कात्यायनीया’ इति रूपमित्यर्थः । यस्कस्येति । यस्कस्य गोत्रापत्यमित्यर्थेअत इ॑ञिति इञपवादः शिवाद्यणित्यर्थः । तस्येति । यास्कस्यापत्यं युवेत्यर्थेअणो द्व्यचः॑इति फिञि आयन्नादेशे यास्कायनिरिति रूपमित्यर्थः । तस्य छात्रा इति । यास्कायनेश्छात्रा इत्यर्थेतस्येद॑मित्यनुवृत्तौ ‘वृद्धाच्छः’ इति छः । तस्य ईयादेशः । ‘यास्कायनीया’ इति रूपम् । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थफकिञो लुकियस्येति चे॑त्यकारल#ओपे ‘यास्कीया’ इति रूपमित्यर्थः ।
Tattvabodhini¶
फक्फिञोरन्यतरस्याम् - कात्यायनस्येति । कतस्य गोत्रापत्यं कात्यः । गर्गादित्वा द्यञ् । ततो यूनियञिञोश्चे॑ति फक् । कातीया इथ ।आपत्यस्य चे॑ति यलोपः ।
Padamanjari¶
किमर्थमिदम्, यावता युवरूपविवक्षायां गार्ग्यायणीय इति, गोत्ररूपविवक्षायां च गार्गीया इति शब्दस्य साधारणत्वात् ? इत्यत आह - पूर्वसूत्रेणेति ।’यूनि लुक्’ इत्येतदारम्भणीयमित्युक्तम्, तस्मिश्चारभ्यमाणे यदीदं नोच्येत, फक्फिञोरपि नित्यमेव लुक् स्यात्, ततश्च गार्ग्यायणीया इति न स्यात् । तस्मादिदमप्यारम्भणीयमित्यर्थः ॥
Nyaas¶
गार्गीयाः, वात्सीयाः इति। पूर्वपदकारयकारलोपः। वा (4.1.82) इति वर्तमानेऽन्यतरस्यां ग्रहणं पूर्वसूत्रे नित्यो विधिः इति ज्ञापनार्थम्॥