41090: यूनि लुक्¶
Padacheda: यूनि | S | 7 | 1 |
लुक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
There is लुक् elision of the युवन् गोत्र (Patronymic) forming affix – जीवति तु वंश्ये युवा (4.1.163), when a प्राग्दीव्यतीय affix beginning with a vowel is to be added.
Vasu English Translation¶
There is लुक् elision of the युवन् गोत्र (Patronymic) forming affix – जीवति तु वंश्ये युवा (4.1.163), when a प्राग्दीव्यतीय affix beginning with a vowel is to be added. The elision of the Yuvan affix must take place mentally; having done which, we should then look out for the proper Pragdivyatiya affix to be added to the word-form thus remaining. Thus the Patronymic (¬*Gotra*) of फाण्टाहृतः is फाण्टाहृतिः (4.1.95) formed by adding इञ् ॥ The Yuvan form of the latter (by Sutra (4.1.150)) will be फाण्टाहृतः ॥ When we intend to add a Pragdivyatiya affix to this last word, (e. g. an affix having the sense of “the pupils of”;) we should first mentally elide the Yuvan affix ण (4.1.150) from this word फाण्टाहृत ॥ Having done which we get the form फाण्टाहृति; and it is with regard to this form फाण्टाहृति that we should search out what is the proper pupil-denoting affix: and that by sutra (4.2.112) is अण् ॥ Thus फाण्टाहृति + अण् = फाण्टाहृताः ‘the pupils of Phantahritas’. Had we in the first instance applied the pupil denoting affix to the Yuvan word फाण्टाहृत, such affix would have been छ and not अण्, for the latter is ordained for those cases only where the word ends with the Gotra affix इञ् (4.2.112).
Similarly the Patronymic of भागवित्त is भागवित्ति (4.1.25). The Yuvan of भागवित्ति is भागवित्तिकः (4.1.148). The pupils of Bhagavittika will be भागवित्ताः by adding the affix अण् (4.2.112).
Similarly the Patronymic of तिक is तैकायनि formed by फिञ् (4.1.154). The Yuvan of तैकायनि is तैकायनीय formed by the affix छ (4.1.149). The word denoting the pupils of तैकायनीय will be formed by adding छ (4.2.114) not to this word, but to तैकायनि ॥ Thus तैकायनीयाः ॥
Similarly the Patronymic of कपिञ्जलाद is कपिञ्जलादिः (4.1.95). The Yuvan derivative of the latter will be कापिञ्जलाद्य; (4.1.151). The word denoting pupils of the कापिञ्जलाद्य will be कापिञ्जलादाः (4.2.112).
Similarly Patronymic from ग्लुचुक is ग्लुचुकायनिः (4.1.160), the Yuvan of the latter is ग्लौचुकायनः (4.1.83); the word denoting the pupils of the latter is ग्लौचुकायनाः by (IV. 2.112 formed from ग्लुचुकायनि) ॥ Why do we say “an affix beginning with a vowel”? Observe फाण्टाहृतरूप्यम् and फाण्टाहृतमयम् ॥ Why do we say “a Pragdivyatiya affix”? Observe भागवित्तिकाय हितं = भागावित्तीयम् ॥ (See the last Sutra).
Bhashya¶
यूनि लुक् (1336) (लुगधिकरणम्) (5252 आक्षेपवार्तिकम्॥ 1 ॥) - यूनि लुगचीति चेत् प्रत्ययस्यायथेष्टप्रसङ्गः - (भाष्यम्) यूनि लुगचीति चेत् प्रत्ययस्यायथेष्टं प्राप्नोति। अनिष्टे प्रत्ययेऽवस्थिते लुक्। अनिष्टस्य प्रत्ययस्य श्रवणं प्रसज्येत॥ (5253 समाधानवार्तिकम्॥ 2 ॥) - सिद्धं त्वविशेषेण लुग्वचनं हलि च प्रतिषेधः - (भाष्यम्) सिद्धमेतत्। कथम्? अविशेषेण लुकमुक्त्वा हलि नेति वक्ष्यामि। सिध्यति। सूत्रं तर्हि भिद्यते॥ (वार्तिकान्यथासिद्धिकरणभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तम् -यूनि लुगचीति चेत् प्रत्ययस्यायथेष्टप्रसङ्गः इति। नैष दोषः। अचीति नैषा परसप्तमी। का तर्हि? विषयसप्तमी -अजादौ विषय इति। तत्राचि विषये लुकि कृते यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति॥ (प्रयोजनावतरणभाष्यम्) कानि पुनरस्य योगस्य प्रयोजनानि? (5254 प्रयोजनवार्तिकम्॥ 3 ॥) - प्रयोजनं सौवीरगोत्रेभ्यो णाठक्छाः - (भाष्यम्) ण, फाण्टाहृतेरपत्यं माणवकः -फाण्टाहृतः, फाण्टाहृतस्य यूनश्छात्राः -फाण्टाहृताः। ण॥ ठक्, भागवित्तेरपत्यं माणवको भागवित्तिकः। भागवित्तिकस्य यूनश्छात्राः -भागवित्ताः। ठक्॥ छ, तैकायनेरपत्यं माणवकस्तैकायनीयः। तैकायनीयस्य यूनश्छात्राः -तैकायनीयाः॥ (5255 प्रयोजनवार्तिकम्॥ 4 ॥) - इञ्ञ्ण्यौ सर्वत्र - (भाष्यम्) इञ्ञ्ण्यौ सर्वत्र प्रयोजनम्। औपगवे र्यूनश्छात्राः -औपगवीयाः। वृद्धवदतिदेशे सति इञ्ञो गोत्र इत्यण् प्राप्नोति॥ नैष दोषः। प्रत्याख्यायतेऽसावतिदेशः। कथं यानि प्रयोजनानि? तानि ज्ञापकेन सिद्धानि॥ (प्रयोजनान्तरभाष्यम्) यत्खच्छान्तात्तर्हि -ःइञ्ञः प्रयोजनम्। यत् -श्वशुरस्यापत्यं श्वशुर्यः, श्वशुर्यस्यापत्यं श्वाशुरिः। श्वाशुरेर्यूनश्छात्राः श्वाशुराः -यत्॥ ख -कुलस्यापत्यं कुलीनः, कुलीनस्यापत्यं कौलीनिः, कौलीनेर्यूनश्छात्राः कौलीनाः -ख॥ छ -श्वसुरपत्यं स्वस्रीयः, स्वस्रीयस्यापत्यं स्वास्रीयिः, स्वास्रीयेर्यूनः छात्राः स्वास्रीयाः॥ (प्रयोजनाक्षेपभाष्यम्) एतान्यपि हि न सन्ति प्रयोजनानि। अत्रापि यूनि -श्वशुर्यः, कुलीनः, स्वस्रीय इत्येव भवितव्यम्। उक्तमेतत् -अणिञ्ञोर्लुकि -अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् इति। अब्राह्मणगोत्रमात्रादित्युच्यते, न चैतदब्राह्मणगोत्रमात्रम्। अब्राह्मणगोत्रमात्रादिति नायं पर्युदासः -यदन्यद् ब्राह्मणगोत्रमाणादिति। किं तर्हि - प्रसज्य प्रतिषेधोऽयम् -ब्राह्मणगोत्रमात्रान्नेति॥ अवश्यं चैतदेवं विज्ञेयम्। मायूरिः, कापोतिः, कापिञ्ञ्जलिरित्येवमर्थम्॥ (प्रयोजनभाष्यम्) एवं तर्हि -अण्ण्यौ सर्वत्र प्रयोजनम्॥ अण् -ग्लुचुकायनेरपत्यं माणवको ग्लौचुकायनः, ग्लौचुकायनस्य यूनश्छात्रा ग्लौचुकायनाः। ण्यश्च कापिञ्ञ्जलाद्यर्थम्। कापिञ्ञ्जलादेरपत्यं माणवकः कापिञ्ञ्जलाद्यः, कापिञ्ञ्जलाद्यस्य यूनश्छात्राः कापिञ्ञ्जलादाः॥ (5256 पूर्वपक्षवार्तिकम्॥ 5 ॥) - प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदतिदेशः - (भाष्यम्) प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदतिदेशः कर्तव्यः। युवा वृद्धवद्भवतीति वक्तव्यम्। किं प्रयोजनम्? गार्ग्यायणानां समूहो गार्ग्यायणकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः। गोत्राश्रयो वुञ्ञ् यथा स्यात्। यदि वृद्धवदतिदेशः क्रियते -औपगवेर्यूनश्छात्रा औपगवीया इतीञ्ञो गोत्र इत्यण् प्राप्नोति॥ (एकदेशिसमाधानभाष्यम्) यदि पुनर्युवा वृद्धवदित्यनेनानुत्पत्तिरतिदिश्येत। कथं पुनर्युवा वृद्धवदित्यनेनानुत्पत्तिः शक्या निर्देष्टुम्? वतिनिर्देशोऽयम्, कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा -उशीनरवन्मद्रेषु यवाः, सन्ति -न सन्तीति, मातृवदस्याः कलाः, सन्ति -न सन्तीति। एवमिहापि युवा वृद्धवद्भवति, वृद्धवन्न भवतीति -एवं वाक्यशेषं समर्थयिष्यामहे। यथा -गोत्रे युवप्रत्ययो न भवति, एवं प्राग्दीव्यतोऽधिकारे यून्यपि न भवतीति॥ (समाधानाक्षेपभाष्यम्) तद्वक्तव्यम्? यद्यप्येतदुच्यते॥ (एकदेशिसमाधानान्तरभाष्यम्) अथ वैतर्हि यूनि लुक् इत्येतन्न क्रियते। कथं तर्हि - फक्फिञ्ञोरन्यतरस्याम्(4.1.91) इति? फक्फिञ्ञ्वर्ती युवा वा वृद्धवद्भवतीति वक्ष्यामि॥ (समाधानाक्षेपभाष्यम्) यदा तर्हि न वृद्धवत्, तदा - गार्ग्यायणानां समूहो गार्ग्यायणकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः, गोत्राश्रयो वुञ्ञ् न प्राप्नोति॥ (प्रकारान्तरेणैकदेशिसमाधानभाष्यम्) यदि पुनर्युवा वृद्धवदित्यनेनार्थोऽतिदिश्येत। प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदर्थो भवतीति॥ (समाधानाक्षेपभाष्यम्) तद्वक्तव्यम्। यद्यप्येतदुच्यते॥ (एकदेशिसमाधानभाष्यम्) अथ वैतर्हि यूनि लुक् इत्येतन्न करिष्यते। कथं फक्फिञ्ञोरन्यतरस्यामिति? फक्फिञ्ञ्वर्ती युवार्थो वा वृद्धवद्भवतीति वक्ष्यामि। यदा तर्हि न वृद्धवत्, तदा - गार्ग्यायणानां समूहो गार्ग्यायणकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः, गोत्राश्रयो वुञ्ञ् न प्राप्नोति॥ (सिद्धान्तभाष्यम्) एवं तर्हि - राजन्याद् वुञ्ञ् मनुष्याच्च ज्ञापकं लौकिकं परम्॥ यदयं वुञ्ञ्विधौ राजन्यमनुष्ययोर्ग्रहणं करोति तज्ज्ञापयत्याचार्यः -लौकिकं परं गोत्रग्रहणमिति। युवा च लोके गोत्रमित्युपचर्यते। किं गोत्रोऽसि माणवक? गार्ग्यायणः। किं गोत्रोऽसि माणवक? वात्स्यायनः॥ (आक्षेपवारकभाष्यम्) यद्येतज् ज्ञाप्यते - औपगवेर्यूनश्छात्रा औपगवीयाः, गोत्राश्रय इञ्ञो गोत्र इत्यण्प्राप्नोति। सामूहिकेषु ज्ञापकम्। यदि सामूहिकेषु ज्ञापकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः, गोत्राश्रयो वुञ्ञ्न प्राप्नोति। वुञ्ञ्विधौ ज्ञापकम्। यदि वुञ्ञ्विधौ ज्ञापकम्, शालङ्केर्यूनश्छात्राः शालङ्गाः। इञ्ञो गोत्र इत्यण्न प्राप्नोति। अस्तु तर्ह्यविशेषेण। कथमौपगवेर्यूनश्छात्रा औपगवीयाः? गोत्रेणेञ्ञं विशेषयिष्यामः -गोत्रे य इञ्ञ् विहितः इति॥
Kashika¶
प्राग् दीव्यत इति वर्तते, अचीति च। प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव युवप्रत्ययस्य लुग् भवति। तस्मिन्निवृत्ते सति यो यतः प्राप्नोति, स ततो भवति। फाण्टाहृतस्यापत्यं फाण्टाहृतिः। तस्यापत्यं युवा, फाण्टाहृतिमिमताभ्यां णफिञौ (४.१.१५०) फाण्टाहृतः। तस्य छात्रा इति विवक्षितेऽर्थे बुद्धिस्थे युवप्रत्ययस्य लुग् भवति। तस्मिन् निवृत्त इञन्तं प्रकृतिरूपं संपन्नम्। तस्माद् इञश्च (४.२.११२) इत्यण् भवति। फाण्टाहृताः। भागवित्तस्यापत्यम्, भागवित्तिः। तस्यापत्यं युवा वृद्धाट्ठक् सौवीरेषु बहुलम् (४.१.१४८) इति ठक्, भागवित्तिकः। तस्य छात्राः, पूर्ववद् युवप्रत्यये निवृत्त इञश्च (४.२.११२) इत्यण्, भागवित्ताः। तिकस्यापत्यं तिकादिभ्यः फिञ् (४.१.१५४) तैकायनिः। तस्यापत्यं युवा फेश्छ च (४.१.१४९) इति छः, तैकायनीयः। तस्य छात्राः, युवप्रत्यये निवृत्ते वृद्धाच्छः (४.२.११४) तैकायनीयाः। कपिञ्जलादस्यापत्यं कापिञ्जलादिः, तस्यापत्यं युवा कुर्वादिभ्यो ण्यः (४.१.१५१) कापिञ्जलाद्यः। तस्य छात्राः, ण्ये निवृत्त इञश्च (४.२.११२) इत्यण् कापिञ्जलादाः। ग्लुचुकस्यापत्यं प्राचामवृद्धात् फिन् बहुलम् (४.१.१६०) इति ग्लुचुकायनिः। तस्यापत्यं युवा प्राग्दीव्यतोऽण् (४.१.८३) ग्लौचुकायनः। तस्य छात्राः, युवप्रत्यये निवृत्ते स एवाण् ग्लौचुकायनाः। अचीत्येव — फाण्टाहृतरूप्यम्। फाण्टाहृतमयम्। प्राग्दीव्यत इत्येव — भागवित्तिकाय हितम्, भागवित्तिकीयम्॥
Siddhanta Kaumudi¶
प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः, वक्ष्यमाणः फिन्, ततो यून्यण्, ग्लौचुकायनः । तस्य च्छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न ॥
Balamanorama¶
यूनि लुक् - यूनि लुक् । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्चप्राग्दीव्यतीये प्रत्यये॑ इति लभ्यते । अचीति प्रत्ययविशेषणं, तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी । तदाह — अजादौ प्राग्दीव्यतीये विवक्षिते इति । युवप्रत्ययस्येति । युवार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लभ्यत इति भावः । ननु ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिरिति कथम्,अत इ॑ञितीञः प्राप्तेरित्यत आह — वक्ष्यमाण इति ।प्राचामवृद्धात्फिन्बहुल॑मित्यनेने॑ति शेषः । आयन्नादेशे ग्लुचुकायनिरिति रूपमिति भावः । तत इति । ग्लुचुकायनेरपत्यार्थेतस्यापत्य॑मित्यणि आदिवृद्धौयस्येति चे॑ति लोपे ‘ग्लौचुकायन’ इति रूपमित्यर्थः । तस्येति । ग्लौचुकायनस्य छात्र इत्यर्थे तस्येदमित्यणि युवापत्याऽणो लुकि ‘ग्लौचुकायन’ इत्येव रूपमित्यर्थः । ननु युवापत्याऽणःयस्येति चे॑ति लोपेनैव छात्रार्थे ग्लौचुकायन इति रूपसिद्धेस्तस्य लुग्विधिरनर्थक इत्यत आह — अणो लुकीति । छात्रार्थकछप्रवृत्तेः प्रागेव युवप्रत्ययस्याऽणो लुकि आदिवृद्धेर्निवृत्तौ ग्लुचुकायनिशब्दस्य वृद्धत्वाऽभावाच्छो न भवति । युवप्रत्ययस्य लुगभावे तु वृद्धत्वाच्छः स्यात् । अतदर्थमेव युवप्रत्ययस्य लुग्विधानमित्यर्थः । स्थितश्चातुर्थिको युवप्रत्ययलुक् । तत्प्रसङ्गाद्द्वैतीयीको युवप्रत्ययलुगनुक्रम्यते- ।
Tattvabodhini¶
यूनि लुक् - यूनि लुक् । प्राग्दीव्यतीय इति वर्तते, अचीति च, प्रत्ययाधिकाराच्च प्रत्यय इति लभ्यते । तदेतदाह -प्राग्दीब्यतीयेऽजादौ प्रत्यय इति ।प्रत्ययस्य लु॑गिति संज्ञाकरणाल्लब्धो यः प्रत्ययः, सःयूनी॑त्यनेन विशेष्यते । तथा चयूनियः प्रत्ययस्तस्य लु॑गित्यर्थस्तदाह ।
Padamanjari¶
अत्रापि यद्यचीति परसप्तमी स्यात्, प्रत्ययस्य यथेष्टप्रसङ्गः । युवप्रत्यये श्रूयमाणे यः प्राप्नोति स तावत्कतव्यः, तत्र कृते युवप्रत्ययस्य लुकि तस्य श्रवणं प्राप्नोति, विषयसप्तम्यां त्वजादौ विषयभूत एव युवप्रत्यये लुप्ते यो यतः प्राप्नोति ततः स स भवतीति सिद्धमिष्टम् । एतच्चोदाहरणेषु व्यक्तीकरिष्यते, तदेतदाह - अजादौ प्रत्यये विवक्षित इत्यादि । इञश्चेत्यण् भवतीति । परससप्तम्यां तु वृद्धाच्छ एव स्यात् । फेश्च्छ चेति ।’यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः’ इति परिगणनं भाष्यकारेण नाश्रितम्, तेन तैकायनेरपिच्छाए भवति । तैकायनीया इति । अत्र परसप्तम्यामप्यदोषः,’ण्यक्षत्रियार्षञितः’ इत्यत्र तु वृत्तिकारेणाणो लुगुदाहृतः - तैकायनिः पिता तैकायनिः पुत्र इति, स परिगणनाश्रयेण द्रष्टव्यः, तदा च तैकायनीया इत्यनुदाहरणम् । कापिञ्जलादा इति । अत्रापि परसप्तम्यां वृद्धाच्छः स्यात् । एवं ग्लौचुकायना इत्यत्रापि द्रष्टव्यम् । इह तु औपगवेर्यूनश्छात्रा इञो लुकि वृद्धाच्छाए भवति, परसप्तम्याम्, ठिञश्चऽ इत्यण्स्यात् । नैतदस्य योगस्योदाहरणम्, कथम् ? ठिञश्चऽ इत्यत्र’गोत्रे’ इति वर्तते, तेनेञं विशेषयिष्यामः - गोत्रे य इञ् विहित इति पारिभाषिकं च गोत्रं गृह्यते, कथम् ?’कण्वादिभ्यो गोत्रे’ इत्यत्र तावद्’गोत्रेकुञ्जादिभ्यः’ इत्यस्य गोत्रस्यानुवादः - कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तादण् भवतीति, तत्र च पारिभाषिकं गृह्यते तस्यैव चानुवादः, तदेव च ठिञश्चऽ इत्यत्राप्यनुवर्तते, तत्कुतो युवप्रत्ययान्तादणः प्रसङ्गः ! अवश्यं चैतदेवं विज्ञेयम्, अन्यथा लुप्तेऽपीञि प्रत्ययलक्षणेनाण् स्यादेव । इमानि तर्ह्यत्रोदाहरणानि - यत्खच्छान्ताः । यत् - राजश्वशुराद्यत्ऽ, श्वशुरस्यापत्यं श्वसुर्यः, तस्यापत्यं श्वाशुरिस्तस्य छात्रा इति लुकि’प्राग्दीव्यतो’ ण्ऽ भवति श्वाशुरः, अन्यथा’वृद्धाच्छः’ स्यात् ;’कुलात्खः’ कुलीनः, तस्यापत्यं कौलीनिः, तस्य छात्त्राः, इञो लुकि कौलीनः;’स्वसुश्च्छः’ , स्वस्रीयः, तस्यापत्यं स्वास्रीयिः, तस्य छात्रा इञो लुकि स्वस्रीयाः ? नैतान्युदाहरणानि; ठब्राह्मणाद् गोत्रमात्राद्यौवप्रत्ययस्योपसङ्ख्यानम्ऽ इतीञो लुकि कृते श्वशुर्यः पिता श्वशुर्यः पुत्रः, कुलीनः पिता कुलीनः पुत्रः, स्वस्रीयः पिता स्वस्रीयः पुत्र इति भवितव्यम् । न च ब्राह्मणगोत्रे कश्चिदवृद्धिनिमितः प्रत्ययः सम्भवति, यत इञि कृते च्छः प्राप्नोति; वृद्धिनिमिते तु गोत्रप्रत्यये नास्ति विशेषः, यतः श्रूयमाणोऽपीञि छेन भवितव्यम् । लुप्तेऽपि तस्मिन् गोत्रप्रत्ययान्तस्यापि वृद्धत्वाच्छेन भवितव्यम्, तद्यथा - औपगवीया इति । तदेवमिञ उदाहरणं न सम्भवतीति स्थितम् । यदि तु पूर्वसूत्रे लौकिकस्य गोत्रस्य ग्रहणं तदा स्यादेवेञ उदाहरणम् । तथा हिश्वशुर्यादिभ्य उत्पन्नस्येञः, सत्यप्यौपसङ्ख्यानिके लुकि तस्य प्राग्दीव्यतीयविवक्षायाम्’गोत्रे’ लुगचिऽ इति प्रतिषेधेन पुनः प्रादुर्भावादिञाश्रयः’वृद्धाच्छः’ स्यात्, यदि तस्य’यूनि लुक्’ इति लुग्न क्रियेत । अतोऽस्मादिञ उदाहरणत्वप्रतिषेधायप्यवसीयते - पारिभाषिकं गोत्रं पूर्वसूत्रे भाष्यकारस्याभिमतमिति । किमर्थं पुनरिदमुच्यते, यावता यूनोऽपिगोत्ररूपे विवक्षिते गोत्रप्रत्ययेनाभिधानातन्निबन्धन एव प्रत्ययो भविष्यति, अर्थप्रकरणादिना च युवविशेषसिद्धिः, अवश्यं चार्थप्रकरणादिनैव विशेषोऽवसातव्यः, आरब्धेऽपियस्मिन्सूत्रे शब्दस्य साधारणत्वात् । न हि ज्ञायते - किं भागवितेश्छात्रा भागविताः ? आहोस्विद्भागवितिकस्येति ? यदा तर्हि विशेषविवक्षा, तदापि भागविता इत्येव यथा स्याद्, भागवितिकीया इति जातुचिन्मा भूदित्येवमर्थमिदम् ॥
Nyaas¶
यूनि इति। व्यत्ययो बहुलम् (3.1.85) इति षष्ठर्थे सप्तमी। अत एव वृत्तावाह -युवप्रत्ययस्य इति। अजादौ प्रत्यये विवक्षिते बुद्धिस्य इत्यादिनाऽचीति विषयसप्तमीत्वं दर्शयति। यद्येषां परसप्तमी स्यात्, यत्रापि च्छप्रत्ययो नेष्यते तत्रापि स्यात्। युवप्रत्ययान्तस्य बुद्धत्वादित्यभिप्रायः।फाण्टाह्मतरूप्यम्, फाण्टाह्मतमयम् इति। यद्यत्र लुक् स्यात्, फाण्टाह्मतरूप्यं फाण्टाह्मतमयमिति न स्यात्। भागवित्तिकीयम् इति। प्राक्क्रीतीयच्छः (5.1.1) पूववत्॥