41081: दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्

Padacheda: दैवयज्ञि-शौचिवृक्षि-सात्यमुग्रि-काण्ठेविद्धिभ्यः | S | 5 | 3 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix ष्यङ् optionally comes after the words 1. दैवयज्ञि 2. शौचिवृक्षि 3. सात्यमुग्रि and 4. काण्ठेविद्धि ।

Vasu English Translation

The affix ष्यङ् optionally comes after the words 1. दैवयज्ञि 2. शौचिवृक्षि 3. सात्यमुग्रि and 4. काण्ठेविद्धि । These words end in the affix इञ्, and the word gotra is not understood in the sutra. In the case of gotra descendants, the substitute shyan would have come by (4.1.78) but whereas by that sutra it would have been compulsory, the present aphorism makes it optional. But if the sutra be taken to apply to ‘immediate descendants’ as opposed to gotra descendants, then this is a new rule altogether and not a rider to (4.1.87). In the alternative when ष्यङ् is not added, ङीष् will be added by rule (4.1.65) ante. Thus दैवयज्ञ्याor दैवयज्ञी, so also शौचिवृक्ष्या or शौचिवृक्षी, सात्यमुग्र्या or सात्यमुग्री, काण्ठेविद्ध्या or काण्ठेविद्धी ॥

Kashika

दैवयज्ञि शौचिवृक्षि सात्यमुग्रि काण्ठेविद्धि इत्येतेषामन्यतरस्यां ष्यङ् प्रत्ययो भवति। इञन्ता एते, गोत्रग्रहणं च नानुवर्तते। तेनोभयत्रविभाषेयम्। गोत्रे पूर्वेण नित्यः ष्यङादेशः प्राप्तो विकल्प्यते, अगोत्रे त्वनन्तरेऽपत्ये पक्षे विधीयते। तेन मुक्त इतो मनुष्यजातेः (४.१.६५) इति ङीषेव भवति। दैवयज्ञ्या, दैवयज्ञी। शौचिवृक्ष्या, शौचिवृक्षी। सात्यमुग्र्या, सात्यमुग्री। काण्ठेविद्ध्या, काण्ठेविद्धी॥

Siddhanta Kaumudi

एभ्यश्चतुर्भ्यः ष्यङ्वा । अगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे इतो मनुष्य-(SK520) इति ङीष् । दैवयज्ञ्या - दैवयज्ञी । इत्यादि ॥

Balamanorama

दैवयज्ञिशौचिवृक्षिसात्यमुग्रि- काण्ठेविद्धिभ्योऽन्यतरस्याम् - दैवयज्ञीति । देवयज्ञस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङ्विकल्पः । इत्यादीति । शुचिवृक्षस्यापत्यं स्त्री शौचिवृक्ष्या — शौचिवृक्षी । सत्यमुग्रमस्येत्यर्थे — सत्यमुग्रः । निपातनान्मुम् । सत्यमुग्रहस्यापत्यं स्त्री सात्यमुग्रय-सात्यमुग्री । काण्डेन विद्धः काण्डेविद्धः । निपातनादेत्त्वम् । काण्डेविद्धस्यापत्यं स्त्री काण्डेविद्ध्या-काण्डेविद्धी । कण्ठेविद्धीति पाठान्तरम् । *****इति बालमनोरमायामपत्याधिकारः ।*****अथाऽऽर्हीयाः । — — — — —

Tattvabodhini

दैवयज्ञिशौचिवृक्षिसात्यमुग्रि- काण्ठेविद्धिभ्योऽन्यतरस्याम् - दौवयज्ञि । चतुभ्र्य इति ।इञन्तेभ्य॑इति शेषः । देवा यज्ञा यष्टव्या यस्य स देवयज्ञः । शुचिर्वृक्षो यस्य शुचिवृक्षः । सत्यमुग्रं यस्य सत्यमुग्रः । निपातनाद्विशेष्यस्य पूर्वनिपातः, मुमागमश्च । काण्डेन विद्धः कण्ठेविद्धः ।कर्तृकरणे कृते॑ति समासः । निपातनात्काण्डशब्दस्यैकारः । पाठान्तरे कण्ठे विद्धमस्य, कण्ठे वा विद्धः कण्ठेविद्धः ।अमूर्धमस्तकादि ॑त्यलुक् । एभ्यः सर्वेभ्योऽपत्येअत इञ् । गोत्रेऽपि परत्वादिति । तथा चोभयत्र विभाषेति भावः । अत्रेदमवधेयम् — ॒अणिञो॑रिति सूत्रे यदि शास्त्रीयं गोत्रं गृह्रते तदाअगोत्रार्थमिद॑मित्यादिग्रन्थः स्वरसतः सङ्गच्छते । यदि तु लौकिकं गोत्रमेव तत्र गृह्रते तदाअणिञोरि॑ति नित्ये प्राप्ते विकल्पार्थमिदमित्येव व्याख्यातुनुचितमिति ।इत्यपत्याधिकारः तत्त्वबोधिन्याम् ।

Padamanjari

देवा यज्ञा यष्टव्या अस्य देवयज्ञः, शुचिर्वृक्षोऽस्य शुचिवृक्षः, सत्यमुग्रमस्य सत्यमुग्रः, निपातनाद्विशेष्यस्य पूर्वनिपातो मुमागमश्च, कण्ठे विद्धमस्य कण्ठे विद्धमस्य कण्ठे वा विद्धः, ठमूर्द्धमस्तकात्ऽ इत्यलुक् । काण्डेविद्भिभ्य इत्यन्ये पठन्ति, काण्डेन विद्धः,’कर्तृकरणे कृता बहुलम्’ इति समासः, निपातनात्काण्डशब्दस्यैकारः । सर्वे इञन्ताः ॥

Nyaas

गोत्रे पूर्वेण नित्यः इत्यादि। यदा पौत्रप्रभृतावपत्य इञ् विधीयते तदा पूर्वेण अणिञोः (4.1.78) इत्यादिना नित्ये प्राप्ते विकल्प्यते। यदा त्वनन्तरापत्ये तदाऽप्राप्त एव पक्षे विधीयते॥

Prakriyasarvasvam

इञन्तेभ्य एभ्यः स्त्रियां ष्यङ्प्रत्ययो वा स्यात् । दैवयज्ञ्या दैवयज्ञीत्यादि । इञन्ताद् ‘इतो मनुष्यजातेः’ (४-१-६५) इति ङीष् । इति ॥ अथ प्राग्दीव्यतीयसाधारणा उच्यन्ते—