41082: समर्थानां प्रथमाद्वा

Padacheda: समर्थानाम् | S | 6 | 3 |

प्रथमात् | S | 5 | 1 |

वा | S | 0 | 0 |

Sutrartha

समर्थेषु यः प्रथमः, तस्मात् परः तद्धितप्रत्ययः विकल्पेन विधीयते ।

अस्य सूत्रस्य अर्थम् ज्ञातुमादौ सूत्रे प्रयुक्तस्य प्रत्येकम् शब्दस्य अर्थम् पश्यामः । 1) ‘समर्थः’ - किं नाम समर्थः ? महाभाष्ये पतञ्जलिमहर्षिः वदति - ‘किम् पुनः समर्थम्, अर्थाभिधाने यत् समर्थम् । किं पुनस्तत्? कृतवर्णानुपूर्वीकं पदम्’ । इत्युक्ते, यैः शब्दैः परस्परसम्बन्धेन कस्यचन अर्थस्य बोधः क्रियते, ते शब्दाः ‘समर्थाः’ सन्ति इत्युच्यते । यथा, ‘राज्ञः पुत्रः’ एतयोः द्वयोः शब्दयोः कश्चन अर्थः ( = राजपुत्रः) प्रकटीभवति, अतः एते शब्दाः समर्थाः सन्ति । परन्तु ‘भवति दर्शनं राज्ञः, पुत्रः चौरस्य धावति’ अस्मिन् वाक्ये ‘राज्ञः’ अयं शब्दः ‘दर्शनम्’ अनेन शब्देन सह अर्थं निर्देशयति, ‘पुत्रः’ अनेन शब्देन सह न (‘पुत्रः’ अयम् शब्दः तु ‘चौरस्य’ अनेन सह अर्थं निर्देशयति) । अतः अस्मिन् वाक्ये ‘राज्ञः’ तथा ‘पुत्रः’ एतौ समर्थौ न स्तः । सामान्यभाषायाम् यदि द्वयोः पदयोः मध्ये अन्वयः अस्ति, तर्हि तयोः पदयोः कश्चन अर्थः जायते । अस्याम् स्थितौ ते द्वे पदे ‘समर्थे’ स्तः इत्युच्यते । अस्मिन् विषये कौमुद्यामुच्यते - ‘कृतसंधिकार्यत्वमिति’ । इत्युक्ते, सन्धिकार्याद् अनन्तरमेव पदानाम् ‘समर्थ’ इति संज्ञा करणीया । अयमेव आशयः ‘कृतवर्णानुपूर्वीकं पदम्’ इत्यनेन महाभाष्ये निर्दिश्यते । 2) ‘समर्थानाम् प्रथमः’ - इयम् निर्धारणषष्ठी अस्ति (यतश्च निर्धारणम् (2.3.41) इत्यनेन निर्धारणे षष्ठ्याः प्रयोगः भवितुमर्हति) । वाक्ये उपस्थितेषु सर्वेषु समर्थेषु पदेषु यः प्रथमः उच्चार्यते, सः शब्दः अत्र ‘प्रथमः’ इत्यनेन निर्दिश्यते । कस्मिन् वाक्ये? अर्थज्ञापकम् यत् सूत्रम्, तस्मिन् वाक्ये । यथा तस्य अपत्यम् (4.1.92) इत्यस्मिन् वाक्ये ‘तस्य’ तथा ‘अपत्यम्’ एतयोर्मध्ये अन्वयसम्बन्धः अस्ति, अतः एतौ समर्थौ स्तः । एतेभ्याम् ‘तस्य’ इति प्रथमः शब्दः अस्ति, अतः अयम् ‘समर्थानाम् प्रथमः’ अस्ति इत्युच्यते । तथैव, तेन रक्तं रागात् (4.2.1) इत्यत्र ‘तेन’ इति प्रथमः समर्थः । सा अस्य देवता (4.2.24) इत्यत्र ‘सा’ इति प्रथमः समर्थः । एतादृशमर्थज्ञापकेषु सूत्रेषु यः शब्दः आचार्येण प्रथमस्थाने स्थापितः अस्ति, सः ‘प्रथम’संज्ञकः भवति । 3) ‘समर्थानाम् प्रथमात्’ - अत्र ‘प्रथमात्’ इति निमित्तम् । अतः यः प्रथमः समर्थः, तस्मात् परः (यथानिर्दिष्टः) तद्धितप्रत्ययः विधीयते - इति अस्य अर्थः । यथा, तस्यापत्यम् (4.1.92) अस्मिन् अर्थे ‘विनतायाः अपत्यम्’ इत्यत्र स्त्रीभ्यो ढक् (4.1.120) अनेन सूत्रेण ‘ढक्’-प्रत्ययः भवति । तस्यापत्यम् (4.1.92) अस्मिन् अर्थे ‘तस्य’ इति प्रथमः समर्थः अस्ति, अतः तेन निर्दिष्टः यः ‘विनतायाः’ शब्दः, तस्मात् परः तद्धितप्रत्ययः भवति । इत्युक्ते - विनतायाः अपत्यम् = विनतायाः + ढक् = वैनतेय । 4) ‘वा’ - एतत् अव्ययम् । विकल्पं दर्शयितुमस्य प्रयोगः भवति । अतः ‘तद्धितप्रत्ययाः विकल्पेनैव विधीयन्ते’ इति अनेन ज्ञायते । अतः ‘विनतायाः अपत्यम्’ इत्यपि साधु प्रयोगः, ‘वैनतेयः’ इत्यपि च साधु प्रयोगः । अतः अस्य सूत्रस्य अर्थः भवति - अर्थज्ञापकसूत्रे यत् प्रथमम् समर्थम् पदम्, तेन निर्दिष्टात् शब्दात् यथानिर्दिष्टः तद्धितप्रत्ययः विकल्पेन भवति । अत्र केचन बिन्दवाः विशेषरूपेण ज्ञातव्याः - 1. समर्थेषु कः प्रथमः तत् ज्ञातुम् ‘अर्थज्ञापकसूत्रं’ द्रष्टव्यम्, न हि ‘प्रयोगवाक्यम्’ । यथा, तस्यापत्यम् (4.1.92) इत्यत्र प्रथमः समर्थः ‘तस्य’ इति अस्ति, अतः प्रयोगे ‘विनतायाः अपत्यम्’ उत ‘अपत्यम् विनतायाः’ - द्वयोः अपि वाक्ययोः तद्धितप्रत्ययः तु ‘विनतायाः’ शब्दादेव भवति । ‘अपत्यम् विनतायाः - इत्यत्र प्रथमः शब्दः तु अपत्यमस्ति, अतः तस्मात् तद्धितप्रत्ययः भवेत्’ - एतादृशम् न चिन्तनीयम्, यतः ‘प्रथमः समर्थः कः’ एतत् अर्थज्ञापकसूत्रात् (इत्युक्ते, तस्यापत्यम् (4.1.92) इत्यस्मात्) एव ज्ञायते, न हि प्रयोगवाक्यात् (इत्युक्ते विनतायाः अपत्यम् / अपत्यम् विनतायाः इत्यस्मात् ) 2. अनेन सूत्रेण एतत् स्पष्टं भवति, यत् तद्धितप्रत्ययः ‘समर्थेभ्यः’ एव भवन्ति, केवलप्रातिपदिकेभ्यः न । इत्युक्ते, ‘विनता’ शब्दात् ढक्-प्रत्ययः न विधीयते, अपितु ‘विनतायाः’ अस्मात् शब्दादेव ढक् प्रत्ययः विधीयन्ते । प्रक्रियायाम् ‘विनतायाः’ शब्दस्य ‘विनता + ङस्’ एतादृशमलौकिकविग्रहं कृत्वा सुपो धातुप्रातिपदिकयोः (2.4.71) इत्यनेन ङस्-प्रत्ययस्य लुक्-कृत्वा अग्रे विनता-शब्दात् ढक्-प्रत्ययविधानम् भवति । सम्पूर्णा प्रक्रिया इयम् - विनतायाः + ढक् [ तस्यापत्यम् (4.1.92) अस्मिन् अर्थे स्त्रीभ्यो ढक् (4.1.120) इत्यनेन ढक्-प्रत्ययविधानम् । समर्थानां प्रथमाद्वा (4.1.82) इत्यनेन ‘विनतायाः’ शब्दात् ढक्-प्रत्ययः भवति ।] → विनता + ङस् + ढक् [विनता-शब्दस्य अलौकिक-विग्रहः ] → विनता + ङस् + ढक् [‘ढक्’ इति तद्धितप्रत्ययः अस्ति, अतः ‘विनता + ङस् + ढक्’ इत्यस्य कृत्तद्धितसमासाश्च (1.2.46) इत्यनेन प्रातिपदिकसंज्ञा भवति ।] → विनता + ढक् [सुपो धातुप्रातिपदिकयोः (2.4.71) इति प्रातिपदिके स्थितस्य ङस्-प्रत्ययस्य लुक्] → विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः] → वैनता एय [किति च (7.2.117) इति आदिवृद्धिः] → वैनत् + एय [एकारे परे यचि भम् (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च (6.4.148) इति अङ्गस्य अकारस्य लोपः] → वैनतेय सर्वत्र वस्तुतः एतादृशी एव प्रक्रिया लेखनीया । परन्तु सुप्-प्रत्ययस्य लोपात् अनन्तरम् तद्धितप्रत्ययाः प्रातिपदिकेभ्यः एव प्रयुक्ताः दृश्यन्ते, अतः प्रक्रियालेखनसमये अपि सामान्यरूपेण ते प्रातिपदिकेभ्यः एव विहिताः दर्श्यन्ते । 3. सन्धिकार्यात् अनन्तरमेव तद्धितप्रत्ययविधानम् भवति, पूर्वम् न । यथा, ‘सु उत्थितस्य अपत्यम्’ इत्यत्र अत इञ् (4.1.95) इत्यनेन यः इञ्-प्रत्ययः विधीयते, सः ‘सु + उत्थितस्य’ एतत् सन्धिकार्यम् कृत्वा यः ‘सूत्थितस्य’ शब्दः सिद्ध्यति, तस्मादेव विधीयते, केवल-‘उत्थितस्य’ शब्दात् न । अतः अस्य प्रत्ययस्य प्रयोगेण ‘(सु + उत्थितस्य) + इञ् → सौत्तिथि’ एतत् प्रातिपदिकम् सिद्ध्यति, न हि ‘सु + (उत्तिथस्य + इञ्) → स्वौत्तिथि’ इति, न हि च ‘(सु + उत्तिथस्य + इञ्) → सावुत्तिथि’ इति । 4. इदम् सूत्रम् ‘प्रातिपदिकात्’ अस्मिन् अधिकारे निर्दिष्टमस्ति । अत्र ‘प्रातिपदिकात्’ इत्यस्य अन्वयः प्रत्ययज्ञापकेषु सूत्रेषु यः पञ्चम्यन्तः शब्दः, तेन सह क्रियते । यथा, अत इञ् (4.1.95) अस्मिन् प्रत्ययज्ञापके सूत्रे यः ‘अतः’ इति पञ्चम्यन्तशब्दः, तेन सह ‘प्रातिपदिकात्’ इत्यस्य अन्वयः भवति । ‘अतः प्रातिपदिकात्’ (इत्युक्ते अदन्त-प्रातिपदिकात्) निर्मितम् यद् सुबन्तम्, तस्मात् शब्दात् अञ्-प्रत्ययः भवति - इति अस्य अर्थः । ‘अतः प्रातिपदिकात्’ इत्यस्य अर्थः ‘अदन्तात् प्रातिपदिकात् तद्धितप्रत्ययः भवति’ एतादृशः न भवति । 5. यदि द्वयोः शब्दयोः मध्ये सामर्थ्यम् नास्ति, तर्हि तद्धितप्रत्ययः अपि न प्रयोक्तव्यः । यथा, ‘ कम्बलमुपगोः, अपत्यं देवदत्तस्य’ अस्मिन् वाक्ये ‘उपगोः’ शब्दस्य सामर्थ्यम् ‘कम्बलम्’ शब्देन सह अस्ति, न हि ‘अपत्यं’ शब्देन सह । इत्युक्ते, अत्र ‘उपगोः, अपत्यम्’ इत्यनेन कोऽपि अर्थः न निर्दिश्यते । अतः अत्र तद्धितप्रत्ययस्य प्रयोगः न भवति । 6. वर्तमानसूत्रमधिकारसूत्रमस्ति । अस्मिन् सूत्रे ‘समर्थानाम्’, ‘प्रथमाद्’, तथा ‘वा’ एते त्रयः शब्दाः सन्ति । एतेषामधिकारः पञ्चमाध्यायस्य द्वितीयपादस्य परिसमाप्तिपर्यन्तं वर्तते । इत्युक्ते, पञ्चमाध्यायस्य द्वितीयपादं यावत् ये सर्वे प्रत्ययाः उच्यन्ते, ते सर्वे ‘समर्थेषु यः प्रथमः, तेन निर्दिष्टात् पदात् विकल्पेन भवन्ति’ इति ज्ञातव्यम् । तदनन्तरम् केवलं ‘वा’ इत्यस्यैव अधिकारः प्रचलति, ‘समर्थानाम्’ तथा ‘प्रथमात्’ एतयोः अधिकारः निवर्तते । अतः पञ्चमाध्यायस्य अन्तिमद्वयोः पादयोः प्रोक्ताः तद्धितप्रत्ययाः यद्यपि विकल्पेनैव भवन्ति, तथापि तेषां प्रयोगार्थम् सामर्थ्यम् न आवश्यकम् । 7. वर्तमानसूत्रेण उक्तः विकल्पः तद्धिताधिकारे प्रायः सर्वत्र विधीयते । अयम् विकल्पः ‘महाविभाषा’ इति नाम्ना अपि ज्ञायते । 8. अस्मिन् सूत्रे काशिकाकारः वदति - ‘पूर्वसूत्रात् अन्यतरस्यां ग्रहणमनुवर्तते’ । इत्युक्ते, दैवयज्ञिशौचि.. (4.1.81) अस्मात् सूत्रात् अत्र ‘अन्यतरस्याम्’ इत्यपि अनुवर्तते । किमस्य प्रयोजनम्? यदि समासः भवितुमर्हति, तर्हि सः समासः अपि विकल्पेन भवेत्, इति निर्देशं कर्तुम् इयमनुवृत्तिः आवश्यकी । अतः यत्र समासः सम्भवति, तत्र समस्तपदमपि कर्तुं शक्यते, तद्धितप्रत्ययस्य प्रयोगमपि कर्तुं शक्यते, तथा च किमपि न कृत्वा केवलवाक्यस्यापि प्रयोगं कर्तुं शक्यते । यथा, ‘उपगोः अपत्यम्’ इत्यस्य त्रिविधं प्रयोगं भवितुमर्हति - क) उपगोः अपत्यम् ख) (समासे कृते) उपग्वपत्यम् ग) (तद्धितप्रयोेगे) औपगवम् । यदि अत्र ‘अन्यतरस्याम्’ इत्यस्य अनुवृत्तिः न कुर्मः, तर्हि तद्धितविधिः समासविधिम् बाधेत । परन्तु ‘अन्ततरस्याम्’ इत्यस्य ग्रहणेन समासवृत्तेः प्रयोगः अपि भवितुमर्हति ।

Sutrartha (English)

The word indicated by the first समर्थ present in the अर्थज्ञापकसूत्र gets the तद्धितप्रत्ययः optionally.

Vasu English Summary

The तद्धित affixes, on the alternative of their being used at all, comes after the word that is signified by the first of the words in construction in a sūtra.

Vasu English Translation

The तद्धित affixes, on the alternative of their being used at all, comes after the word that is signified by the first of the words in construction in a sūtra. All the three words, viz. (1) समर्थानां ‘of the words in construction’ (2) प्रथमात् ‘after the first’; (3) वा ‘on the alternative’, exert a governing influence on the subsequent aphorisms, up to the aphorisms which leave to the words their own denotation : that is to say, up to the end of the second chapter of the fifth Book; before the beginning of the sutra प्राग्दिशो विभक्तिः (5.3.1). The present sutra as a whole, of course, has no applicability to the affixes which leave to the words their own denotation (स्वार्थिक); for the latter affixes are in many cases compulsory and not optional, as are the affixes to be taught hereafter in Book Fourth and the first and second chapters of Book Fifth.

These affixes will come after the word, that is signified by the first of the words in construction, in an aphorism. Thus (4.1.92) declares तस्यापत्यम् ‘his son’. Here the first word is तस्य ‘his’, therefore, the affixes forming the patronymics will come after the word signified by ‘his’: i.e. after the word in the genitive case. As उपगोरपत्यं = ओपगवः ‘the son of Upagu’. Here the affix अण् comes after the word उपगु which is the first word representing ‘tasya’ in the genitive case in the sentence उपगोरपत्यम् ॥ Similarly in the sutra तेनरक्त रागात् (4.2.1); here the first word is तेन, therefore, the affix will be added to the word in the instrumental case in a sentence representing the word तेन ‘by which’; as कषायेण रक्तं वस्त्रं = काषायं, ‘Kashaya is a cloth, coloured by Kashaya’. Similarly in sutra तत्र भवः ‘there staying’ (4.3.53) here the first word is तत्र, ‘there’, in the locative case, therefore the affix will be optionally added to the word in the locative case in a sentence, representing the word तत्र ‘there’ : as स्रुघ्ने भवः = स्रौघ्नः “who stays in Srughna’.

The word समर्थानाम् is the genitive plural of समर्थ, and the force of the genitive is that of specification or ‘nirdharana’:- i. e. ‘among the words in construction, the first is specifically pointed out as the prakriti or base, to which the affix is to be added’. Why do we say “among the words in construction”? Witness कम्बल उपगोरपत्यं देवदत्तस्य ‘the blanket of Upagu; the son of Devadatta’. Here the two words उपगोरपत्यं are not in construction, for उपगोः governs कम्बलः, and अपत्यं is governed by देवदत्तस्य ॥ Why do we say “after the first”? So that the affix may come after the first word उपगोः in the genitive case, and not after अपत्यं which is in the nominative case, Why do we say “in the alternative” ? Because the same idea may also be expressed by a sentence; thus we may say उपगोरपत्यं, instead of the Taddhita formed word औपगवः ॥ The same idea may also be expressed by a compound word (samasa); as उपग्वपत्यम् ‘the son of Upagu’. In fact, the samasa rule here is not superseded by * Taddhita*-rule, as it otherwise would have been by (1.4. 2.) because the anuvritti of अन्यतरस्याम् is understood here: so that in the alternative when the Taddhita affix is not employed, the samasa rules will find scope.

This sutra has been thus rendered by Dr. Bohtlingk: “when hence forth the meaning is specified in which an affix is to be added, then one should know that the rule applies to the first of those words which are associated with one another in sense, and that the affix is optional”.

Bhashya

समर्थानां प्रथमाद्वा (1328) (अधिकाराधिकरणम्) (पदकृत्यभाष्यम्) समर्थवचनं किमर्थम्? समर्थादुत्पत्तिर्यथा स्यात् -उपगोरपत्यम्। असमर्थान्मा भूदिति -कम्बल उपगोरपत्यं देव दत्तस्येति॥ (5224 पूर्वपक्षवार्तिकम्॥ 1 ॥) - समर्थवचनमनर्थकम्, न ह्यसमर्थेनार्थाभिधानम् - (भाष्यम्) समर्थवचनमनर्थकम्। किं कारणम्? नह्यसमर्थेनार्थाभिधानम्। नह्यसमर्थादुत्पद्यमानेन प्रत्ययेनार्थाभिधानं स्यात्। अनभिधानात्तत उत्पत्तिर्न भविष्यति॥ (पदकृत्यभाष्यम्) अथ प्रथमवचनं किमर्थ? प्रथमवचनं प्रकृतिविशेषणार्थम्। प्रथमात्प्रत्ययोत्पत्तिर्यथा स्यात्, अप्रथमान्मा भूत्-उपगोरपत्यमिति अपत्यशब्दात्॥ (5225 पूर्वपक्षवार्तिकम्॥ 2 ॥) - प्रथमवचनमनर्थकं न ह्यप्रथमेनार्थाभिधानम् - (भाष्यम्) प्रथमवचनमनर्थकम्। किं कारणम्? न ह्यप्रथमेनार्थाभिधानम्। न ह्यप्रथमादुत्पद्यमानेन प्रत्ययेनार्थस्याभिधानं स्यात्, अनभिधानात्तत उत्पत्तिर्न भविष्यति॥ (पदकृत्यभाष्यम्) अथ वावचनं किमर्थम्? वाक्यमपि यथा स्यात्-उपगोरपत्यमिति॥ (5226 पूर्वपक्षवार्तिकम्॥ 3 ॥) - वावचने चोक्तम् - (भाष्यम्) किमुक्तम्? तत्र तावदुक्तं वावचनानर्थक्यं च, तत्र नित्यत्वात् सन इति। इहापि वावचनमनर्थकम्। किं कारणम्? तत्र नित्यत्वात्प्रत्ययस्य॥ (वावचनप्रत्याख्यानसमर्थकभाष्यम्) इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्च। स्वभावतश्चैतद्भवति -वाक्यं च वृत्तिश्च। तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किमन्यच्छक्यमभिसम्बन्धुमन्यदतः संज्ञायाः, न च संज्ञाया भावाभावाविष्येते। तस्मान्नार्थो वावचनेन॥ (सिद्धान्तभाष्यम्) अथैतत्समर्थग्रहणं नैव कर्तव्यम्। कर्तव्यं च। किं प्रयोजनम्? समर्थादुत्पत्तिर्यथा स्यादसमर्थान्मा भूदिति। किं पुनः समर्थम्? अर्थाभिधाने यत्समर्थम्। किं पुनस्तत्? कृतवर्णानुपूर्वीकं पदम् -सौत्थितिः, वैक्षमाणिरिति॥ (वावचने सिद्धान्तभाष्यम्) अथ तद्वावचनं नैव कर्तव्यम्। कर्तव्यं च। किं प्रयोजनम्? नित्याः शब्दाः, नित्येषु शब्देषु वाक्यस्य साधुत्वमनेनान्वाख्यायते॥

Kashika

त्रयमप्यधिक्रियते समर्थानामिति च, प्रथमादिति च, वेति च। स्वार्थिकप्रत्ययावधिश्चायमधिकारः, प्राग् दिशो विभक्तिः**(५.३.१) इति यावत्। स्वार्थिकेषु ह्यस्योपयोगो नास्ति, विकल्पोऽपि तत्रानवस्थितः। केचिन्नित्यमेव भवन्ति। लक्षणवाक्यानि **तस्यापत्यम् (४.१.९२) तेन रक्तं रागात् (४.२.१) तत्र भवः (४.३.५३) इत्येवमादीनि भविष्यन्ति। तेषु सामर्थ्ये सति प्रथमनिर्दिष्टादेव विकल्पेन प्रत्ययो भवतीति वेदितव्यम्। समर्थानामिति निर्धारणे षष्ठी। समर्थानां मध्ये प्रथमः प्रत्ययप्रकृतित्वेन निर्धार्यते। तस्येति सामान्यं विशेषलक्षणार्थम्, तदीयं प्राथम्यं विशेषाणां विज्ञायते। उपगोरपत्यम्, औपगवः। समर्थानामिति किम्? कम्बल उपगोः, अपत्यं देवदत्तस्य। प्रथमादिति किम्? षष्ठ्यन्ताद् यथा स्यात् प्रथमान्ताद् मा भूत्। वेति किम्? वाक्यमपि हि यथा स्यात् — उपगोरपत्यमिति। यद्येवं समासवृत्तिस्तद्धितवृत्त्या बाध्येत उपग्वपत्यमिति। नैष दोषः। पूर्वसूत्रादन्यतरस्यांग्रहणमनुवर्तते। तेनैतदपि भविष्यति॥

Siddhanta Kaumudi

इदं पदत्रयमधिक्रियते । प्राद्गिश- इति यावत् । सामर्थ्यं परिनिष्ठितत्वम् । कृतसन्धिकार्यत्वमिति यावत् ॥

Laghu Siddhanta Kaumudi

इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत्॥

Balamanorama

समर्थानां प्रथमाद्वा - तदेवं समासप्रप्चं निरूप्य तद्धितप्रकरणमारभते — समर्थाना प्रथमाद्वा । विधेयस्याऽदर्शनान्नायं स्वतन्त्रविधिरिति मत्वाह — इदं पदत्रयमधिक्रियत इति । स्वरितत्वप्रतिज्ञाबलादिति भावः । अधिकारस्योत्तरावधिमाह — प्राग्दिश इति यावदिति ।प्राग्दिसो विभक्ति॑रिति सूत्रमुत्तरावधिरित्यर्थःसमर्थाना॑मिति निर्धारणषष्ठी । प्राथम्यं चतस्यापत्य॑मित्यादितत्तत्सूत्रेषु प्रथमोच्चारितत्वम् । समर्थानां मध्ये प्रथमोच्चारितादित्यर्थः ।समर्थात्प्रथमाद्वे॑ति सुवचम् । केचित्तु बहुवचनबलादनेकसमर्थसमवाय एवास्य प्रवृत्तिः । एवंच ‘प्राग्दिशः’ इत्यादिषु स्वार्थिकप्रत्ययविधिषु नाऽस्य प्रवृत्तिरिति लभ्यते इत्याहुः ननु सुबन्तात्तद्धितोत्पत्तेर्वक्ष्यमाणत्वेन तद्धितविधीनां पदविधितयासमर्थः पदविंधि॑रिति परिभाषयैव एकार्थीभावरूपसामर्थ्यलाभादिह समर्थग्रहणं व्यर्थमित्यत आह — सामर्थ्यं परिनिष्ठितत्वमिति । समर्थः पटुः शक्त इति पर्यायाः । शक्तत्वं च कार्योत्पादनयोग्यत्वम् । शब्दस्य च कार्यमर्थप्रतिपादनमेव । तच्छक्तत्वं च कृतेष्वेव सन्धिकार्येषु संभवति । तथाच कृतसन्धिकार्यत्वमेव सामर्थ्यमिह पर्यवस्यति । तदाह — कृतसन्धिकार्यत्वम#इति ।

Tattvabodhini

समर्थानां प्रथमाद्वा - अपवादसङ्गत्या तद्धितान्विवक्षुस्तदीयमधिकारसूत्रमाह — समर्थानामिति ।अन्यतरस्याङ्ग्रहणानुवृत्तेः समासोऽपी॑ति वक्ष्यमाणमूलग्रन्थेन समासापवादत्वं सूचितम् । विधेयाऽनिर्देशादुत्तरत्र प्रकृतिविशेषकाङ्क्षासत्त्वाच्चनाऽयं स्वतन्त्रो विधिरित्याह -अधिक्रियत इति ।पदत्रय॑मित्यनेन प्रत्येकं स्वरितत्वप्रतिज्ञा सूचिता । तत्प्रयोजनं तु कस्यचिन्निवृत्तावप्यपरस्याऽनिवृत्तिः, तथा चप्राग्दिशः॑इति सूत्रेसमर्थानां प्रथमा॑दिति निवृत्तं,वा॑ इति त्वनुवर्तत एव॑ -इति वक्ष्यमाणमूलग्रन्थः सङ्गच्छते ।

Padamanjari

प्रत्येकमत्र पदानां स्वरितत्वं प्रतिज्ञायते, न समुदायस्यैकमित्याह - त्रयमपीति । अत्र च प्रयोजनम् - एकस्य निवृतावपरस्य निवृत्तिर्मा भूदिति । एतदेव स्पष्टयति - समर्थानामिति चेति । स्वाथिंकप्रत्ययावधिश्चायमिति । स्वस्याः प्रकृतेरर्थे भवाः स्वार्थिकाः, अध्यात्मादिः, भाष्यकारप्रयोगाद् द्वारादिकार्याभावः, स्वशब्दस्य तु द्वारादिषु पाठादस्ति प्रसङ्गः । तदादिविधिर्हि तत्र भवति; आद्यज्विशेषणत्वाद् द्वारादीनाम्, यथा - द्वारपालस्येदं दौवारपालमिति । प्राग्दिशो विभक्तिरिति यावदिति । तत आरभ्य हि स्वार्थिकाः प्रत्यया विधीयन्ते, किं पुनः कारणं स्वार्थिकेष्वेष न प्रवर्तते ? इत्याह - स्वार्थिकेष्वित्यादि । तत्र समर्थानामिति सम्बद्धार्थानां चेत्यर्थः । तत्र वाक्ये सम्बद्धार्थता, व्यपेक्षा हि तत्र सामर्थ्यम्, अपेक्षा आकाङ्क्षा, अन्योऽन्यापेक्षाउव्यपेक्षा । अनयाऽऽकाङ्क्षासन्निधियोग्यत्वेषु सत्सु यः सम्बन्धः स लक्ष्यते । वृतौ संसृष्टार्थता । एकार्थीभावो हि तत्र सामर्थ्यम् । वृतौ ह्युपसर्जनपदानि स्वार्थमुपसर्जनीकृत्य प्रधानार्थपराणि भवन्ति, यथा - गङ्गायां गोष इति गङ्गोपसर्जनं तीरमाह । तथौपगव इत्यत्रोपगुशब्दः खार्थोपसर्जनमपत्यमाह । अत एव ऋद्धस्यौपगव इति ऋद्धत्वमुपगोविंशेषणं न भवति । यत्र हि शब्दः पयवस्यति तत्रैव विशेषणसम्बन्धः । यदि च वाक्यवद् वृतावपि खार्थ एव पर्यवस्येतद्वदेव विशेषणसम्बन्धो भवेत्, प्रधानपदान्यप्युपसर्जनविशिष्टमेव खार्थं ब्रुवते । यदि तु वाक्यवद् वृतावपि प्रधानपदानि स्वार्थमेव ब्रुवीरन् ततो यथोपगोरपत्यं देवदतः कल्याणश्चेत्युभाभ्यामपत्यार्थस्य सम्बन्धः, तथौपगवः कल्याणश्चेत्यप्युक्तेस्यात्, न चैवम् । अतो यादृशस्य सम्बन्धस्य भावादयं विशेषः स एकार्थीभावः । न च स्वार्थिकेषु प्रकृत्यर्थादर्थान्तरं सम्भवति यत्प्रत्यायनाय शब्दन्तरं प्रयुज्येत, येन सह समर्थता स्यात् । एतेन प्राथम्यं व्याख्यातम् । अतः प्रतियोग्यपेक्षया सामथ्येप्राथम्ययोरभावात्स्वाथिकेषु नास्योपयोग इति सिद्धम् । विकल्पोऽपि तत्रानवस्थित इति । क्वचित्प्रवर्तते । एतच्चाषडक्षादिसूत्रे वक्ष्यते । इह’प्रथमात्’ इत्येतद्विशेषणं शास्त्रवाक्यगतमाश्रीयते, न विग्रहवाक्यगतम्; अनियतत्वात् । वाक्ये हि प्रयोगोऽनियत इति सर्वेषां प्राथम्यसम्भवात् । कदाचिदपत्यवद्वाचिनोऽपत्ये प्रत्ययः स्यात्, कदाचिदपत्यवाचिनस्तद्वति । अयं च प्रकारोऽसत्यपि’प्रथमात्’ इत्यस्मिल्लभ्यत इत्यनर्थकं तत्स्यात् । ननु च यस्मिन्वाक्ये यत्प्रथमोच्चारितं तस्मिस्तत एव यथा स्यात्, चरमोच्चारितान्मा भूदित्येतत्प्रयोजनं स्यात् ? तन्न; न हि वृत्तिवाक्ययोः सहप्रयोगः, ततश्च वाक्यगते प्राथम्ये व्यवस्थापके सति वृतेः प्रयोगो न नियत इति व्यर्थमेव’प्रथमात्’ इति विशेषणं स्यात्, तस्माच्छास्त्रवाक्यगतमेव प्राथम्यं व्यवस्थापकमित्याह - लक्षणवाक्यानीत्यादि । समर्थानामिति निर्धरणे षष्ठीति । ततश्च निर्धारणस्य तुल्यजातीयविषयत्वात्प्रथमात्समर्थात्प्रत्ययो भवति, तत्र’समर्थात् प्रथमात्’ इति वक्तव्ये’समर्थानां प्रथमात्’ इति वचनं प्रधानपदस्याप्युपसर्जनपदेनैकार्थीभावप्रतिपादनार्थम्; अन्यथा वाक्यवद् वृतादपि प्रधानपदस्यान्येनापि सम्बन्धः शङ्क्येत । यदि तर्हि लक्षणवाक्ये प्रथमोच्चारितात्प्रत्ययः, एवं सति’तस्यापत्यम्’ इत्यादौ सर्वनाम प्रथमनिर्दिष्टमिति तत एव प्रत्ययः स्यात्, नोपग्वादेः, न हि तल्लक्षणवाक्ये प्रथमनिर्दिष्टमित्यत आह - तस्येति । सामान्यमित्यादि विशेषलक्षणम्, विशेषोषलक्षणमित्यर्थः ।’तस्मापत्यम्’ इत्यादौ हि विशेषा एव निर्देअष्टुअमिष्टाः, तेषां तु सर्वेषां प्रत्यकमुपादाने गौरवं स्याद्, एकस्योपादानेऽनुपाताद्विशेषान्तरान्न स्याद्, यथा - अद्भिः संस्कृतमित्यादाविति सर्वेषामुपलक्षणत्वेन तस्येत्यादिकमुपातम् । तस्योपग्वादेरिति । न तु स्वयं कार्यितया, न हि तस्येत्यस्य सामान्यवचनस्य प्रकरणाद्यभावेन विशेषेऽनवस्थितस्यापत्यं प्रति सम्बन्धिविशेषप्रतिपादनेन सग्बन्ध्यन्तरव्यवच्छेदाख्य उपकारः सम्भवति । सम्बन्धिसामान्यंत्वपत्यशब्दस्य सम्बन्धशिब्दत्वादेवावगतम्, अतो यत्सूत्रे साक्षात्प्रथमोच्चारितं सामान्यवाचि न तस्मात्प्रत्ययः, यस्माच्च प्रत्ययो न तत्सूत्रे साक्षात्प्रथमोच्चारितमिति अगत्या उपलक्षणगतं प्राथम्यमुपलक्ष्याणां विज्ञायते । तदाह - तदीयं प्राथम्यं विशेषणां विज्ञायत इति । कम्बल उपगोरित्यादि । यथापत्यशब्दस्य पूर्वपराभ्यां यथेष्टमभिसम्बन्धो भवति, एवमणोऽपि सम्भाव्येतेति भावः । अत्र च प्रत्यये सत्यनर्थकस्यापि समुदायस्य तद्धितान्तत्वेन प्रातिपदिकसंज्ञायामेकत्वाद्यभावेऽपि अव्ययेभ्य इव स्वादयः स्युः । ननु’तस्यापत्यम्’ इति श्रूयमाणसम्बन्ध्यपेक्षायां विभक्तौ विज्ञायमानायां नात्र प्रसङ्गः ? नैतदेवम्; न हि लक्षणवाक्ये विभक्त्युच्चारणम्, सम्बन्धप्रतिपादनार्थसामान्यस्य सम्बन्धासम्भवात्, किं तर्हि ? षष्ठ।ल्न्तात्प्रत्ययविध्यर्थम् । तथापि विशेषोपलक्षणद्वारेण सम्बन्धः स्याद् ? एवमपि ऋद्धस्योपगोरपत्यमित्यादौ सापेक्षादपि स्यादेव । समर्थपरिभाषया तर्हि व्यवस्था भविष्यति ? स्यादेव यद्येतस्मात्सूत्रात्प्रागेव सुबन्तातद्धिता इति व्यवस्थितं स्यात् । इह तु ङ्याप्प्रातिपदिकाधिकारात् षष्ठ।लदिविभक्त्यर्थवृतेस्तत एव तद्धिताः स्युः । सति त्वस्मिन्सम्बन्धप्रतिपतेर्विभक्त्यायतत्वात्सुबन्तादेव तद्धिता भवन्ति, न चैवं सति पदकार्यप्रसङ्गः । तथा हि - राजन्ये वार्त्रघ्न इत्यादौ भसंज्ञयोपजातया लुप्तविभक्त्याश्रयापि पदसंज्ञा एकसंज्ञाधिकाराद् बाधिष्यते । राजत्वं राजतेत्यादौ तु प्रातिपदिकादप्युत्पतौ’स्वादिषु’ इति पदसंज्ञा भवत्येव । ननु तद्धितलुकि सर्वनामस्थाने दोषः, काश्यपेन प्रोक्तमधीयते’काश्यपकौशिकाभ्यामृषिभ्यां णिनिः’ ,’च्छन्दोब्राह्मणानि’ इति तद्विषयतायाम् ।’तदधीते तद्वेद’ इति द्वितीयान्तात्काश्यपिन्शब्दादुत्पन्नस्याणः प्रोक्ताल्लुकि यद्यपि काश्यपिन इत्यादौ भसंज्ञाया लुप्तविभक्तिनिमितया अपि पदसंज्ञाया बाधाददोषः, काश्यपिभ्यामित्यादौ तु भवत्येव पदसंज्ञा; तथापि काश्यपनौ, काश्यपिन इत्यादौ सर्वनामस्थाने भसंज्ञाया अभावाल्लुप्तामन्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा स्यात् । न चासर्वनामस्थान इति प्रतिषेधः, किं कारणम् ? स्वादिष्विति या प्राप्तिस्तस्या एव सनिषेधः । एवं तर्हि ठसर्वनामस्थानेऽ इति विभज्यते, प्रसज्यप्रतिषेधश्चाश्रीयते, तत्सामर्थ्याद् ठनन्तरस्य विधिर्वाऽ इत्येतन्नाश्रीयते, तेन सर्वनामस्थाने परतः पूर्वस्यावधेर्या च यावती पदसंज्ञा स्वादिष्विति वा सुबन्तमिति वा सा सर्वा प्रतिषेत्स्यते । यद्येवम्, राजा दण्डीत्यादौ सावपि न स्यात्,’यच्चिभम्’ इत्यतोऽचीत्येतदसर्वनामस्थाने इत्यत्रापेक्ष्यते, तेनाजादावेव सर्वनामस्थाने सर्वा पदसंज्ञा निषेत्स्यते ? सौ हलादौ स्वादिष्विंति वा सुबन्तमिति वा भविष्यतीत्यदोषः । तदेवं सत्यस्मिन् वचने सुबन्तातद्धिते न कश्चिद्दोष इति स्थितम् । अत एव पूर्वाह्णेतरां पूर्वाह्णेतमामित्यादौ’घकालतनेषु’ इत्यलुक् विधास्यते । ननु सत्यप्यस्मिन् स्वार्थिकेष्वस्याव्यापारात्कथं सुबन्तातरप् स्यात् ? एवं तर्ह्यर्थक्रम एवायमीदृशो यदुत पूर्वं विभक्त्या योगः, पश्चातरपा । उक्तं हि प्रियकुत्सनादिषु ततः प्रवर्ततेऽसौ विभक्त्यन्त इति । एवं च कृत्वाऽलुग्विधानमप्युपद्यते । यदि तु तदेवालुग्विधानं ज्ञापकम्, तस्यापत्यमित्यादौ न विभक्त्यर्थमात्रे तात्पर्यम्, किन्तु षष्ठ।लदिविभक्त्यन्ता एवोपलक्षयितुमिष्टाः । ङ्याप्प्रातिपदिकाधिकारस्तु वृद्धादिविशेषण्त्वेनैवोपयुज्यत इति, तथा सति पदविधित्वात् समर्थपरिभाषयैव व्यवस्था सिद्ध्यति । किञ्चि - अनभिधानादसामर्थ्येन भविष्यति, नार्थः समर्थवचनेन । इदं तर्हि प्रयोजनम् - यदर्थाभिधानसमर्थं तस्माद्यथास्यात् । किं पुनस्तत् ? कृतवर्णाअनुपूर्वीकं पदम् - सौत्थितिः, वैक्षमाणिरिति, अत्र सवर्णदीर्घत्वे कृते प्रत्ययो भवति, सुऔत्थित विऐइक्षमाण - इत्यस्यामवस्थायां न भवति । यदि स्यात्, सावुत्थितिः वायीक्षमाणिरिति प्राप्नोति,’वार्णदाङ्गं बलीयः’ इति वृद्धिप्रसङ्गात् । नन्वन्तरङ्गत्वाद्वार्णेषु कृतेषु प्रत्ययो भविष्यति ? एवं तर्ह्येतदर्थं समर्थवचनं कुर्वन्नेतज्ज्ञापयति - अस्तीयं परिभाषा ठकृतव्यूहाः पाणिनीयाःऽ कृतमपि शास्त्रं निवर्तयन्तीति । व्यूहःउशास्त्रकार्यम्, तदन्तरङ्गत्वात्प्राप्तमपि पश्चादस्य निमितविघातो भविष्यतीति बुद्ध्या न कृतं यैस्तेऽकृतव्यूहाः, एवंभूता भवन्ति पाणिनीया इत्यर्थः । कृतमपीत्यत्र वाशब्दोऽध्याहार्यः, कृमपि वा शास्त्रकार्यं निवर्तयन्ति निमिताभाव उत्पत्स्यमाने इत्यर्थः । तेन पपुष इत्यादि सिद्धं भवति । अत्रान्तरङ्गत्वात्पूर्वकृतोऽपीडागम एतत्परिभाषावशान्निवर्तते, पूर्वमेव वान क्रियते, ततः शसि सम्प्रसारणे कृते वलादित्वादिडभावः । प्रथमान्तादिति । प्रथमानिर्दिष्टादपत्यविशेषवाचिनो देवदतादिशब्दादित्यर्थः । अन्यथा’सास्य देवता’ इति यथा इन्द्रो देवतास्य ऐन्द्रः स्थालीपाक इति प्रथमान्तात् षष्ठ।ल्र्थे प्रत्ययो भवति, एवमिहापि स्यात् - देवदतोऽपत्यमस्य दैवदतिरुपगुरिति । वाग्रहणं किमिति । वृत्तिवाक्ययोर्व्यपेक्षैकार्थीभावलक्षणादर्थभेदादेव बाध्यबाधकभावो न भविष्यतीति प्रश्नः । वाक्यमपि यथा स्यादिति । तद्यथा गोशब्देन गावीशब्दो निवर्तते सत्यामपि स्त्रीत्वप्रतिपतौ, तथेहाप्यौपगवमानयेत्युक्ते य एवानीयते ठुपगोरपत्यमानयऽ इत्युक्ते स एवेति प्रधानार्थभेदाद् वृत्या वाक्यं बाध्येतेति भावः । यद्येवं समासवृत्तिस्तद्धितवृत्या बाध्येतेति ।’यत्रोत्सर्गापवादौ विभाषा तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते’ इति राज्ञोऽनन्तरो राजानन्तर इत्यादिषु सावकाशा समासवृत्तिस्तद्धितवृत्या बाध्येत, यथा - दाक्षिरित्यण् प्रत्यय इञेति भावः । एतदपीति । समासवृत्याख्यं कार्यमित्यर्थः ॥

Nyaas

स्वार्थिकप्रत्ययवधिश्चायमधिकारः`इति। स्वार्थे प्रकृत्यर्थे भवाः स्वार्थिकाः , अध्यात्मादित्वाट्(वा।456) ठञ्। स्वार्थिकाः प्रत्यया अवधिर्मर्यादा यस्य स तथोक्तः। `प्राग्दिशो विभक्तिरिति यावत् इति। अनेन यतः परेण स्वार्थिकाः प्रत्यया अवधिभूताः प्रवर्तन्ते तत्सूत्रं दर्शयन् प्राग्दिशो विभक्तिः (5.3.1) इत्येतत्सूत्रात् प्रागयमधिकार इच्याचष्टे। किं पुनः कारणं स्वार्थिकेष्वयमप्यधिकारो न प्रवर्तते? इत्याह - स्वार्थिकेषु इत्यादि। समर्थानाम् इति। सम्बद्धार्थानमामित्येषोऽर्थः। सम्बद्धार्थता च द्विष्ठत्वात् प्रतियोगिनि सति भवति, स्वार्थिकानाञ्च प्रकृत्यर्थादर्थान्तरं न सम्भवति यत्प्रत्ययायनाय शब्दान्तरं प्रयुज्येत,यदपेक्षया च समर्थता स्यात्। तस्मात् समर्थतावा अभावात् स्वार्थिकेषु समर्थानामित्येतत् तावन्नोपयुज्यते। अत एव प्रतियोगिनोऽभावात् प्रथमादित्येतदपि नोपयुज्यत एव। यदि हि प्रतियोगिशब्दान्तरं स्यात्, तत आशङ्का स्यात् - किं प्रथमात् प्रत्ययः? उत द्वितीयादिति? ततश्च तन्निवृत्तये प्रथमादिति वचनमनुवर्तमानमर्थवत् स्यात्। असति तु द्वि#ईतीये प्रतियोगिनि तदनुवृत्तिर्नोपयुज्यते। विकल्पोऽपि तत्रानवस्थितः`इति। अनियत इत्यर्थः। यतः केचित् स्वार्थिका नित्यमेव भवन्ति। तथा च `अषडक्षाशितङ्ग्वलंकर्मालम् (5.4.7) इत्यादौ सूत्रे भाष्यकारः परिगणनं करिष्यति - के पुनर्नित्याः प्रत्ययाः? तमबादयः प्राक् कात्, ञ्यादयः प्राग्वुनः, आमादयः प्राङमयटः, बृहत्या जात्यन्तात् समासान्ताश्च इति। तत्र अतिशायने तमबिष्ठनौ (5.3.55) इति तमप्प्रभृतयो ये प्रत्ययाः प्रागिवात् कः (5.3.70) इत्येतस्मात् प्राक् ते नित्याः। तथा पूगाञ्ञ्योऽग्रामणीपूर्वात् (5.3.112) इत्यतो ञ्यप्रत्ययात् प्रभृति पादशतस्य संख्यादेर्वीप्सायां वुन्म लोपश्च (5.4.1) इत्यतो वुनः प्राग्ये ते नित्याः। तथा किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे (5.4.11) इत्यत आम्प्रभृति प्राक् तत्प्रकृतवचने मयटो ये प्रत्ययास्ते नित्याः। तथा बृहत्या आच्छादने (5.4.6) इति यो विहितः कप्रत्ययः`जात्यन्ताच्छोबन्धुनि` (5.4.9) इति च यश्चप्रत्ययो ये समासान्ता डजादयस्ते सर्वे नित्याः। तस्माद्विकल्पः स्वार्थिकेष्वनवस्थितः। ततश्च वाग्रहणमपि तत्रानवस्थितमेव क्वचिदनुवर्तते, क्वचिन्नेत्युक्तं भवति।इह प्रथमादिति विशेषणं प्रयोगवाक्यस्य? लक्षमवाक्यस्य वा? यदि प्रथमः ,ततो लौकिके वाक्ये पदानां प्रयोगे नियमो नास्तीति; पात्रमाहर, आहर पात्रमिति प्रयोगात्। ततश्च यदापत्यमुपगोरिति प्रयुज्यते तदापत्यशब्दात् प्रथमासामर्थ्यात् प्रत्ययः स्यात्। ननु च तस्येतनेन सूत्रोपात्तेनानुकरणपदेन षष्ठन्तेन प्रथमेनालौकिकवाक्यसमवायि पश्चान्निर्दिष्टमपि पदमनुकृतम्, तत् प्रथमत्वात् प्रथमव्यपदेशमासादयति। तेन यदाप्यपत्यमुपगोरिति लौकिकं वाक्यं प्रयुज्यते, तदोपगुशब्दादेव यथोक्तेनैव प्रकारेण लब्धप्रथमव्यपदेशात् प्रत्ययो भविष्यति; नापत्यशब्दात्। तदाद्येऽपि पक्षे समाश्रीयमाणे न दोष इति चेत्? वार्तमेतत्; न हि मुख्ये प्रथमे सम्भवपिसति गौणस्य ग्रहणं युक्तम्। अतः सत्यप्युपगुशब्दस्य गौणेन प्रथमत्वे मुख्यात् प्रथमादपत्यशब्दादेव प्रत्ययः स्यात्, नोपगुशब्दात्। प्रतिपत्तिगौरवञ्च। द्वितीये तु पक्ष एव दोषो नावतरति; लक्षमवाक्येषु पदानां प्रयोगस्य नियत्वात्। अतस्तमाश्रित्याह - लक्षणवाक्यानि इत्यादि। समर्थानां मध्ये प्रथमः प्रत्ययप्रकृतित्वेन निर्धारित इति, यथा - कृष्णा गवां सम्पन्नक्षीरतमेति, गवां मध्ये कृष्णा गौः सम्पन्नक्षीरतमात्वेन। यदि तर्हि समर्थानां प्रथमात् प्रत्ययो भवति, एवं सति तस्यापत्यम् (4.1.92) इत्यत्र तस्येत्येतत्सर्वनाम। सामान्यवाचि प्रथमं निर्दिष्टमिति सामान्यवाचिन एव प्रत्ययः स्यात्, न विशेषवाचिनः; प्रातिपदिकादुपग्वित्यादेः, न हि तल्लक्षमवाक्ये प्रथमं निर्दिष्टम्? इत्यत आह -तस्य इत्यादि। विशेषलक्षणार्थम् इति। विशेषोपलक्षणार्थमित्यर्थः। यदि हि तस्येत्येद्विशेषोपलक्षणार्थं न स्यात् तदा समर्थता तस्य न स्यात्। न हि तस्येत्येतत् प्रकरणाद्यनपेक्षं विशेषेष्वतिष्ठछते। न च विशेषेष्वनवस्थितेनानेनापत्यस्य कश्चिदुपकारः कृतो भवति; सम्बन्धिसामान्यस्य सम्बन्धिशब्दत्वात्, अपत्यशब्देनैव गमितत्वात्। ततश्चोपाकारभावात् समर्थता न स्यात्। उच्यतेचेदम् - तस्येति। तस्मात् सामर्थ्याद्विशेषोपलक्षणार्थत्वं तस्येत्यस्य। तेन ये विशेषा उपलक्षिताः = प्रतिपदितान्ते सम्बन्ध्यन्तरव्यवच्छेदेन विशिष्टं सम्बन्धिनं प्रतिपादयन्त उपकारिणो भवन्तीत्युपपद्यते तैः सह सामर्थ्यम्। तस्मात् तस्येतत् सामान्यं विशेषोपलक्षणार्थं द्रष्टव्यम्। तेन तस्य यत् प्राथम्यं तद्विशेषाणामुपगुशब्दादीनां विज्ञायते। ततश्च तत एव प्रत्ययो भवति, न च सामान्यवाचिनः।कम्बल उपगोरपत्यं देवदत्तस्य इति। अत्रोपगुशब्दः कम्बलेन सह सम्बद्धः, नापत्येन। अपत्यशब्दस्यापि देवदत्तशब्देन, नोपगुशब्देन। तस्मादपत्यशब्देन, सहोपगुशब्दस्य सम्बन्धो नास्तीति न ततः प्रत्ययो भवति।वाक्यमपि हि यथा स्यात् इति। असति हि वाग्रहणे वाक्येनापत्यस्याभिधाने प्राप्तेतस्मिन्नर्थे विधीयमानः प्रत्ययस्तन्निवर्तयेत्। ननु च समानेऽर्थे शास्त्रान्वितोऽशास्त्रान्वितस्य निवर्तको भवति, यथा - गमेर्डोः (द।उ।2।11) इत्यनेन शास्त्रान्वितो गोशब्दोऽशास्त्रान्वितस्य गावीशब्दस् समानार्थस्यैव, न तु भिन्नार्थस्य डित्थादेः। न च वृत्तिवाक्ययोः समानोऽर्थः, वृत्तौ ह्रेकार्थीभावः सामर्थ्यम्, वाक्ये तु व्यपेक्षा? नैतदेवम्; सत्यपि ह्रेतस्मिन्नर्थभेदे प्रधानार्थो न भिद्यते, तथा हि - उपगोरपत्यमानयेत्युक्ते य एवार्थोऽपत्यात्यवत्सम्बन्धविशिष्टः स आनीयते। औपगवमानयेत्युक्ते स एव। प्रधानापेक्षयैव च समानार्थः शास्त्रन्वितोऽशास्त्रान्वितं निवर्तयति, अन्यथा हि गोशब्दोऽपि गावीशब्दं न निवर्तयेत्। अस्ति हि तयोरप्यर्थभेदः, तथा हि - गोशब्दो गोत्वमाचष्टे, गावीशब्दस्तु तथा, अशास्त्रियत्वञ्च। तस्मादसति वाग्रहणे यथा गोशब्दः सत्यप्यप्रधानार्थभेदे प्रधानार्थस्य समानर्थाद्गावीशब्दं निवर्तयति, तथा तद्धितोऽपि शास्त्रान्वितोऽशास्त्रन्वितं वाक्यं निवर्तयेत्। तस्माद्वाक्यमपि यथा स्यादिति वाग्रहणं क्रियते। यद्येवम् इत्यादि। यदि वाग्रहणेन तद्धितस्य भावाभावौ कुर्वता वाक्यस्य भावः क्रियते, एवं सति यदा वाक्यं नास्ति तदा तद्धितेनैव भवितव्यम्। समासवृत्तिरुपग्वपत्यमित्येषः तद्धितवृत्त्या बाध्येत। नैष दोषः इत्यादि। गतार्थम्॥

Prakriyasarvasvam

तद्धिताः सम्बन्धार्थयोर्द्वयोः सतोः सूत्रे प्रथमानिर्दिष्टादेव स्युर्विकल्पिताश्च । तेन षष्ठ्यन्तात् प्रत्ययः । नापत्यात् । उपगु ङस् अण् । तद्धितान्तत्वेन प्रातिपदिक- त्वात्सुब्लोपः । णित्त्वाद् ‘तद्धितेष्वचामादेः’ (७-२-११७) इत्यादिवृद्धिः । औपगु अ ।