41092: तस्यापत्यम्

Padacheda: तस्य | S | 6 | 1 |

अपत्यम् | S | 1 | 1 |

Sutrartha

षष्ठीसमर्थात् सुबन्तात् ‘अपत्यम्’ अस्मिन् अर्थे अण् प्रत्ययः भवति ।

‘अपत्यम्’ इत्युक्ते पुत्रपौत्रादयः । ‘न पतन्ति नरके पितरः येन, तद् अपत्यम्’ इति अस्य शब्दस्य व्याख्या दीयते । येषां श्राद्धादिकर्मभिः पितराणां नरकात् उद्धरणम् भवति, तानि अपत्यानि । अतः ‘अपत्यम्’ अनेन शब्देन पुत्रपौत्रादीनाम् सर्वेषाम् ग्रहणम् भवति । ‘अपत्यम्’ अस्मिन् अर्थे षष्ठीसमर्थात् सुबन्तात् अण्-प्रत्ययः उत तस्य यथाविहितः अपवादः विधीयते । यथा - 1) ‘उपगोः अपत्यम् पुमान्’ अस्मिन् अर्थे ‘उपगोः’ शब्दात् औत्सर्गिकः अण्-प्रत्ययः भवति - उपगोः + अण् [प्राग्दीव्यतः अण् (4.1.83) इत्यनेन अण्-प्रत्ययः] → उपगु + ङस् + अ [अलौकिकविग्रहः । कृत्तद्धितसमासाश्च (1.2.46) इत्यनेन प्रातिपदिकसंज्ञा] → उपगु + अ [सुपो धातुप्रातिपदिकयोः (2.4.71) इत्यनेन ङस्-प्रत्ययस्य लुक्] → औपगु + अ [तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धिः] → औपगो + अ [ओर्गुणः (6.4.146) इति उकारस्य गुणः] → औपगव [एचोऽयवायावः (6.1.78) इयि अवादेशः] 2) ‘पृथिव्याः अपत्यम् स्त्री’ इत्यस्मिन् अर्थे ‘पृथिवी’ शब्दात् <!पृथिव्याः ञ-अञौ !> अनेन वार्तिकेन अञ्-प्रत्ययः भवति। अत्र प्रक्रिया इयम् जायते - पृथिव्याः + अञ् + ङीप् [<!पृथिव्याः ञ-अञौ !> अनेन वार्तिकेन अञ्-प्रत्ययः । स्त्रीत्वस्य विवक्षायाम् टिड्ढाणञ्… (4.1.15) इति ङीप्-प्रत्ययः] → पृथिवी + अञ् + ङीप् [सुपो धातुप्रातिपदिकयोः (2.4.71) इत्यनेन ङस्-प्रत्ययस्य लुक्] → पार्थिवी + अ + ई [तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धिः] → पार्थिव् + अ + ई [यस्येति च (6.4.148) इति ईकारलोपः] → पार्थिव् + ई [यस्येति च (6.4.148) इति अकारलोपः] → पार्थिवी 3) अश्वपतेः अपत्यम् पुमान् - अश्वपतेः + अण् [अश्वपत्यादिभ्यश्च (4.1.84) इति अण्-प्रत्ययः] → अश्वपति + अण् [सुपो धातुप्रातिपदिकयोः (2.4.71) इत्यनेन ङस्-प्रत्ययस्य लुक्] → आश्वपति + अ [तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धिः] → आश्वपत् + अ [यस्येति च (6.4.148) इति इकारलोपः] → आश्वपत 4) विनतायाः अपत्यम् पुमान् विनतायाः + ढक् [स्त्रीभ्यो ढक् (4.1.120) → विनता + ढक् [सुपो धातुप्रातिपदिकयोः (2.4.71) इत्यनेन ङस्-प्रत्ययस्य लुक्] → विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय-आदेशः] → वैनता + एय [किति च (7.2.118) इति आदिवृद्धिः] → वैनत् + एय [यस्येति च (6.4.148) इति आकारलोपः] → वैनतेय ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रथमः समर्थः ‘तस्य’ इति अस्ति । अतः समर्थानां प्रथमात् वा (4.1.82) इत्यनेन षष्ठीसमर्थात् प्रातिपदिकात् यथाविहितः तद्धितप्रत्ययः भवति । अत्र यद्यपि ‘तस्य’ इति पुंलिङ्ग-नपुंसकलिङ्गयोः एकवचनस्य रूपमस्ति, तथाप्यत्र लिङ्गवचनविभक्तयः सर्वे अविवक्षिताः सन्ति । इत्युक्ते ‘तेषाम्’, ‘तासाम्’, ‘तस्याः’ , ‘मम’, ‘आवयो’ - एतेषां सर्वेषाम् ग्रहणमत्र ‘तस्य’ इत्यनेनैव भवति । 2. ‘अपत्यम्’ अयम् निर्देशः लिङ्गविशिष्टः वचनविशिष्टः वा नास्ति, अतः स्त्रीलिङ्गवाचिनः अपत्यस्य तथा च पुंलिङ्गवाचिनः अपत्यस्य - उभयोः निर्देशार्थम्, तथा च त्रयाणामपि वचनानाम् निर्देशार्थम् अस्य सूत्रस्य प्रयोगः भवितुमर्हति । यथा अ) भानोः अपत्यम् पुमान् एकः = भानवः आ) भानोः अपत्यानि पुमांसः अनेके = भानवाः इ) भानोः अपत्यं स्त्री = भानवी [टिड्ढाण… (4.1.15) इति ङीप्-प्रत्ययः] ई) भानोः अपत्यानि स्त्रियः अनेकाः = भानव्यः 3. वस्तुतः प्राग्दीव्यतीय-अधिकारे तस्य इदम् (4.3.120) इत्यपि किञ्चन सूत्रमस्ति । अतः ‘तस्य अपत्यम्’ अयमर्थः ‘तस्य इदम्’ अनेनापि दर्शयितुम् शक्यते । परन्तु तस्य इदम् (4.3.120) अस्मिन् अर्थे वृद्धसंज्ञकात् वृद्धात् छः (4.2.114) इत्यनेन छ-प्रत्ययः भवति, यः तस्य अपत्यम् (4.1.92) अस्मिन् अर्थे न अपेक्षते । यथा - अ) ‘भानोः इदम्’ इत्यत्र तस्येदम् (4.3.120) अस्मिन् अर्थे वृद्धात् छः (4.2.114) इति छ-प्रत्यये कृते ‘भानवीय’ इति रूपं सिद्ध्यति । आ) ‘भानोः अपत्यम्’ इत्यत्र तस्यापत्यम् (4.1.92) अस्मिन् अर्थे प्राग्दीव्यतोऽण् (4.1.83) इत्यनेन अण्-प्रत्यये कृते ‘भानव’ इति रूपं सिद्ध्यति । अतः एव द्वयोः सूत्रयोः पृथक् रूपेण निर्माणं कृतमस्ति । अस्मिन् विषये वार्त्तिककारः वदति - <!तस्येदमित्यपत्यार्थे बाधनार्थ कृतं भवेत् । उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥!> अत्र वस्तुतः चत्वारि वार्त्तिकानि एकत्र स्थापितानि सन्ति - - तस्येदम् इति अपत्यार्थे = तस्य इदम् (4.3.120) इति सूत्रम् ‘तस्य अपत्यम्’ अस्मिन् अर्थे अपि भवितुमर्हति । - बाधनार्थं कृतं भवेत् = तस्यापत्यम् (4.1.92) इति सूत्रम् तस्य इदम् (4.3.120) इत्यस्य बाधनार्थम् निर्मितमस्ति । इत्युक्ते, तस्य इदम् (4.3.120) इति उत्सर्गः, तस्यापत्यम् (4.1.92) इति अपवादः । - उत्सर्गः शेषे एव असौ = उत्सर्गस्य प्रयोजनम् शेषाधिकारे दृश्यते । - वृद्धानि अस्य प्रयोजनम् = वृद्धसंज्ञकानां विषये अपवादस्य प्रयोजनम् दृश्यते । अस्य सम्पूर्णः अर्थः अयम् = तस्यापत्यम् (4.1.92) इति सूत्रम् तस्य इदम् (4.3.120) इत्यस्य अपवादरूपेण प्रयुज्यते । सामान्यतः शेषाधिकारे तस्य इदम् (4.3.120) इत्यस्य प्रयोगः भवति, परन्तु वृद्धसंज्ञकेभ्यः शब्देभ्यः तस्यापत्यम् (4.1.92) इत्यस्मिन् अर्थे वृद्धसंज्ञकेभ्यः शब्देभ्यः उत्सर्गं बाधितुम् तस्यापत्यम् (4.1.92) इत्यस्य निर्माणं कृतम् अस्ति ।

Sutrartha (English)

To indicate the meaning of ‘his/her offspring’, the word in the षष्ठी विभक्ति gets an appropriate प्रत्यय.

Vasu English Summary

The affix अण् mentioned in प्राग्दीव्यतोऽण् (4.1.83) and those which follow it denote ‘the descendant of someone’.

Vasu English Translation

The affix अण् mentioned in प्राग्दीव्यतोऽण् (4.1.83) and those which follow it denote ‘the descendant of someone’. This sutra points out the meaning of the affixes; and it refers to the affixes that have preceded, beginning from अण् (4.1.83) e. g. अण्, ण्य, अञ् &c and to the affixes that follow. The affixes herein taught have the force of denoting descendant, when they are added to the word in construction which is in the genitive case. The translation given by Dr. Ballantyne of this aphorism is :- “Let the affixes already mentioned or to be mentioned come optionally in the sense of the offspring thereof, after what word ending with the sixth case-affix and having completed its junction (with whatever it may require to be compounded with), is in grammatical relation there to”. Thus we may either use the sentence उपगोरपत्यम्; or by adding आण् (4.1.83) to the word उपगु (which has the 6th. case-affix in construction in the above sentence), form औपगवः “the offspring of Upagu”. आश्वपतः (4.1.84) ‘the offspring of अश्वपति’, दैत्यः (4.1.85) ‘the offspring of Diti’ औत्सः (4.1.86) “the offspring of Utsa”. स्त्रैणः (4.1.87) ‘the offspring of a woman’. पौस्नः (4.1.87) ‘the offspring of a man’.

The Universal sutra तस्येदम् (4.3.120) will include this अपत्य also for the word इदम् may be applied to any-thing like अपत्यं, समूहः, विकारः, निवासः &c. Since by that rule (4.3.120) अण् &c, may be applied in the sense of apatyam also, what is the necessity of this present sutra ? The present sutra is made in order to debar those affixes like छ, (4.3.114) which debar the affix अण् &c in the case of तस्येदम् ॥ How can an अशैषिक affix debar a शैषिक affix? The उत्सर्ग affixes अण् &c are treated like शैषिक for this purpose. Thus these affixes अण् (4.1.83)- (4.1.87) debar the छ in the Vriddham under certain circumstances. Thus भानोरपत्यं = भानवः, so also श्यामगवः from श्यामगुः (श्यामा गावोऽस्य) ॥

Karika

तस्येदमित्यपत्येपि बाधनार्थं कृतं भवेत् । उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥

Bhashya

तस्यापत्यम् (1338) (अपत्यार्थाधिकरणम्) (आक्षेपकं श्लोकवार्तिकम्) तस्येदमित्यपत्येऽपि (भाष्यम्) तस्येदम् (4.3.120) इत्यपत्येऽपि -अण् सिद्धः। तस्येदं विशेषा ह्येते -अपत्यम्, समूहः, विकारः, निवास इति। किमर्थं तर्हीदमुच्यते? (समाधाने श्लोकवार्तिकम्) बाधनार्थं कृतं भवेत्। ये तस्य बाधकस्तद्वाधनार्थम् ॥ (प्रत्याक्षेपभाष्यम्) कथं पुनरशैषिकः शैषिकं बाधेत? (प्रत्याक्षेपसमाधाने श्लोकवार्तिकम्) उत्सर्गः शेष एवासौ (भाष्यम्) यो ह्युत्सर्गः सोऽपि शेष एव॥ (सूत्रफलजिज्ञासाभाष्यम्) अथैतस्मिन्बाधकबाधनार्थे सति किं प्रयोजनम्? (प्रयोजने श्लोकवार्तिकम्) वृद्धान्यस्य प्रयोजनम्॥ (भाष्यम्) वृद्धानि प्रयोजयन्ति -भानोरपत्यं भानवः, श्यामगोरपत्यं श्यामगव इति॥ (आक्षेपभाष्यम्) कथं पुनरिच्छताऽपि -अपवादः प्राप्नुवन् शक्यो बाधितुम्? (समाधानभाष्यम्) तस्य ग्रहणसार्मथ्यात्॥ (प्रत्याक्षेपभाष्यम्) किमिदं भवानध्यारुह्य तस्य ग्रहणस्य प्रयोजनमाह, न पुनः सर्वस्यैव योगस्य। अवश्यमुत्तरार्थमर्थनिर्देशः कर्तव्यः। समर्थविभक्तिरपि तर्हि अवश्यमुत्तरार्था प्रतिनिर्देष्टव्या॥ (समाधानभाष्यम्) एवं तर्हि योगविभागकरणसार्मथ्यात्। इतरथा हि तस्यापत्यमत इञ्ञ् भवतीत्येव ब्रूयात्॥ (आक्षेपभाष्यम्) पुल्लिङ्गेनायं निर्देशः क्रियते, एकवचनान्तेन च। तेन पुंलिङ्गादेवोत्पत्तिः स्यात्, एकवचनान्ताच्च। स्त्रीनपुंसकलिङ्गाद्, द्विवचनबहुवचनान्ताच्चेदं न स्यात्॥ (5257 समाधानवार्तिकम्॥ 1 ॥) - तद्धितार्थनिर्देशे लिङ्गवचनमप्रमाणं तस्याविवक्षितत्वात् - (भाष्यम्) तद्धितार्थनिर्देशे लिङ्गवचनमप्रमाणम्। किं कारणम्? तस्याविवक्षितत्वाद्। नात्र निर्देशस्तन्त्रम्। कथं पुनस्तेनैव च नामनिर्देशः क्रियते, तच्चातन्त्रं स्यात्। तत्कारी च भवांस्तद्द्वेषी च। नान्तरीयकत्वादत्र पुंलिङ्गेन निर्देशः क्रियते, एकवचनान्तेन च। अवश्यं कयाचिद्विभक्त्या केनचिद्वचनेन निर्देशः कर्तव्यः। तद्यथा -कश्चिदन्नार्थी शालिकलापं सतुषं सपलालमाहरति, नान्तरीयकत्वात्। स यावदादेयं तावदादाय तुषपलालान्युत्सृजति। तथा -कश्चिन्मांसार्थी मत्स्यान् सशकलान् सकण्टकानाहरति, नान्तरीयकत्वात्। स यावदादेयं तावदादाय शकलकण्ठकान्युत्सृजति। एवमिहापि नान्तरीयकत्वात्पुंलिङ्गेन निर्देशः क्रियते, एकवचनान्तेन च। न ह्यत्र निर्देशस्तन्त्रम्॥ (5258 आक्षेपवार्तिकम्॥ 2 ॥) - सर्वनामनिर्देशे विशेषाऽसंप्रत्ययः सामान्यनिर्देशात् - (भाष्यम्) सर्वनामनिर्देशे विशेषासंप्रत्ययः। किं कारणम्? सामान्यनिर्देशात्। सर्वनाम्नाऽयं निर्देशः क्रियते। सर्वनाम च सामान्यवाचि। तेन सामान्यवाचिन एवोत्पत्तिः स्याद्, विशेषवाचिनो न स्यात्॥ (5259 समाधानवार्तिकम्॥ 3 ॥) - सामान्यचोदनास्तु विशेषेषु - (भाष्यम्) सामान्यचोदनास्तु विशेषेष्ववतिष्ठन्ते। तद्यथा -गौरनुबन्ध्योऽजोऽग्नीषोमीय इति। आकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते। विषम उपन्यासः। अस्ति कारणं येनैतदेवं भवति। किं कारणम्? असंभवात्। आकृतावारम्भणादीनां संभवो नास्तीति कृत्वा -आकृतिसहचरिते द्रव्ये आरम्भणालम्भनविशसनादीनि क्रियन्ते। इदमप्येवंजातीयकमेव। असंभवात् सामान्यवाचिन उत्पत्तौ विशेषवाचिन उत्पत्तिर्भविष्यति॥ (5260 आक्षेपवार्तिकम् ॥ 4 ॥) - अपत्याभिधाने स्त्रीपुंलिङ्गस्याप्रसिद्धिर्नपुंसकत्वात् - (भाष्यम्) अपत्याभिधाने स्त्रीपुंलिङ्गस्याप्रसिद्धिः। किं कारणम्? नपुंसकलिङ्गत्वात्। अपत्यं नपुंसकलिङ्गम्। तेन नपुंसकलिङ्गस्यैवाभिधानं स्यात्, स्त्रीपुंलिङ्गस्य न स्यात्। ननु चेदं पुरस्तादेव चोदितं परिहृतं च। उत्पत्तिस्तत्र चाद्यते। इह पुनरुत्पन्नेनाभिधानं चोद्यते॥ (5261 समाधानवार्तिकम्॥ 5 ॥) - सिद्धं तु प्रजनस्य विवक्षितत्वात् - (भाष्यम्) सिद्धमेतत्। कथम्? प्रजनस्य विवक्षितत्वात्। प्रजनोऽत्र विवक्षितः। स च सर्वलिङ्गः। (प्रजनशब्दस्य सर्वलिङ्गकाक्षेपेभाष्यम्) किं पुनः कारणं समानायाम्प्रवृत्तौ -अपत्यं नपुंसकलिङ्गम्, प्रजनः सर्वलिङ्गः॥ (5262 समाधानसाधकवार्तिकम्॥ 6 ॥) - एकार्थे शब्दान्यत्वाद् दृष्टं लिङ्गान्यत्वम् - (भाष्यम्) एकार्थे शब्दान्यत्वाल्लिङ्गान्यत्वं दृश्यते। तद्यथा -पुष्यः, तारका, नक्षत्रम्; गेहम्, कुटी, मठ इति। (5263 समाधानसाधकद्वितीयवार्तिकम्॥ 7 ॥) - अवयवान्यत्वाच्च - (भाष्यम्) अवयवान्यत्वाच्च लिङ्गान्यत्वं दृश्यते। तद्यथा -कुटी -कुटीरः, शमी -शमीरः, शुण्डा -शुण्डारः। अवयवान्यत्वात्किल लिङ्गानय्त्वं स्यात्, किं पुनर्यत्र शब्दान्यत्वमपि?

Kashika

अर्थनिर्देशोऽयम्, पूर्वैरुत्तरैश्च प्रत्ययैरभिसंबध्यते। तस्येति षष्ठीसमर्थादपत्यमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। प्रकृत्यर्थविशिष्टः षष्ठ्यर्थोऽपत्यमात्रञ्चेह गृह्यते। लिङ्गवचनादिकमन्यत् सर्वमविवक्षितम्। उपगोरपत्यमौपगवः। आश्वपतः। दैत्यः। औत्सः। स्त्रैणः। पौंस्नः।

तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत्।

उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम्॥

भानोरपत्यं भानवः। श्यामगवः॥

Siddhanta Kaumudi

षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यम् औपगवः । आदिवृद्धिरन्त्योपधावृद्धी बाधते ॥ ।<!तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् , उत्सर्गः शेष एवासौ वृद्धाऽन्यस्य प्रयोजनम् !> (वार्तिकम्) ॥(श्लो.वा.) योगविभागस्तु भानोरपत्यं भानवः । कृतसन्धेःकिम् ? सौत्थितिः । अकृतव्यूहपरिभाषया सावुत्थितिःमाभूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात्किम् ? अपत्यवाचकात् षष्ठ्यर्थे माभूत् । वाग्रहणाद्वाक्यमपि । दैवयज्ञि -(SK1209) इति सूत्रादन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान् ङीष् । औपगवा । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्नः ॥

Laghu Siddhanta Kaumudi

षष्ठ्यान्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः ॥

Balamanorama

तस्यापत्यम् - तस्यापत्यं । तद्धिता इति, प्रत्ययः, परश्चेति चाधिकृतम् । तच्छब्दः सर्वनामतया बुद्धिस्थपरामर्शित्वादुपग्वादिसर्वविशेषबोधकः । तस्य उपग्वादेरपत्यमित्यर्थे तद्धिताः प्रत्ययाः परे भवन्तीति लभ्यते ।कस्मात्परे प्रत्यया भवन्तीत्याकाङ्क्षायांसमर्थानां प्रथमाद्वे॑त्यधिकारात्प्रथमोच्चारितात्समर्थात्तच्छब्दलब्धोपग्वादेरिति लभ्यते । प्रातिपदिकादित्यधिकृतम् ।घकालतनेषु कालनाम्नः॑ इति तरप्तमप्तनेषु तद्धितेषु परतः सप्तम्या अलुग्विधानात्सुपस्तद्धितोत्पत्तज्र्ञापितत्वात्सुप्शिरस्कात्प्रातिपदिकादिति लभ्यते । सुप् चेह तस्येति प्रथमोच्चारिति पदे उपस्थितत्वात्षष्ठएव गृह्रत । ततश्च षष्ठन्तादिति फलति ।सामर्थ्यं कृतसंधिकार्यत्व॑मित्युक्तमेव । तदाह — षष्ठन्तात्कृतसन्धेरिति ।समर्थः पदविधि॑रिति परिभाषया लब्धमाह — समर्थादिति । विशिष्टैकार्थप्रतिपादकादित्यर्थः । सुबन्तात्तद्धितोत्पत्त्या तद्धितविधीनांपदविधित्वादिति भावः । उक्ता इति ।प्राग्दीव्यतोऽ॑णित्याद्या औत्सर्गिका इत्यर्थः । वक्ष्यमाणश्चेति ।अत इ॑ञित्याद्या वैशेषिका इत्यर्थः । वा स्युरिति ।समर्थानां प्रथमाद्वे॑त्यधिकृतत्वादिति भावः ।अपत्यं पौत्रप्रभृति गोत्र॑मित्युत्तरसूत्रव्याख्यावसरेऽपत्यशब्दो व्याख्यास्यते । औपगव इति । उपगोरणि आदिवृद्धिः । ओर्गुणः । अवादेशः । अत्र प्रकृत्यैव उपगोर्लाभादपत्यमेव प्रत्ययार्थ इति स्थितिः । ननु उपगु अ इति स्थिते ओर्गुणात्परत्वात्अचो ञ्णिती॑ति वृद्धिः स्यात्, ओर्गुणस्य ‘पशव्य’ इत्यादौ चरितार्थत्वात् । कृते च गुणे अवादेशे सतिअत उपधायाः इति बृद्धिर्दुर्निवारा । त्वष्टुरपत्यं त्वाष्ट्रः, मघवतोऽपत्यं माघवत इत्यादौ गुणाऽप्रसक्त्या अन्त्योपधावृद्ध्योर्निर्बाधत्वाच्च । नच परत्वादादिवृद्धौ अन्त्योपधावृद्धी बाध्येते इति वाच्यं, विप्रतिषेधे हि परस्य पूर्वबाधकता । नचेह विप्रतिषेधोऽस्ति, देशभेदेनोभयसंभवात् । नाप्यन्त्योपधावृद्ध्योरपवाद आदिवृद्धिरिति वक्तुं शक्यं सुश्रुतोऽपत्यं सौश्रुत इत्यादौ अन्त्योपधावृद्ध्योरप्राप्तयोरप्यादिवृद्धे प्रवृत्तेः । तस्मादादिवृद्धिस्थलेऽन्त्योपधावृद्धी स्यातामित्यत आह — आदिवृद्धिरिति ।अचो ञ्णिती॑त्यन्त्यवृद्धिम्, ‘अत उपधायाः’ इत्युपधावृद्धिः, पुष्करसच्छब्दस्य अनुशतिकादौ पाठात् । तत्र यद्यादिवृद्धिरन्त्योपधावृद्धी न बाधेत, तदा आदिवृद्ध्या उपधावृद्ध्या च पौष्करसादेः सिद्धत्वादनुशतिकादौ पुष्करसच्छब्दपाठोऽनर्थकः स्यात् । अतस्तक्रकौण्डिन्यन्यायात्सत्यपि सम्भवे बाधनं भवतीति विज्ञायत इति भाष्ये स्पष्टम् । तस्येदमित्यपत्येऽपीत्यादि । श्लोकवार्तिकमिदम् । तत्र प्रथमचरणस्यायमर्थः — तस्येदमिति विहितोऽण् अपत्येऽर्थेऽपि भवति, इदमर्थे तस्याप्यन्तर्भावात् । अतस्तस्यापत्यमित्यण्विधानं व्यर्थमित्याक्षेपः । नचअत इ॑ञित्याद्युत्तरसूत्रार्थंतस्यापत्य॑मित्यावश्यकमिति वाच्यम्, एवं हि सति ‘तस्यापत्यमत इ’ ञित्येकमेव सूत्रमस्तु । तथा चतस्यापत्य॑मिति पृथक्सूत्रकरणं व्यर्थमित्याक्षेपः पर्यवस्यति । अत्र समाधत्ते — बाधनार्थं कृतं भवेदिति ।तस्येद॑मित्यणं बाधित्वावृद्धाच्छः इति छोऽपत्ये प्राप्तः, तद्वाधनार्थंतस्यापत्य॑मिति पृथक्सूत्रं कृतमित्यर्थः । ननु ‘वृद्धाच्छः’ इति सूत्रं शेषाधिकारस्थम्, अपत्यादिचतुथ्र्यन्तेभ्योऽन्यः शेषः, तथाच अपत्यार्थस्य शेषाधिकारस्थत्वाऽभावात्, तस्मात्तत्र छप्रत्ययस्याऽप्रसक्तेस्तद्बाधनार्थत्वंतस्यापत्य॑मित्यस्य कथमित्यत आह — उत्सर्गः शेष एवासाविति । उत्सृज्यते अदन्त-बाह्वादिप्रकृतिभ्यो इत्युत्सर्गः । कर्मणि घञ् । अदन्त-बाह्वादिभिन्नप्रकृतिसंबद्धोऽपत्यार्थोऽसौ शेषो भवत्येवेत्यर्थः । आक्षेप्तुर्हि॒तस्याप्तयमत इ॑ञित्येकसूत्रमभिमतम् । विनियुक्तादन्यः शेषः । अदन्त-बाह्वादिप्रकृतिसंयुक्ताऽपत्यार्थ एव विनियुक्तो नतु तद्भिन्नप्रकृतिसंयुक्तापत्यार्थोऽपि । ततस्च तस्य शेषत्वात्तस्मिन्नपत्ये छस्य प्रसक्तत्वात्तद्बाधनार्थंतस्यापत्य॑मिति पृथक्सूत्रम् । सति चास्मिन् पृथक्सूत्रे प्रकृतिसामान्यसंयुक्तापत्यार्थस्योपयुक्तत्वादशेषत्वाच्छस्य न प्राप्तिरित्यप्राप्तिसंपादनद्वारा छबाधकत्वंतस्यापत्य॑मिति पृथक्सूत्रस्य सिद्धम् । अयमप्राप्तबाध इत्युच्यते । नन्वेवमपि उपगोरपत्यमित्यत्र उपगोरवृद्धत्वाच्छस्य नैव प्रसक्तिरिति किं पृथक्सूत्रेणेत्यत आह — वृद्धान्यस्य प्रयोजनमिति । भानोरपत्यं भानव इत्यादौ यानि भान्वादिप्रातिपदिकानि वृद्धानि, यानि उपग्वादिप्रातिपदिकानि नामधेयत्वाद्वृद्धानि, तेभ्यश्छप्रत्ययबाधनार्थंतस्यापत्य॑मिति पृथक्सूत्रमित्यर्थः । ननुतस्येद॑मित्यणि इदन्त्वेन बोधः,तस्यापत्य॑मित्यणि त्वपत्यत्वेन बोध इति शाब्दबोधे वैलक्षण्यसत्त्वात्तस्येदमित्यपत्येऽपि॑ इत्याक्षेप एवाऽयमनुपपन्न इति चेन्न, एतद्वार्तिकभाष्यप्रामाण्येनतस्येद॑मितीदंशब्देन अपत्यस्य इदंत्वेन ग्रहणाऽभावविज्ञानात् ।प्रदीयतां दाशरथाय मैथिली॑ति त्वार्षत्वान्न दुष्यतीत्यास्तां तावत् । कृतसन्धेः किमिति ।समर्थानां प्रथमाद्वे॑त्यधिकारसूत्रस्थसमर्थग्रहणलब्धं कृतसन्धेरित्येतत्किमर्थमिति प्रश्नः । सौत्थितिरिति । सु=शोभन उत्थितः सूत्थितः । प्रादिसमासे सवर्णदीर्घः । सूत्थितस्यापत्यं सौत्थितिः । अत इञ्, सुब्लुक्, आदिवृद्धिः,यस्येति चे॑त्यकारलोपः ।कृतसंधे॑रित्यभावे तु सु-उत्थितैत्यस्यामेव दशायां सवर्णदीर्घात्परत्वादादिवृद्धौ कृतायामावादेशे सावुत्थितिरिति स्यादिति भावः । नन्वन्तरङ्गत्वात्सवर्णदीर्घे कृते तदुत्तरमेव इञ्प्रत्यय उचितः, परादन्तरङ्गस्य बलवत्त्वात् । ततश्च सन्धेः प्राक् तद्धितोत्पत्तेरप्रसक्तेः कृतसन्धेरिति व्यर्थमेवेत्यत आह-अकृतेति । अन्तरङ्गपरिभाषाया अप्यपवादभूतया अक-तव्यूहपरिभाषया सन्धेः प्रागेव प्रत्ययः स्यात् । ततश्च आदिवृद्ध्यपोक्षया अन्तरङ्गोऽपि सवर्णदीर्घोऽकृतव्यूहपरिभाषया आदिवृद्धेः प्राक् न प्रवर्तते । एवञ्च सवर्णदीर्घात्प्रागेवादिवृद्धौ आवादेशे सावुत्थितिरिति स्यादित्यर्थः । नच इञि सति कृते सवर्णदीर्घे ऊकारस्य जायमानया वृद्ध्यासवर्णदीर्घंनिमित्तस्य कस्यचिद्विनाशाऽभावादकृतव्यूहपरिभाषायाः कथमिह प्रवृत्तिरिति वाच्यं,यदि सवर्णदीर्घो न स्यात्तदा सु-उत्थित इत्यवस्थायां सकारादुकारस्य वृद्ध्या औकारे सति सवर्णदीर्घनिमित्तस्य अको विनाशः स्या॑दिति संभावनयाऽकृतव्यूहपरिभाषायाः प्रवृत्तेरिति कथञ्चिद्योज्यम् । वस्तुतस्तु अकृतव्यूहपरिभाषा नास्त्येव , भाष्ये क्वाप्यव्यवह्मतत्वात्, प्रत्युत भाष्यविरुद्धत्वाच्च ।विप्रतिषेधे परं कार्य॑मिति सूत्रभाष्ये हिपरादन्तरङ्गं बलीयः-इत्युक्त्वा सोत्थितिरित्यत्र परामप्यादिवृदिंध बाधित्वा अन्तरङ्ग एक#आदेश इत्युक्तम् । पदस्य विभज्यान्वाख्याने-सु उत्थित इति स्थिते परत्वाद्वृद्धिः प्राप्ता । अन्तरङ्गत्वादेकादेश इति कैयटः । अकृतव्यूहपरिभाषासत्त्वे तदसङ्गतिः स्पष्टैव । ‘सेदुष’ इत्यादावकृतव्यूहपरिभाषाफलस्यान्यथासिद्धिस्तु तत्र तत्र प्रपञ्चितैवेत्यास्तां तावत् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः ।वस्त्रमुपगोरपत्यं चैत्रस्येति । अत्र उपगुशब्दादपत्ये अण्न भवति, उपगोर्वस्त्रेणैवान्वयात् । यद्यपि तत्संबन्ध्येऽपत्ये प्रत्ययविधानादिह च अपत्यस्य तच्छब्दवाच्योपगुसंबन्धाऽभावादेव अत्र प्रत्ययस्य न प्रसक्तिस्तथापि ऋद्धस्य औपगवमित्यादिवारणाय सामर्थ्यमेकार्थीभावलक्षणमाश्रयणीयमिति भावः । अपत्यवाचकादिति । उपगुरपत्यमस्य देवदत्तप्त्येत्यर्थे औपगवो देवदत्त इति माभूदित्यर्थः ।प्रथमा॑दित्युक्तौ तुतस्यापत्य॑मिति सूत्रे षष्ठन्तस्यैव प्रथमोच्चारितत्वादुपगुरिति प्रथमान्तान्न भवतीत्यर्थः । वाग्रहणाद्वाक्यमपीति । वाग्रहणाऽभावे हि तद्धितस्य नित्यत्वादुवगोरपत्यमिति वाक्यं न स्यादिति भावः । ननु उपग्वपत्यमिति कथं षष्ठीसमासः, तद्धितानां समासापवादत्वात् । नच तद्धितानां पाक्षिकत्वात्तदभावपक्षे षष्ठीसमासो निर्बाध इति वाच्यम्,अपवादेन मुक्ते उत्सर्गो न प्रवर्तते॑ इतिपारे मध्ये षष्ठआ वे॑ति वाग्रहणेन ज्ञापितत्वादित्यत आह — देवयज्ञीति सूत्रादिति । जातित्वादिति । अपत्यार्थंकाऽणन्तस्य औपगवशब्दस्य ‘गोत्र च चरणैः सह’ इति जातित्वान्ङीषित्यर्थः । आआपत इति । अआपतेरपत्यमिति विग्रहः । पत्युत्तरपदलक्षणं ण्यं बाधित्वा॒अआपत्यादिभ्यश्चे॑त्यणिति भावः । दैत्य इति । दितेरपत्यमिति विग्रहः ।दित्यदिती॑ति ण्योऽणपवादः । औत्स इति । उत्सः कश्चित्, तस्यापत्यमिति विग्रहः ।उत्सादिभ्योऽ॑ञित्यञ् इञाद्यपवादः । स्वरे विशेषः । स्त्रैणः । पौंस्न इति । स्त्रिया अपत्यं, पुंसो ।ञपत्यमिति विग्रहः ।स्त्रीपुसाभ्या॑मिति नञ्स्नञौ । अणोऽपवादः ।

Tattvabodhini

तस्यापत्यम् - तस्यपत्यम् ।तस्ये ति न स्वरूपग्रहणं, किं तु षष्ठन्तमात्रोपलक्षणमित्याशयेनाह — षष्ठन्तादिति । पञ्चम्यर्थोऽध्याहारलभ्यः । अनुकरणात्पञ्चम्याः सौत्रो लुग्वा । उक्ता इति । अण् ण्यादय उक्ताः । वक्ष्यमाणा इति । इञादयः । ननुउपगु — अ॑ इति स्थिते ओर्गुणात्परत्वात्अचोऽञ्णिती॑ति वृद्ध्या भाव्यं । घुणस्तु पिचव्यादौ सावकाशः । कृते च गुणे अवादेसे चअत उपधायाः॑इति वृद्द्या भाव्यमत आह — आदिवृद्धिरिति । परत्वादिति भावः । अन्त्योपधावृद्द्योरवकाशः -गौः, पाचकः । आदिवृद्धेस्तु — सुश्रुत् । सौश्रुत् । सौश्रुतः ।त्वाष्ट्रो॑जागतः॑इत्यादौ तूभयप्रसङ्गे परत्वादादिवृद्धिरेव भवति । लक्ष्यानुरोधेनात्र सकृद्गतिन्यायस्यैवाश्रयणात् । अनुशतिकादिषु पुष्परसच्छब्दपाठो ह्यत्र लिङ्गम् । अन्यथा आद्युपधावृद्धिभ्यां पौष्करसादेः सिद्धत्वात्तेषु पाठोऽनर्थकः स्यात् । न चपुष्करसदा चरती॑ — त्यर्थे ठकिपौष्करसादिक॑इत्येतदर्थमनुशतिकादिपाठ आवश्यकः, ञिति णित्येव उपधावृद्धिस्वीकारान्न तु कितीति वाच्यम्, अनभिधानाठ्ठगत्र न भवतीत्यादिसमाधानस्य कैयटे स्थितत्वात् । एतेन भिन्नविषये बाध्यबाधकभावो नोपपद्यत इति शङ्का निरस्ता । उक्तज्ञापकेनसत्यपि संभवे बाधनं भवती॑त्यवश्याश्रयणीयत्वात् । नन्वेवमपिजगतः॑इत्यादावुपधावृद्धिर्बाध्यताम्,औपगव॑इत्यत्र त्वादिवृद्धिप्रवृत्तिवेलायामुपधावृद्धेरप्राप्त्या कथं बाधः स्यादिति चेदत्राहुः -॒जागत॑इत्यादावुपधावृद्धेर्बाध्यत्वे निर्णीते, क्वचित्कालान्तरप्राप्ताया अपि तस्या बाध्यत्वौचित्यादिति । स्यादेतत् -यत्रादिबृद्धिर्न जाता तत्राऽन्त्योपधालक्षणा वृद्धिः कस्मान्न भवति । व्यसोर्भावो वैयसवम् ।इगन्ताच्चेत्यण् । व्यापदि भवं वैयापदम् ।तत्र भवः॑इत्यण् । अत्र कैयटः -अत्राप्यैचौ परत्वात्तद्बाधकाविति सर्वेष्टसिद्धिरिति । शाब्दबोधे वैलक्षण्यसत्त्वेऽपि तदनादरेणाक्षिपति ।तस्येदमित्यपत्येऽपि बाधनार्थ कृतं भवेत् । तस्येदमित्यपत्येऽपीति । इदमर्थे अपत्यसमूहविकारादीनामन्तर्भावादपत्येऽपितस्येद॑मित्यण् प्रवर्तत इति किमनेनतस्यापत्य॑मिति सूत्रेणेत्यर्थः । यद्यपिअत इञि॑त्याद्यर्थंतस्यापत्य॑मित्येतद्वक्तब्यन्तथापि योगविभागः किमर्थ इत्याक्षेपोऽत्र बोध्यः । समाधत्ते -बाधनार्थमिति ।तस्येद॑मित्यस्य यद्बाधकंवृद्धाच्छः [इति], तद्बाधनार्थं पृथक् सूत्रं कृतं भवेदित्यर्थ- । ननुतस्येद॑मित्यणस्तदपवियुज्यतवादस्य वृद्धाच्छस्य च शैषिकत्वादपत्यार्थे प्रसक्तिरेव नास्ति,अपत्यादिचतुरर्थीपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः॑ इत्यब्युपगमादत आह — उत्सर्गः शेष एवासाविति । असौ — अपत्यार्थः । अयं भावः — असति योगविभागे अदन्तबाह्वादिप्रकृतिसंबद्धस्यैवाऽपत्यार्थस्योपयोगादुपग्वादिप्रकृतिसंबद्धोऽपत्यार्थः शेष एव स्यात् । तथा चाऽणं बाधित्वा भान्वादिभ्यो वृद्धाच्छः प्रसज्येत । योगविभागे तु कृते प्रकृतिसामान्यसंबद्धस्याप्यपत्यार्थस्योपयोगाच्छेषत्वाऽभावेन छस्य प्राप्तिरेव नास्तीति । ननु उपग्वादेरवृद्धत्वेन छस्य प्रसक्त्यभावान्निष्पलो योगविभाग इत्यत आह -वृद्धानीति ।प्रातिपदिकानी॑ति शेषः । कृतसन्धेः किमिति । अन्तरङ्गत्वात्संधौ कृतायां तदुत्तरमेव प्रत्ययो भविष्यतीत्यधिकारसूत्रस्थं समर्थपदग्रहणं किमर्थमिति प्रश्नः । अकृतेति । इयं च परिभाषा समर्थग्रहणेन ज्ञापितेति हरदत्तादयः, लोकतः सिद्धेत्यन्ये । सावुत्थितिर्माभूदिति । अन्तरङ्गपरिभाषाया अपवादभूतयाअकृते॑त्यनया अकृतसन्धेरेव प्रत्यय स्यात् । तन्निवारणाय समर्थग्रहणधिकरणसूत्रस्थमावश्यकमिति भावः । यद्यपि तत्रसामर्थ्यं परिनिष्ठितत्व॑मित्यविशेषेणोक्तं, तथापि ङ्याप्प्रातिपदिकासे एव परिनिष्ठितत्वं न तु सुब्विशिष्टे इत्यवदेयम् । तेन औपगवो दण्डिमानित्यादि सिद्धम् । अन्यथाऔपगः॑दण्डीमा॑मित्यादि स्यात् ।अइआमानणि॑त्यादिनिर्देशश्चेह लिङ्गम् । यदि तु पामादिगणेविष्वगित्युत्तरपदलोपश्चे॑त्यत्राऽकृतसन्धिग्रहणेनपरिनिष्ठतात्तद्धितोत्पत्ति॑रित्यभ्युपगम्यते, तर्हि व्यर्थमेव समर्थग्रहणमित्याहुः । प्रथमात्किमिति ।तस्यापत्य॑मित्यत्र निर्दिष्टपदद्वयमध्ये प्राथमिकमेव प्रकृतिसमर्पकं, न त्वपत्यम् । तथाच प्रकृत्याकाङ्क्षायांतदेव ग्रहीष्यत इति किं तेनप्रथमा॑दित्येनेनेति प्रश्नः ।

Padamanjari

अर्थनिर्देशोऽयमिति । प्रकृत्यर्थविशिष्टः षष्ठ।ल्र्थोऽपत्यरूपः प्रत्ययार्थोऽनेन निर्दिश्यत इत्यर्थः । तेन समर्थविभक्तेरपि षष्ठ।ल निर्देशो दर्शित एव । पूर्वैरुतरैश्चेति । पूर्वैस्तावदणादिभिः सम्बद्ध्यते; असंयुक्तविधानात्, अन्यथा’तस्यापत्यमत इञ्’ इत्येकं योगमेव कुर्यात्, यतस्त्वसंयुक्तं करोति, ततो ज्ञायते - पूर्वैः सम्बध्यत इति । उतरैरपि सम्बध्यते; स्वरितत्वात्साकांक्षत्वाच्चतेषाम् । तस्येति षष्ठीसमर्थादिति । तस्येति सामान्यं षष्ठ।ल्न्तविशेषोपलक्षणार्थम्,’समर्थानाम्’ इति च निर्द्धारणे षष्ठी । तत्र तुल्यजातीयस्य निर्द्धारणादयमर्थः सम्पद्यते - षष्ठ।ल्न्तात्समर्थादिति । अपत्यमित्येतस्मिन्नर्थ इति । प्रथमान्तस्यापत्यशब्दस्यान्यथासम्बन्धानुपपतेरयमध्याहारो लब्धः । यथाविहितमिति ।’यथार्थे यदव्ययम्’ इति वीप्सायामव्ययीभावः ।’प्राग्दीव्यतो’ ण्ऽ इत्यादिभिर्यो यतो विहितः स तस्मादित्यर्थः । इह’तस्य’ इति पुंनपुंसकयोरन्यतरेणायं निर्देशः क्रियते, एकवचनान्तेन च, तेन लिङ्गान्तराद्वचनान्तराच्च न स्यात् - सुमातुरपत्यं सोमात्रः, क्षत्रस्यापत्यं क्षात्त्रिः, उपगोरपत्यमौपगव इति । अपत्यमिति चैकवचनेन नपुंसकेन च निर्देशः क्रियते, तेनैकस्मिन्नेवापत्ये स्यात्, न द्वयोः, नापि बहुषु, नपुंसक एव स्यात्, न स्त्रीपुंसयोरित्याशङ्क्याह -प्रकृत्यर्थेत्यादि । प्रकृत्यर्थ उपग्वादिर्विशेषः; तस्येत्यस्य विशेषोपलक्षणार्थत्वात् । अपत्यमात्रं चेति । मात्रशब्दोऽयं लिङ्गवचनयोर्व्यवच्छेदाय । लिङ्गवचनादिकमिति । आदिशब्देन कालस्य ग्रहणम्; अत्र हि वर्तमानकालेन निर्देशोऽस्तीति प्रतीतेः, यथोक्तम् - यत्रान्यत्क्रियापदं नास्ति तत्रास्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यत इति । ततश्च तस्य कालस्य विवक्षायतं कालान्तरे न स्यात् । सर्वमविवक्षितमिति । नान्तरीयकत्वादुपादानस्यावश्यं हि केनचिल्लिङ्गादिना निर्देशः कर्तव्यः । तस्येदमित्यपत्येऽपीति । अणादीनां विधानं सिद्धमिति शेषः । तस्येदंविशेषा ह्यपत्यसमूहविकारादयः; सम्बन्धसामान्येऽपि सर्वविशेषान्तर्भावात्, ततश्च’तस्येदम्’ इत्यनेनैवापत्येऽप्यणादीनां विधानं सिद्धम्, तत्किं योगविभागेनापत्येऽणादयो विधीयन्ते, न’तस्यापत्यमत इञ्’ इत्यपवादैः संयुक्त एवापत्यार्थो निर्दिश्यते इति चोद्यार्थं परिहरति - बाधनार्थं कृतं भवेदिति ।’तस्येदम्’ इत्यनेन विधीयमानानामणादीनां यो बाधकश्च्छः, तस्य बाधनार्थमपत्येऽणादीनां विधानं कृतं भवेदित्यर्थः । ननु शैषिकश्च्छः, अपत्यादिचतुर्थपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः, तत्कथमपत्ये च्छस्य प्रसङ्गो येन तद्वाधनार्थमिदम् ? इत्याह - उत्सर्गः शेषं एवासविति । यदि योगविभागमकृत्वा’तस्यापत्यमत इञ्’ इत्युच्येत तदा प्रकृतिविशेषसम्बद्धस्यैवापत्यार्थस्योपयोगः, अतोऽन्योऽपत्यार्थः शेष एव स्यादिति स्यादेव वृद्धादपत्ये च्छः । योगविभागे तु - अपत्यार्थस्याणादिविधावुपयोगाच्छेषत्वाभावाच्छस्याप्राप्तिरेव, सैवात्राप्राप्तिर्बाधेत्युच्यते । उत्सर्ग इति प्रकृतिसामान्यसम्बद्धः सामान्यभूतोऽपत्यर्थ उक्तः । बाधनार्थस्योदाहरणमाह -वृद्धान्यस्य प्रयोजनमिति । श्यअमगव इति । श्यामा गावोऽस्य श्यामगुरिति ॥

Nyaas

पूर्वैरुत्तरैश्च प्रत्ययैरभिसंबध्यते इति। तत्र पूर्वैस्तावदणादिभिः सम्बध्यते; असंयुक्तविधानात्। अस्य यदि पूर्वैरभिसम्बन्धो न भवेत् तस्यापत्यमत इञ् इत्येकयोगमेव कुर्यात्। यतस्तु अत इञ् (4.1.95) इत्यनेन तस्यापत्यम् (4.1.92) इत्येतदसंयुक्तं करोति, ततोऽसंयुक्तविधानात्पूर्वार्थमेतद्विज्ञायत इत्येवं तावत्पूर्वैरभिसम्बध्यते। उत्तरैरप्यभिसम्बध्यते; तेष्वस्य स्वरितत्वात्। तस्य इति। पुंल्लिङ्गेन निर्देशः क्रियते, एकवचनेन च। तेन पुंल्लिङ्गादेवोत्पत्तिः स्यात्, एकवचनान्ताच्च। स्त्रीलिङ्गान्नपुंसकाच्च न स्यात् - देवदत्ताया अपत्यम्, कुलस्यापत्यमेवमादौ न स्यात्। द्विवचनबहुवचनान्ताच्च - द्वयोर्मात्रोरपत्यम्, तिसृणां मातृणामपत्येवमादौ न स्यात्। अथ नपुंसकलिङ्गेनायं निर्देशः? स्त्रीलिङ्गात् पुंल्लिङ्गाच्च न स्यात्। अपत्यमित्येकवचनेऽत्र निर्देशः क्रियते, तेनैकस्मिन्नेवापत्ये स्यात्, न द्वयोर्नापि बहुषु - उपगोरपत्ये औपगवौ; उपगोरपत्यान्यौपगवा इति। एतस्मिन् पूर्वपक्ष इदमाह - प्रकृत्यर्तविशिष्टः इत्यादि। गृह्रते इति वक्ष्यमाणेन सम्बन्धः। प्रकृत्यर्थ उपगवादिशब्दानामर्थः,तेन विशिष्टः षष्ठर्थोऽपत्यापत्यवत्सम्बन्धः। ननु च तस्यात्र तच्छब्दस्य सामान्यवाचिनो ग्रहणम्, तस्य कृत उपगवादिरर्थविशेषः, येन षष्ठर्थो विशिष्यते? तस्येत्यस्य विशेषोपलक्षणत्वाददोषाः। विशेषोपलक्षणत्वं चास्य प्रागेव प्रतिपादितम्। तस्माद्विशेष एवोपग्वादिः प्रकृत्यर्थः। अपत्यमात्रञ्च इति। मात्रशब्दोऽधिकस्य लिङ्गादेव्र्यवच्छेदाय।लिङ्गवचनादिकम् इति। आदिशब्देन कालस्य ग्रहणम्। वर्तमानेन हि कालेनायं निर्देशः क्रियते। यथोक्तम् - यत्रापि साक्षादन्यक्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यते इति। तत्र वर्तमानकालविवक्षायां कालान्तरे न स्यात्। किं पुनः कारणं लिङ्गवचनादि न विवक्ष्यते? तस्याप्रधान्यात्। अवश्यं हि येन केनचिल्लिङ्गादिना निर्देशः कर्तव्य इति, नान्तरीयकत्वात्। तस्येहोपादानम्, यथा - धान्यार्थिनः पलालादेरप्रधानस्यापि।तस्येदम् इत्यादि। तस्येदम् (4.3.120) इत्येतत्सूत्रमपत्यार्थेऽपि वर्तते। यो ह्रुपगोरपत्यमुपगोरसावयमिति शक्यते व्यपदेष्टुम्। तस्येदमित्यस्य विशेषा ह्रेते - अपत्यम्, समूहः, निवासः, विकार इति। ततश्च तस्येदम् (4.3.120) इत्यनेनैवापत्यार्थेऽप्यण् सिद्धः, तत् किमर्थं तस्यापत्यमित्येतत् सूत्रं कृतम्? बाधनार्थम् कृतं भवेत् इति। तस्येदम् (4.3.120) इत्यनेन विधीयमानस्याणो यो बाधकः वृद्धाच्छः (4.2.114) इति च्छः प्राप्नोति, तद्बाधनार्थमिदं कृतम्। एतत्सूत्रविहितेनाणा छप्रत्ययस्य बाधनं यथा स्यात्। कथं पुनरशैषिकः शैषिकं बाधते? अपत्यादिभ्यश्चतुरर्थीपर्यन्तेभ्योऽन्योषडर्थः शैषिकाणां विषयः। अयं चापत्याच्छविषये नास्त्येव। तदसन्नयं कथं छप्रत्ययं बाधिष्यत इत्यत आह - उत्सर्गः शेष एवासौ इति। असत्यस्मिन् योग इत्यभिप्रायः। असावित्यनेन प्रकृतत्वात् तस्यापत्यमित्येषोऽर्थः प्रत्यवमृश्यते। उत्सर्ग उत्पन्नेनाप्यणा स एवार्थ उत्सर्गसाहचर्यादुच्यते। उत्सर्गसाहचर्यन्तु तस्य तत्रोत्सर्गस्याणादेर्विधानात्। इहापि क्रियमाणे तस्यापत्यम् (4.1.92) इत्येतस्मिन् योगे तस्येदम् (4.3.120) इत्येतस्मिन्ननुप्रवेशाद्यथान्यस्तद्विशेषः शेषो भवति तथाऽपत्यार्थोऽपि। अस्ति तस्याप्युपयुक्तापेक्षमन्यत्वम्, चतुरर्थीपर्यन्तेष्वनन्तर्भावात्। ततश्च शेषत्वादपत्यार्थे च्छप्रत्ययः प्राप्नोति। अस्मस्तु योगे **तस्येदम्** (4.3.120) इत्यत्र शेषे नानुप्रविशति; उपयुक्तत्वात्। ततश्चाशेषत्वादपत्ये छप्रत्ययस्य छप्रत्ययस्य प्राप्तिर्नास्त्येव। सैवाप्राप्तिर्बाधनशब्देनोक्ता। अथ बाधनार्थस्यास्य किं प्रयोजनमित्याह - `वृद्धान्यस्य प्रयोजनम् इति। वृद्धानि प्रातिपदिकान्यस्य योगस्य प्रयोजनम्। भानोरपत्यं भानवः, श्यामगोरपत्यं श्यामगव इत्यत्राण् सिद्धो भवति। असति त्वस्मिन् योकेऽपत्यार्थः पूर्वोक्तरीत्या शेषः स्यात्। ततश्च तत्र वृद्धेभ्यचः वृद्धाच्छः (4.2.114) प्रसज्येत॥

Sutra Prayogas

  • पार्वतीपरमेश्वरौ (रघुवंशम्): तस्यापत्यम् इत्यण् प्रत्ययः।

  • राघवं (रघुवंशम्): तस्यापत्यम् इत्यण्प्रत्ययः।

  • कैकेय्याः (रघुवंशम्): तस्यापत्यम् इत्यणि कृते।

  • पार्थिवीम् (रघुवंशम्): तस्यापत्यम् इति अपत्यार्थे अण् प्रत्ययः।

  • पार्वती (कुमारसम्भवम्): तस्यापत्यम् इत्यणप्रत्ययः।

  • वारणध्वनितभीतया (कुमारसम्भवम्): तस्यापत्यम् इति अण्-प्रत्ययः।

  • पार्थो (किरातार्जुनीयम्): तस्यापत्यम् इत्यण्प्रत्ययः।

  • वार्त्रघ्न (किरातार्जुनीयम्): तस्यापत्यम् इत्यण्प्रत्ययः।

  • रावणो (शिशुपालवधम्): तस्यापत्यम् इत्यण्।