41076: तद्धिताः =============== **Padacheda:** तद्धिताः | S | 1 | 3 | Sutrartha --------- **इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तं ये प्रत्ययाः वक्ष्यन्ते ते तद्धितसंज्ञकाः भवन्ति ।** अयम् तद्धिताधिकारः । अस्मात् सूत्रात् तद्धितप्रत्ययाः आरभन्ते । एतेषां व्याप्तिः पञ्चमाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तमस्ति । एतेषु सर्वेषु सूत्रेषु ये ये प्रत्ययाः प्रोक्ताः सन्ति, ते सर्वे तद्धितसंज्ञकाः भवन्ति । अत्र केचन बिन्दवः ज्ञातव्याः - 1) पाणिनिना 'तद्धित' शब्दस्य व्याख्या न दीयते । परन्तु शास्त्रे अस्य शब्दस्य अर्थः 'तेभ्यः हिताः तद्धिताः' एतादृशम् क्रियते । 'तेभ्यः' इत्युक्ते 'प्रयोगेभ्यः' । 'हिताः' इत्युक्ते 'उपकारिणः' । इत्युक्ते, ते प्रत्ययाः, ते प्रयोगार्थमुपयुक्ताः सन्ति, तथा च येषाम् योजनेन प्रयोगे माधुर्यम् लाघवम् च आगच्छति, ते प्रत्ययाः 'तद्धितप्रत्ययाः' नाम्ना ज्ञायन्ते । यथा, 'गुरो भावः' इत्यस्य स्थाने 'अण्' इति तद्धितप्रत्ययस्य प्रयोगं कुर्मश्चेत् 'गौरव' इति शब्दः सिद्ध्यति । अयं शब्दः प्रयोगे 'गुरोः भावः' एतमेव अर्थम् निर्देशयति, तथा च, 'गुरोः भावः' इत्यस्य अपेक्षया प्रयोगे सुश्राव्यः अपि भासते । अनेन प्रकारेण तद्धितप्रत्ययाः प्रयोगस्य हितार्थम् प्रयुज्यन्ते । 2) अष्टाध्याय्यामस्मिन् अधिकारे आहत्य 281 प्रत्ययाः पाठिताः सन्ति । एते प्रत्ययाः भिन्नेषु अर्थेषु भिन्नेभ्यः प्रातिपदिकेभ्यः विधीयन्ते । सर्वे प्रत्ययाः सर्वेषु अर्थेषु उत सर्वेभ्यः प्रातिपदिकेभ्यः न भवन्ति एतत् स्मर्तव्यम् । 3) अस्मिन् अधिकारे उपस्थितानि सूत्राणि प्रायः द्वयोः प्रकारयोः सन्ति । प्रथमप्रकारस्य सूत्राणि 'अर्थम्' वदन्ति । यथा - **तस्य अपत्यम्** (4.1.92), **तस्य निवासः** (4.2.69) - आदयः । द्वितीयप्रकारस्य सूत्राणि 'प्रत्ययम्' वदन्ति । यथा - **गर्गादिभ्यः यञ्** (4.1.105), **वृद्धात् छः** (4.2.114) । कानिचन सूत्राणि अर्थमपि वदन्ति, प्रत्ययमपि वदन्ति । यथा - **तदस्यां प्रहरणमिति क्रीडायां णः** (4.2.57), **धान्यानां भवने क्षेत्रे खञ्** (5.2.1) आदयः । कस्यापि तद्धितान्तशब्दस्य सम्यक् निष्पत्त्यै 'सः शब्दः कस्मिन् अर्थे कस्मात् प्रातिपदिकात् कस्मिन् प्रत्यये परे निर्मितः अस्ति' अस्य ज्ञानं आवश्यकं वर्तते, तदर्थम् च द्वयोः प्रकारयोः सूत्रयोः साहाय्यम् स्वीक्रियते । 4) तद्धितप्रकरणे ये अर्थाः पाठिताः सन्ति, तेषाम् प्रामुख्येन पञ्च विभागाः क्रियन्ते, ये 'महोत्सर्गाः' नाम्ना ज्ञायन्ते । एते पञ्च महोत्सर्गाः एतादृशाः - क) प्राक्-दीव्यतीय-अर्थानाम् प्रथमः महोत्सर्गः । अस्मिन् महोत्सर्गे 44 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । ख) प्राक्-वहतीय-अर्थानाम् द्वितीयः महोत्सर्गः । अस्मिन् महोत्सर्गे 36 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'ठक्' प्रत्ययः विधीयते । ग) प्राक्-हितीय-अर्थानाम् तृतीयः महोत्सर्गः । अस्मिन् महोत्सर्गे 31 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'यत्' प्रत्ययः विधीयते । घ) प्राक्-क्रीतीय-अर्थानाम् चतुर्थः महोत्सर्गः । अस्मिन् महोत्सर्गे 3 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'छ' प्रत्ययः विधीयते । ङ) प्राक्-वतीय-अर्थानाम् पञ्चमः महोत्सर्गः । अस्मिन् महोत्सर्गे 27 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'ठञ्' प्रत्ययः विधीयते । अनेन प्रकारेण एतेषु पञ्च महोत्सर्गेषु आहत्य 141 अर्थाः उच्यन्ते । एतान् विहाय अपि अन्ये अनेके अर्थाः पञ्चमाध्यायस्य अन्तिम-त्रय-पादेषु उक्ताः सन्ति । 5) **स्त्रियाम्** (4.1.3) अस्मात् सूत्रात् आरब्धः स्त्र्यधिकारः इदानीमपि चलन् अस्ति । **दैवयज्ञि..** (4.1.81) इति यावत् **स्त्रियाम्** (4.1.3) अधिकारस्य व्याप्तिः अस्ति । अतः वर्तमानसूत्रात् आरभ्य **दैवयज्ञि..** (4.1.81) इति यावत्सु सूत्रेषु प्रोक्ताः प्रत्ययाः स्त्रीप्रत्ययाः अपि सन्ति, तद्धितसंज्ञकाः अपि सन्ति । तस्मात् अग्रे **समर्थानाम् प्रथमात् वा** (4.1.82) इत्यस्मात् सूत्रात् केवलं तद्धितप्रत्ययाः एव उच्यन्ते । 6) अस्मिन् सूत्रे आचार्यः 'तद्धित' शब्दस्य बहुवचनस्य प्रयोगं करोति । अस्मिन् विषये काशिकाकारः वदति - 'बहुवचनमनुक्त-तद्धित-परिग्रहार्थम्' । इत्युक्ते, केचन तद्धितप्रत्ययाः अत्र न प्रोक्ताः सन्ति (परन्तु प्रयोगे दृश्यन्ते) । तेषामपि ग्रहणं कर्तुमत्र बहुवचनस्य प्रयोगः क्रियते । Sutrartha (English) ------------------- The प्रत्ययाः that are being told from now onwards up to end of the fifth chapter are called तद्धितप्रत्ययाः. Vasu English Summary -------------------- The तद्धित-affixes are treated of here after. Vasu English Translation ------------------------ The तद्धित-affixes are treated of here after. This is an *adhikara* or governing *sutra*. Up to the end of the Fifth Book, all the affixes that will be taught, are to be understood to have the name of *Taddhita*. Thus the affix ति taught in the very next *sutra*. As युवतिः The word so formed is called *Pratipadika*. The word तद्धिताः is in the number, and not exhibited in the singular, like the words प्रत्ययः (3.1.1) &c; and it, therefore, indicates that it includes also affixes which are not especially taught in this book. Such as पृथिव्य ञाञौ॥ अग्रादि पश्चाड् डिमच् ॥ As पार्थिव, अग्रिम, आदिम, पश्चिम ॥ See *Vart* IV. 3.23. The word *Taddhita* is used in *Sutras* like कृत्तद्धितसमासाश्च (1.2.46). Kashika ------- अधिकारोऽयम्। आ पञ्चमाध्यायपरिसमाप्तेर्यानित ऊर्ध्वमनुक्रमिष्यामः, तद्धितसंज्ञास्ते वेदितव्याः। वक्ष्यति — **यूनस्तिः** (४.१.७७) — युवतिः। बहुवचनमनुक्त — तद्धितपरिग्रहार्थम्। **पृथिव्या ञाञौ** (वा० ४.१.८५)। **अग्रादिपश्चाड्डिमच्**(वा० ४.३.२३) इत्येवमादि लब्धं भवति। तद्धितप्रदेशाः — **कृत्तद्धितसमासाश्च** (१.२.४६) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- आपञ्चमसमाप्तेरधिकारोऽयम् ॥ Laghu Siddhanta Kaumudi ----------------------- आपञ्चमसमाप्तेरधिकारोऽयम्॥ Balamanorama ------------ **तद्धिताः** - तद्धिताः । वक्ष्यमाणाः प्रत्ययास्तद्धितसंज्ञकाः प्रत्येतव्या इत्यर्थः । अधिकार सूत्रमेतत् । उत्तरावधिमाह — आ पञ्चमेति । Padamanjari ----------- युवतिरिति । तद्धितसंज्ञायां सत्यां'कृतद्धितसमासाश्च' इति प्रातिपदिकसंज्ञा भवति । बहुवचनमित्यादि ।'प्रत्ययः' इत्यादिवदेकवचन एव कर्तव्ये बहुवचनेनसंज्ञिनां बहुत्वसूचनादनुक्तोऽपि तद्धितः परिगृह्यत इति मन्यते । स्त्रीप्रत्ययानामादितस्तद्धिताधिकारे क्रियमाणे'प्राचां ष्फ तद्धितः' इत्यत्र तद्धितग्रहणं न कर्तव्यम्,'यस्येति च' इत्यत्र चकारग्रहणम्,'ङ्याप्प्रातिपदिकात्' इत्यत्र तु तदन्तातद्धितविधानार्थं ङ्याव्ग्रहणं कर्तव्यमेव ? सत्यम्; ङीबादीनां ङ्कारस्येत्संज्ञा न स्यात्, ठतद्धितेऽ इति प्रतिषेधात् । सत्यामपि वा पट्वीत्यादौ ठोर्गुणःऽ स्यात् । तस्माद्यथान्यासमेवास्तु ॥ Nyaas ----- `युवतिः` इति। तद्धितसंज्ञायां सत्यां `कृत्तद्धित` (1.2.46) इत्यादिना प्रातिपदिकसंज्ञा भवति। अथ `तद्धिताः` इति न सम्भवति बहुवचननिर्देशः, यथैव हि **प्रत्ययः** (3.1.1) इत्येकवचननिर्देशेऽपि वक्ष्यमाणानां बहूनामपि सन्नादीनां सर्वेषां सा संज्ञा भविष्यति, तथाऽत्राप्येकवचनेनैव निर्देशः कर्तव्यः? इत्यत आह - `बहुवचनम्` इत्यादि। एकवचन एव कर्तव्ये यद्बहुवचनं क्रियते तस्यैतत्प्रयोजनम् -अनुक्ता ये तद्धिता लक्षणवाक्यैरनभिहितास्तेषामपि परिग्रहो यथा स्यात्। ततः `पृथिव्या ञाञौ` (वा।376) इत्यादि न कर्तव्यं भवति। बहुवचननेनैवानुक्ततद्धितपरिग्रहार्थेन तेषां सिद्धत्वे महत्याः संज्ञायाः करण एतत् प्रयोजनम्, अन्वर्थसंज्ञा यथा विज्ञायेत - तेभ्यो हितास्तद्धिताः। तदित्यनेन लौकिका वैदिकाश्च शब्दाः प्रत्यवमृश्यन्ते; तेषां व्युत्पाद्यत्वेन प्रकृतत्वात् तेन तत्रैव भवन्त्यणादयो यत्र च भवन्तस्तेषामुपकारिणो भवन्ति, नान्यत्रेति। तेनाभिधानलक्षणत्वं तद्धितानामुपपन्नं भवति। अथ तद्धिताधिकारः स्त्रीप्रत्ययानामादित एव कस्मान्न क्रियते? किमेव सति भवति? तद्धितानामुपपन्नं तद्धितानन्तत्वात् प्रातिपदिकमिति `ङ्याप्प्रातिपद#इकात्` (4.1.1) इत्यत्र ङ्याब्ग्रहमं न कर्तव्यं भवति, **प्राचां ष्फ तद्धितः** (4.1.17) इत्यत्र च तद्धितग्रहणम्, **यस्येति च** (6.4.148) इतीकारग्रहणञ्च;तद्धित इत्येवं सिद्धत्वात्? अशक्यमेवं कर्त्तुम्; एवं हि क्रियमाणे तत्र ङ्याब्ग्रहणस्य यत् पूर्वं प्रयोजनमुक्तं तन्न स्यात्; ङीब्ङीष्ङीनाञ्च ङकारस्येत्संज्ञा `अतद्धिते` (1.3.8) इति प्रतिषेधात्। इह च पट्वीति **ओर्गुणः** (6.4.146) इति गुणः स्यात्। तस्माद्यथान्यासमेवास्तु॥ Praudhamanorama --------------- बहुवचनमनुक्तानामुपसंख्येयानां सङ्ग्रहार्थम्। महासंज्ञाकरणं च तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इत्यन्वर्थत्वाय। तेन यथाऽभिधानमेव स्युः। स्यादेतत्। टापः प्रागयमधिकारोऽस्तु ष्फविधौ तद्धितग्रहणं, यस्येति लोपे ईद्ग्रहणं च मास्त्विति चेत्? मैवम्, पट्वीत्यत्र ओर्गुणप्रसङ्गात्। Prakriyasarvasvam ----------------- इत ऊर्ध्वं प्रत्ययास्तद्धिताख्याः ॥